संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५३

काशीखण्डः - अध्याय ५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्तिरुवाच ॥
अपूवेंयं कथा ख्याता ब्रह्मणो ब्रह्मवित्तम ॥
किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते ॥१॥
॥ स्कंद उवाच ॥
शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते ॥
गिरिशश्चिंतयामास भृशमुद्विग्नमानसः ॥२॥
पुरी सा यादृशी काशी वशीकरणभूमिका ॥
न तादृशीदृशीहासीत्क्वचिन्मे प्रायशो ध्रुवम् ॥३॥
यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति ॥
अभूवन्ननुयोगिन्योऽयोगिन्यः काशिसंगताः ॥४॥
अकिंचित्करतां प्राप्तः स सहस्रकरोप्यरम् ॥
विधिर्विधानदक्षोपि न मे स सविधोभवत् ॥५॥
चिंतयन्निति देवेशो गणानारहूय भूरिशः ॥
प्रेषयामास भो यात क्षिप्रं वाराणसीं पुरीम् ॥६॥
किं कुर्वंति तु योगिन्यः किं करोति स भानुमान् ॥
गत्वा वित्त त्वरायुक्ता विधिश्च विदधाति किम् ॥७॥
नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम्॥
शंकुकर्ण महाकाल घटाकर्ण महोदर ॥८॥
सोमनंदिन्नंदिषेण काल पिंगल कुक्कुट ॥
कुंडोदर मयूराक्ष बाण गोकर्ण तारक ॥९॥
तिलपर्ण स्मृलकर्ण दृमिचंड प्रभामय ॥
सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ॥१०॥
वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥
पंचाक्षभारभूताख्य त्र्यक्ष क्षेमक लांगलिन्॥११॥
विराध सुमुखाषाढे भवंतो मम सूनवः ॥
यथेमौ स्कंदहेरंबौ नैगमेयो यथा त्वयम् ॥१२॥
यथा शाखविशाखौ च यथेमौ नंदिभृंगिणौ ॥
भवत्सु विद्यमानेषु महाविक्रमशालिषु ॥१३॥
काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च ॥
योगिन्यर्कविधीनां च तद्द्वौ यातं भवत्स्वमू ॥१४॥
शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ ॥
ज्ञातुं वाराणसीवार्तामायातं चत्वरान्वितौ ॥१५॥
कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम् ॥
शंकुकर्णमहाकालौ विस्मृत्य शांभवीं गिरम् ॥१६॥
यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः ॥
क्षणेन मोहमायाति काशीं वीक्ष्य तथैव तौ ॥१७॥
अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः ॥
निर्वाणराशिं यत्काशीं प्राप्य यांत्यन्यतोऽबुधाः ॥१८॥
तत्यजे यैरियं काशी महाशीर्वादभूभिका ॥
तेषां करतलान्मुक्तिः प्राप्तापि परितो गता ॥१९॥
यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते ॥
अप्युष्णीकृतपानीयैस्तां काशीं कः परित्यजेत् ॥२०॥
यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि ॥
दशसौवर्णिकं पुण्यं कस्तां काशीं परित्यजेत् ॥२१॥
यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः ॥
तुच्छमेंद्रपदंप्राहुस्तां काशीं को विमुंचति ॥२२॥
यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया ॥
वाजपेयाधिकं पुण्यं तां काशीं को विमुंचति ॥२३॥
एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै ॥
लभेदयुत गोपुण्यं कस्तां काशीं त्यजेत्सुधीः ॥२४॥
एकलिंगं प्रतिष्ठाप्य यत्र संस्थापितं भवेत् ॥
अपि त्रैलोक्यमखिलं तां काशीं कः समुज्झति ॥२५॥
परिनिश्चित्य तावित्थं लिंगे संस्थाप्य पुण्यदे ॥
तत्रैव संस्थितिं प्राप्तौ काशीं नाद्यापि मुंचतः ॥२६॥
शंकुकर्णेश्वरं लिंगं शंकुकर्ण ग णार्चितम् ॥
दृष्ट्वा न जायते जंतुर्जातु मातुर्महोदरे ॥२७॥
विश्वेशाद्वायुदिग्भागे शंकुकर्णेश्वरं नरः ॥
संपूज्य न विशेदत्र घोरे संसारसागरे ॥२८॥
महाकालेश्वरं लिंगं महाकालगणार्चितम् ॥
अर्चयित्वा च नत्वा च स्तुत्वा कालभयं कुतः ॥२९॥
॥ स्कंद उवाच ॥
शंकुकर्णे महाकाले चिरंतन विलंबिते ॥
ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ ॥३०॥
घंटाकर्ण त्वमागच्छ महोदर महामते ॥
काशीं यातं युवां तूर्णं ज्ञातुं तत्रत्य चेष्टितम् ॥३१॥
इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम्॥
व्यावृत्याद्यापि नो यातौ क्वापि तत्रैव संस्थितौ ॥३२॥
घंटाकर्णेश्वरं लिंगं घंटाकर्ण गणोत्तमः ॥
काश्यां संस्थाप्य विधिवत्स्वयं तत्रैव निर्वृतः ॥३३॥
कुंडं तत्रैव संस्थाप्य लिंगस्नपनकर्मणे ॥
नाद्यापि स त्यजेत्काशीं ध्यायँल्लिंगं तथैव हि ॥३४॥
महोदरोपि तत्प्राच्यां शिवध्यानपरायणः ॥
महोदरेश्वरं लिंगं ध्यायेदद्यापि कुंभज ॥३५॥
महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम ॥
कदाचिदपि वै मातुः प्रविशेन्नौदरीं दरीम् ॥३६॥
घंटाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम् ॥
यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत्॥३७॥
घंटाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः ॥
अपि दुर्गतिमापन्नानुद्धरेत्सप्तपूर्वजान् ॥३८॥
निमज्ज्याद्यापि तत्कुंडे क्षण योवहितो भवेत् ॥
विश्वेश्वरमहापूजा घंटारावाञ्शृणोति सः ॥३९॥
वदंति पितरः काश्यां घंटाकर्णेमलेजले॥
दाता तिलोदकस्यापि वंशे नः कोपि जायते ॥४०॥
यद्वंश्या मुनयः काश्यां घंटाकर्णे महाह्रदे॥
कृतोदकक्रियाः प्राप्ताः परां सिद्धिं घटोद्भव ॥४१॥
॥ स्कंद उवाच॥
घंटाकर्णे गणे याते प्रयाते च महोदरे ॥
विसिस्माय स्मरद्वेष्टा मौलिमांदोलयन्मुहुः ॥४२॥
उवाच च मनस्येव हरः स्मित्वा पुनःपुनः ॥
महामोहनविद्यासि काशि त्वां पर्यवैम्यहम् ॥४३॥
पुराविदः प्रशंसंति त्वां महामोहहारिणीम् ॥
काशींत्विति न जानंति महामोहनभूरियम् ॥४४॥
प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति ॥
इति सम्यग्विजानामि काशि त्वां मोहनोषधिम् ॥४९॥
तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः ॥
नोद्यमाद्विरमंतीह ज्ञानिनः साध्यकर्मणि ॥४६॥
नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः ॥
प्रतिकूलोपि खिद्येत विधिस्तत्सततोद्यमात् ॥४७॥
शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोंगणे ॥
गतिं न त्यजतोद्यापि प्रक्रांतव्य कृतोद्यमौ ॥४८॥
एकत्र हंति कार्याणि प्रातिकूल्याद्विधिर्मुहुः ॥
एकत्रकरणीयानि सेत्स्यंत्यत्र भृशोद्यमात् ॥४९॥
दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः ॥
तन्निराकरणे यत्नः स्वयं कार्यो विपश्चिता ॥५०॥
भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत् ॥
हस्तवक्त्रोद्यमात्तच्च प्रविशेदौदरीं दरीम् ॥५१॥
इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम् ॥
पुनश्च प्रेषयांचक्रे गणान्पंचमहारयान् ॥५२॥
सोमनंदी नंदिषेणः कालपिंगलकुक्कुटाः ॥
तेद्यापि न निवर्तंते काश्यां जीवामृता यथा ॥५३॥
तेपि स्वनाम्ना लिंगानि शंभुसंतुष्टि काम्यया॥
प्रतिष्ठाप्य स्थिताः काश्यां विश्वनिर्वाणजन्मनि ॥५४॥
सोमनंदीश्वरं दृष्ट्वा लिंगं नंदवने परम् ॥
सोमलोके परानंदं प्राप्नुयाद्भक्तिमान्नरः ॥५५॥
तदुत्तरे विलोक्याथ नंदिषेणेश्वरं नरः ॥
आनंदसेनां संप्राप्य जयेन्मृत्युमपि क्षणात् ॥५६॥
कालेश्वरं महालिंगं गंगायाः पश्चिमोत्तरे ॥
प्रणम्य कालपाशेन नो बध्येत कदाचन ॥५७॥
पिंगलेश्वरमभ्यर्च्य कालेशात्किंचिदुत्तरे ॥
लभते पिंगलज्ञानं येन तन्मयतां व्रजेत् ॥५८॥
कुक्कुटेश्वर लिंगस्य येत्र भक्तिं वितन्वते ॥
कुक्कुटांडाकृतेस्तस्य न ते गर्भमवाप्नुयुः ॥५९॥
॥ स्कंद उवाच ॥
सोमनंदि प्रभृतिषु मुने पंचगणेष्वपि ॥
आनंदकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत् ॥६०॥
कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते ॥
अनेनोपाधिनाप्येते तत्र तिष्ठंतु मामकाः ॥६१॥
प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि ॥
अहमेव प्रविष्टोस्मि वाराणस्यां न संशयः ॥६२॥
क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः ॥
तत्र सर्वेषु यातेषु ततो यास्याम्यहं पुनः ॥६३॥
संप्रधार्येति हृदये देवदेवेन शूलिना ॥
प्रैषिष्ट प्रमथानां तु ततो गणचतुष्टयम् ॥६४॥
कुंडोदरो मयूराख्यो बाणो गोकर्ण एव च ॥
मायाबलं समाश्रित्य काशीं प्रविविशुर्गणाः ॥६५॥
कृत्वोपायशतं तैस्तु दिवोदासस्य संभ्रमे
यदैकोपि समर्थो न तदा तत्रैव संस्थितम् ॥६६॥
अपराधशतेष्वीशः केन तुष्यति कर्मणा ॥
संप्रधार्येति ते चक्रुर्लिंगाराधनमुत्तमम् ॥६७॥
एकस्मिञ्शांभवे लिंगे विधिनात्र समर्चिते ॥
क्षमेत्त्र्यक्षोपराधानां शतं मोक्षं च यच्छति ॥६८॥
न तुष्यति तथा शंभुर्यज्ञदानतपोव्रतैः ॥
यथा तुष्येत्सकृल्लिंगे विधिनाभ्यर्चिते सति ॥६९॥
लिंगार्चनविधानज्ञो लिंगार्चनरतः सदा ॥
त्र्यक्ष एव स विज्ञेयः साक्षाद्द्व्यक्षोपि मानवः ॥७०॥
न गोशतप्रदानेन न स्वर्णशतदानतः ॥
तत्फलं लभ्यते पुंभिर्यत्सकृल्लिंगपूजनात् ॥७१॥
अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते ॥
यत्फलं लभ्यते मर्त्यैर्नित्यं लिंगप्रपूजनात् ॥७२॥
स्नापयित्वा विधानेन यो लिंगस्नपनोदकम् ॥
त्रिः पिबेत्त्रिविधं पापं तस्येहाशु प्रणश्यति ॥७३॥
लिंग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् ॥
गंगास्नानफलं तस्य जायतेत्र विपाप्मनः ॥७४॥
लिंगं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत् ॥
संदेहो जायते तस्य पुनर्देहनिबंधने ॥७५॥
लिंगं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात् ॥
मुच्यते नात्र संदेहो विशुद्धः स्वर्गभाग्भवेत् ॥७६॥
विचार्येति गणैः काश्यां स्वामिद्रोहोपशांतये ॥
प्रतिष्ठितानि लिंगानि महापातकभिंद्यपि ॥७७॥
कुंडोदरेश्वरं लिंगं दृष्ट्वा लोलार्कसन्निधौ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥७८॥
कुंडोदरेश्वराल्लिंगात्प्रतीच्यामसिरोधसि ॥
मयूरेश्वरमभ्यर्च्य न गर्भं प्रतिपद्यते ॥७९॥
मयूरेशप्रतीच्यां च लिंगं बाणेश्वरं महत् ॥
तस्य दर्शनमात्रेण सर्वैः पापैः प्रमुच्यते ॥८०॥
गोकर्णेशं महालिंगमंतर्गेहस्य पश्चिमे ॥
द्वारे समर्च्य वै काश्यां न विघ्नैरभिभूयते ॥८१॥
गोकर्णेश्वर भक्तस्य पंचत्व समये सति ॥
ज्ञानभ्रंशो न जायेत क्वचिदप्यंतमृच्छतः ॥८२॥
॥ स्कंद उवाच ॥
चिरयत्सुगणेष्वेषु चतुर्ष्वपिगणेश्वरः ॥
महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत् ॥८३॥
वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम्॥
ध्रुवं मूर्तिमती सैषा काशी विश्वैकमोहिनी ॥८४॥
अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ॥
अप्यंगीकृत्य निधनं सर्वे काशीमुपासते ॥८५॥
मरणादपि नो काश्यां भयं यत्र मनागपि ॥
गणास्तत्र तु तिष्ठंतः कुतो मत्तोपि बिभ्यति ॥८६॥
मरणं मंगलं यत्र विभूतिर्यत्र भूषणम् ॥
कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ॥८७॥
निर्वाणरमणी यत्र रंकं वाऽरंकमेव वा ॥
ब्राह्मणं वा श्वपाकं वा वृणीते प्रांत्यभूषणम् ॥८८॥
मृतानां यत्र जंतूनां निर्वाणपदमृच्छताम् ॥
कोट्यंशेनापि न समा अपि शक्रादयः सुराः ॥८९॥
यत्र काश्यां मृतो जंतुर्ब्रह्मनारायणादिभिः ॥
प्रबद्ध मूर्धांजलिभिर्नमस्येतातियत्नतः ॥९०॥
यत्र काश्यां शवत्वेपि जंतुर्नाशुचितां व्रजेत् ॥
अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम् ॥९१॥
यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान् ॥
अपि सर्वपवित्रेभ्यः स पवित्रतरो महान् ॥९२॥
येन काशी हृदि ध्याता येन काशीह सेविता ॥
तेनाहं हृदि संध्यातस्तेनाहं सेवितः सदा ॥९३॥
काशीं यः सेवते जंतुर्निर्विकल्पेन चेतसा ॥
तमहं हृदये नित्यं धारयामि प्रयत्नतः ॥९४॥
स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम् ॥
अप्येकमपि मूल्येन स वस्तुःफलभाग्ध्रुवम् ॥९५॥
काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः ॥
जीवन्मुक्तास्तु ते ज्ञेया वंद्याः पूज्यास्त एव हि ॥९६॥
इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान् ॥
गणानन्यान्समाहूय प्राहिणोत्प्रीतिपूर्वकम् ॥९७॥
तारकत्वं समागच्छ गच्छाति स्वच्छमानस ॥
दिवोदासो वृषावासो यामधीष्टे वरां पुरीम् ॥९८॥
तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय ॥
सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ॥९९॥
वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥
पंचाक्ष भारभूताख्य त्र्यक्ष क्षेमकलांगलिन् ॥१००॥
विराध सुमुखाषाढे यांतु सर्वे पृथक्पृथक् ॥
एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ॥१॥
कृत्वा माया बहुविधा बहुरूपा विचक्षणाः॥
अनिमेषेक्षणास्तस्थुः क्षोणीशच्छिद्रकांक्षिणः ॥२॥
अपरुज्ञात तच्छिद्रा विद्रावितयशोधनाः॥
आः किमेतदहोजातं निनिंदुः स्वमितीह ते ॥३॥
गणा ऊचुः ॥
धिगस्मान्स्वामिना नित्यं कृतसंभावनान्मुहुः ॥
मनुष्यमात्रमप्यत्र यैरेकं न वशीकृतम् ॥४॥
बहुमानेन दानेन सौहार्देन महीयसा ॥
कृतप्रसादांस्त्र्यक्षेण धिङ्नस्तत्कार्यवंचकान् ॥५॥
का गतिर्नो भवित्रीह स्वामिकृत्यप्रमादिनाम् ॥
अंधं तमोमये लोके ध्रुवं वासो भविष्यति ॥६॥
अकृतस्वामिकार्याणामहो जीवितधारिणाम्॥
अक्षतेंद्रियवृत्तीनां दुर्गतिश्च पदे पदे ॥७॥
लब्धसंभावनानां च न्यक्कृतस्वामिकर्मणाम् ॥
भृत्यानां भूरिभाजां च भंगुराः स्युर्मनोरथाः ॥८॥
अनिष्पादितकार्यार्था ये मुखं प्रेक्षयंत्यहो ॥
अपत्रपाः पुरो भर्तुस्तैर्भूर्भारवतीत्वियम् ॥९॥
नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् ॥
भूतधात्र्यास्तथा भारो यथा स्वामिद्रुहां महान् ॥११०॥
अहो पौराणिकी गाथा स्मृतास्माभिरनिंदिता ॥
तदर्थमवलंब्येह स्थास्यामः कृतनिश्चयाः ॥११॥
अनाकलितपुण्यानां परिक्षीणधनायुषाम् ॥
सर्वोपायविहीनानां गतिर्वाराणसीपुरी ॥१२॥
अपुण्यभारखिन्नानां पश्चात्तापमुपेयुषाम्॥
विष्वगूर्ध्वगतीनां च गतिर्वाराणसीपुरी ॥१३॥
स्वामिद्रुहः कृतघ्नाश्च ये च विश्रंभघातकाः ॥
तेषां क्वापि गतिर्नास्ति मुक्त्वा वाराणसीं पुरीम् ॥१४॥
इत्थं निश्चित्य गाथार्थं प्रमथा अवतस्थिरे ॥
अविज्ञातस्वरूपाश्च दिवोदासेन भूभुजा ॥१५॥
न बुबोध स भूपालो नितरां बुद्धिमानपि ॥
विबुधान्विविधाकारैः स्थितानीशप्रभावतः ॥१६॥
चित्रं न चित्रगुप्तोपि वेत्ति वाराणसीस्थितान्॥
जंतून्का गणनान्येषां मर्त्यलोकनिवासिनाम् ॥१७॥
अविच्छिन्न प्रभावाणामपरिच्छिन्न तेजसाम् ॥
कृतलिंगप्रतिष्ठानां नांतं प्राप्नोति धर्मराट् ॥१८॥
इति ते प्रमथाः सर्वे घटोद्भव महामुने ॥
कृतलिंगार्चनाः काशीं नाद्याप्युज्झंति शर्मदाम् ॥१९॥
तारकेशं महालिंगं तारकाख्यो गणोत्तमः ॥
तारकज्ञानदं पुंसां मुनेऽद्यापि समर्चयेत् ॥१२०॥
तारकेश्वरलिंगस्य कृत्वा भक्तिसुनिश्चलाम् ॥
सुखेन तारकज्ञानं लभ्यते तैर्नरोत्तमैः ॥२१॥
तिलपर्णेश्वरं लिंगं तिलपर्ण प्रतिष्ठितम् ॥
तिलप्रमाणमप्यत्र दृष्ट्वा पापं न संभवेत् ॥२२॥
स्थूलकर्णेश्वरं लिंगं परिपूज्य नरोत्तमः ॥
न दुर्गतिमवाप्नोति पुण्यमाप्नोति चोत्तमम् ॥२३॥
दृमिचंडेश्वरं लिंगं तथा लिंगं प्रभामयम् ॥
आराध्य तत्प्रतीच्यां च न पापैरभिभूयते ॥२४॥
प्रभामयेश्वरं लिंगं दृष्ट्वान्यत्रापि संस्थितः ॥
प्रभामयेन यानेन शिवलोके व्रजेत्सुधीः ॥२५॥
सुकेशेश्वरमभ्यर्च्य हरिकेशवने नरः ॥
षाट्कौशिकमयं देहं धारयेन्न पुनःपुनः ॥२६॥
विंदतीशं नरोभ्यर्च्य भीमचंडी समीपतः ॥
त्यक्त्वा प्रचंडमप्येनो मोक्षं विंदति शाश्वतम् ॥२७॥
छागलेशं महालिंगं पित्रीश्वरसमीपगम् ॥
विलोक्य पशुवत्कोपि न पापं प्राकृतं स्पृशेत् ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वाराणसीवर्णनं गणप्रेषणं नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP