संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ५३ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ५३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५३ Translation - भाषांतर ॥ अगस्तिरुवाच ॥अपूवेंयं कथा ख्याता ब्रह्मणो ब्रह्मवित्तम ॥किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते ॥१॥॥ स्कंद उवाच ॥शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते ॥गिरिशश्चिंतयामास भृशमुद्विग्नमानसः ॥२॥पुरी सा यादृशी काशी वशीकरणभूमिका ॥न तादृशीदृशीहासीत्क्वचिन्मे प्रायशो ध्रुवम् ॥३॥यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति ॥अभूवन्ननुयोगिन्योऽयोगिन्यः काशिसंगताः ॥४॥अकिंचित्करतां प्राप्तः स सहस्रकरोप्यरम् ॥विधिर्विधानदक्षोपि न मे स सविधोभवत् ॥५॥चिंतयन्निति देवेशो गणानारहूय भूरिशः ॥प्रेषयामास भो यात क्षिप्रं वाराणसीं पुरीम् ॥६॥किं कुर्वंति तु योगिन्यः किं करोति स भानुमान् ॥गत्वा वित्त त्वरायुक्ता विधिश्च विदधाति किम् ॥७॥नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम्॥शंकुकर्ण महाकाल घटाकर्ण महोदर ॥८॥सोमनंदिन्नंदिषेण काल पिंगल कुक्कुट ॥कुंडोदर मयूराक्ष बाण गोकर्ण तारक ॥९॥तिलपर्ण स्मृलकर्ण दृमिचंड प्रभामय ॥सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ॥१०॥वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥पंचाक्षभारभूताख्य त्र्यक्ष क्षेमक लांगलिन्॥११॥विराध सुमुखाषाढे भवंतो मम सूनवः ॥यथेमौ स्कंदहेरंबौ नैगमेयो यथा त्वयम् ॥१२॥यथा शाखविशाखौ च यथेमौ नंदिभृंगिणौ ॥भवत्सु विद्यमानेषु महाविक्रमशालिषु ॥१३॥काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च ॥योगिन्यर्कविधीनां च तद्द्वौ यातं भवत्स्वमू ॥१४॥शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ ॥ज्ञातुं वाराणसीवार्तामायातं चत्वरान्वितौ ॥१५॥कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम् ॥शंकुकर्णमहाकालौ विस्मृत्य शांभवीं गिरम् ॥१६॥यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः ॥क्षणेन मोहमायाति काशीं वीक्ष्य तथैव तौ ॥१७॥अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः ॥निर्वाणराशिं यत्काशीं प्राप्य यांत्यन्यतोऽबुधाः ॥१८॥तत्यजे यैरियं काशी महाशीर्वादभूभिका ॥तेषां करतलान्मुक्तिः प्राप्तापि परितो गता ॥१९॥यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते ॥अप्युष्णीकृतपानीयैस्तां काशीं कः परित्यजेत् ॥२०॥यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि ॥दशसौवर्णिकं पुण्यं कस्तां काशीं परित्यजेत् ॥२१॥यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः ॥तुच्छमेंद्रपदंप्राहुस्तां काशीं को विमुंचति ॥२२॥यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया ॥वाजपेयाधिकं पुण्यं तां काशीं को विमुंचति ॥२३॥एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै ॥लभेदयुत गोपुण्यं कस्तां काशीं त्यजेत्सुधीः ॥२४॥एकलिंगं प्रतिष्ठाप्य यत्र संस्थापितं भवेत् ॥अपि त्रैलोक्यमखिलं तां काशीं कः समुज्झति ॥२५॥परिनिश्चित्य तावित्थं लिंगे संस्थाप्य पुण्यदे ॥तत्रैव संस्थितिं प्राप्तौ काशीं नाद्यापि मुंचतः ॥२६॥शंकुकर्णेश्वरं लिंगं शंकुकर्ण ग णार्चितम् ॥दृष्ट्वा न जायते जंतुर्जातु मातुर्महोदरे ॥२७॥विश्वेशाद्वायुदिग्भागे शंकुकर्णेश्वरं नरः ॥संपूज्य न विशेदत्र घोरे संसारसागरे ॥२८॥महाकालेश्वरं लिंगं महाकालगणार्चितम् ॥अर्चयित्वा च नत्वा च स्तुत्वा कालभयं कुतः ॥२९॥॥ स्कंद उवाच ॥शंकुकर्णे महाकाले चिरंतन विलंबिते ॥ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ ॥३०॥घंटाकर्ण त्वमागच्छ महोदर महामते ॥काशीं यातं युवां तूर्णं ज्ञातुं तत्रत्य चेष्टितम् ॥३१॥इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम्॥व्यावृत्याद्यापि नो यातौ क्वापि तत्रैव संस्थितौ ॥३२॥घंटाकर्णेश्वरं लिंगं घंटाकर्ण गणोत्तमः ॥काश्यां संस्थाप्य विधिवत्स्वयं तत्रैव निर्वृतः ॥३३॥कुंडं तत्रैव संस्थाप्य लिंगस्नपनकर्मणे ॥नाद्यापि स त्यजेत्काशीं ध्यायँल्लिंगं तथैव हि ॥३४॥महोदरोपि तत्प्राच्यां शिवध्यानपरायणः ॥महोदरेश्वरं लिंगं ध्यायेदद्यापि कुंभज ॥३५॥महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम ॥कदाचिदपि वै मातुः प्रविशेन्नौदरीं दरीम् ॥३६॥घंटाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम् ॥यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत्॥३७॥घंटाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः ॥अपि दुर्गतिमापन्नानुद्धरेत्सप्तपूर्वजान् ॥३८॥निमज्ज्याद्यापि तत्कुंडे क्षण योवहितो भवेत् ॥विश्वेश्वरमहापूजा घंटारावाञ्शृणोति सः ॥३९॥वदंति पितरः काश्यां घंटाकर्णेमलेजले॥दाता तिलोदकस्यापि वंशे नः कोपि जायते ॥४०॥यद्वंश्या मुनयः काश्यां घंटाकर्णे महाह्रदे॥कृतोदकक्रियाः प्राप्ताः परां सिद्धिं घटोद्भव ॥४१॥॥ स्कंद उवाच॥घंटाकर्णे गणे याते प्रयाते च महोदरे ॥विसिस्माय स्मरद्वेष्टा मौलिमांदोलयन्मुहुः ॥४२॥उवाच च मनस्येव हरः स्मित्वा पुनःपुनः ॥महामोहनविद्यासि काशि त्वां पर्यवैम्यहम् ॥४३॥पुराविदः प्रशंसंति त्वां महामोहहारिणीम् ॥काशींत्विति न जानंति महामोहनभूरियम् ॥४४॥प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति ॥इति सम्यग्विजानामि काशि त्वां मोहनोषधिम् ॥४९॥तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः ॥नोद्यमाद्विरमंतीह ज्ञानिनः साध्यकर्मणि ॥४६॥नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः ॥प्रतिकूलोपि खिद्येत विधिस्तत्सततोद्यमात् ॥४७॥शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोंगणे ॥गतिं न त्यजतोद्यापि प्रक्रांतव्य कृतोद्यमौ ॥४८॥एकत्र हंति कार्याणि प्रातिकूल्याद्विधिर्मुहुः ॥एकत्रकरणीयानि सेत्स्यंत्यत्र भृशोद्यमात् ॥४९॥दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः ॥तन्निराकरणे यत्नः स्वयं कार्यो विपश्चिता ॥५०॥भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत् ॥हस्तवक्त्रोद्यमात्तच्च प्रविशेदौदरीं दरीम् ॥५१॥इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम् ॥पुनश्च प्रेषयांचक्रे गणान्पंचमहारयान् ॥५२॥सोमनंदी नंदिषेणः कालपिंगलकुक्कुटाः ॥तेद्यापि न निवर्तंते काश्यां जीवामृता यथा ॥५३॥तेपि स्वनाम्ना लिंगानि शंभुसंतुष्टि काम्यया॥प्रतिष्ठाप्य स्थिताः काश्यां विश्वनिर्वाणजन्मनि ॥५४॥सोमनंदीश्वरं दृष्ट्वा लिंगं नंदवने परम् ॥सोमलोके परानंदं प्राप्नुयाद्भक्तिमान्नरः ॥५५॥तदुत्तरे विलोक्याथ नंदिषेणेश्वरं नरः ॥आनंदसेनां संप्राप्य जयेन्मृत्युमपि क्षणात् ॥५६॥कालेश्वरं महालिंगं गंगायाः पश्चिमोत्तरे ॥प्रणम्य कालपाशेन नो बध्येत कदाचन ॥५७॥पिंगलेश्वरमभ्यर्च्य कालेशात्किंचिदुत्तरे ॥लभते पिंगलज्ञानं येन तन्मयतां व्रजेत् ॥५८॥कुक्कुटेश्वर लिंगस्य येत्र भक्तिं वितन्वते ॥कुक्कुटांडाकृतेस्तस्य न ते गर्भमवाप्नुयुः ॥५९॥॥ स्कंद उवाच ॥सोमनंदि प्रभृतिषु मुने पंचगणेष्वपि ॥आनंदकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत् ॥६०॥कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते ॥अनेनोपाधिनाप्येते तत्र तिष्ठंतु मामकाः ॥६१॥प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि ॥अहमेव प्रविष्टोस्मि वाराणस्यां न संशयः ॥६२॥क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः ॥तत्र सर्वेषु यातेषु ततो यास्याम्यहं पुनः ॥६३॥संप्रधार्येति हृदये देवदेवेन शूलिना ॥प्रैषिष्ट प्रमथानां तु ततो गणचतुष्टयम् ॥६४॥कुंडोदरो मयूराख्यो बाणो गोकर्ण एव च ॥मायाबलं समाश्रित्य काशीं प्रविविशुर्गणाः ॥६५॥कृत्वोपायशतं तैस्तु दिवोदासस्य संभ्रमेयदैकोपि समर्थो न तदा तत्रैव संस्थितम् ॥६६॥अपराधशतेष्वीशः केन तुष्यति कर्मणा ॥संप्रधार्येति ते चक्रुर्लिंगाराधनमुत्तमम् ॥६७॥एकस्मिञ्शांभवे लिंगे विधिनात्र समर्चिते ॥क्षमेत्त्र्यक्षोपराधानां शतं मोक्षं च यच्छति ॥६८॥न तुष्यति तथा शंभुर्यज्ञदानतपोव्रतैः ॥यथा तुष्येत्सकृल्लिंगे विधिनाभ्यर्चिते सति ॥६९॥लिंगार्चनविधानज्ञो लिंगार्चनरतः सदा ॥त्र्यक्ष एव स विज्ञेयः साक्षाद्द्व्यक्षोपि मानवः ॥७०॥न गोशतप्रदानेन न स्वर्णशतदानतः ॥तत्फलं लभ्यते पुंभिर्यत्सकृल्लिंगपूजनात् ॥७१॥अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते ॥यत्फलं लभ्यते मर्त्यैर्नित्यं लिंगप्रपूजनात् ॥७२॥स्नापयित्वा विधानेन यो लिंगस्नपनोदकम् ॥त्रिः पिबेत्त्रिविधं पापं तस्येहाशु प्रणश्यति ॥७३॥लिंग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् ॥गंगास्नानफलं तस्य जायतेत्र विपाप्मनः ॥७४॥लिंगं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत् ॥संदेहो जायते तस्य पुनर्देहनिबंधने ॥७५॥लिंगं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात् ॥मुच्यते नात्र संदेहो विशुद्धः स्वर्गभाग्भवेत् ॥७६॥विचार्येति गणैः काश्यां स्वामिद्रोहोपशांतये ॥प्रतिष्ठितानि लिंगानि महापातकभिंद्यपि ॥७७॥कुंडोदरेश्वरं लिंगं दृष्ट्वा लोलार्कसन्निधौ ॥सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥७८॥कुंडोदरेश्वराल्लिंगात्प्रतीच्यामसिरोधसि ॥मयूरेश्वरमभ्यर्च्य न गर्भं प्रतिपद्यते ॥७९॥मयूरेशप्रतीच्यां च लिंगं बाणेश्वरं महत् ॥तस्य दर्शनमात्रेण सर्वैः पापैः प्रमुच्यते ॥८०॥गोकर्णेशं महालिंगमंतर्गेहस्य पश्चिमे ॥द्वारे समर्च्य वै काश्यां न विघ्नैरभिभूयते ॥८१॥गोकर्णेश्वर भक्तस्य पंचत्व समये सति ॥ज्ञानभ्रंशो न जायेत क्वचिदप्यंतमृच्छतः ॥८२॥॥ स्कंद उवाच ॥चिरयत्सुगणेष्वेषु चतुर्ष्वपिगणेश्वरः ॥महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत् ॥८३॥वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम्॥ध्रुवं मूर्तिमती सैषा काशी विश्वैकमोहिनी ॥८४॥अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ॥अप्यंगीकृत्य निधनं सर्वे काशीमुपासते ॥८५॥मरणादपि नो काश्यां भयं यत्र मनागपि ॥गणास्तत्र तु तिष्ठंतः कुतो मत्तोपि बिभ्यति ॥८६॥मरणं मंगलं यत्र विभूतिर्यत्र भूषणम् ॥कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ॥८७॥निर्वाणरमणी यत्र रंकं वाऽरंकमेव वा ॥ब्राह्मणं वा श्वपाकं वा वृणीते प्रांत्यभूषणम् ॥८८॥मृतानां यत्र जंतूनां निर्वाणपदमृच्छताम् ॥कोट्यंशेनापि न समा अपि शक्रादयः सुराः ॥८९॥यत्र काश्यां मृतो जंतुर्ब्रह्मनारायणादिभिः ॥प्रबद्ध मूर्धांजलिभिर्नमस्येतातियत्नतः ॥९०॥यत्र काश्यां शवत्वेपि जंतुर्नाशुचितां व्रजेत् ॥अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम् ॥९१॥यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान् ॥अपि सर्वपवित्रेभ्यः स पवित्रतरो महान् ॥९२॥येन काशी हृदि ध्याता येन काशीह सेविता ॥तेनाहं हृदि संध्यातस्तेनाहं सेवितः सदा ॥९३॥काशीं यः सेवते जंतुर्निर्विकल्पेन चेतसा ॥तमहं हृदये नित्यं धारयामि प्रयत्नतः ॥९४॥स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम् ॥अप्येकमपि मूल्येन स वस्तुःफलभाग्ध्रुवम् ॥९५॥काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः ॥जीवन्मुक्तास्तु ते ज्ञेया वंद्याः पूज्यास्त एव हि ॥९६॥इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान् ॥गणानन्यान्समाहूय प्राहिणोत्प्रीतिपूर्वकम् ॥९७॥तारकत्वं समागच्छ गच्छाति स्वच्छमानस ॥दिवोदासो वृषावासो यामधीष्टे वरां पुरीम् ॥९८॥तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय ॥सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक ॥९९॥वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥पंचाक्ष भारभूताख्य त्र्यक्ष क्षेमकलांगलिन् ॥१००॥विराध सुमुखाषाढे यांतु सर्वे पृथक्पृथक् ॥एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ॥१॥कृत्वा माया बहुविधा बहुरूपा विचक्षणाः॥अनिमेषेक्षणास्तस्थुः क्षोणीशच्छिद्रकांक्षिणः ॥२॥अपरुज्ञात तच्छिद्रा विद्रावितयशोधनाः॥आः किमेतदहोजातं निनिंदुः स्वमितीह ते ॥३॥गणा ऊचुः ॥धिगस्मान्स्वामिना नित्यं कृतसंभावनान्मुहुः ॥मनुष्यमात्रमप्यत्र यैरेकं न वशीकृतम् ॥४॥बहुमानेन दानेन सौहार्देन महीयसा ॥कृतप्रसादांस्त्र्यक्षेण धिङ्नस्तत्कार्यवंचकान् ॥५॥का गतिर्नो भवित्रीह स्वामिकृत्यप्रमादिनाम् ॥अंधं तमोमये लोके ध्रुवं वासो भविष्यति ॥६॥अकृतस्वामिकार्याणामहो जीवितधारिणाम्॥अक्षतेंद्रियवृत्तीनां दुर्गतिश्च पदे पदे ॥७॥लब्धसंभावनानां च न्यक्कृतस्वामिकर्मणाम् ॥भृत्यानां भूरिभाजां च भंगुराः स्युर्मनोरथाः ॥८॥अनिष्पादितकार्यार्था ये मुखं प्रेक्षयंत्यहो ॥अपत्रपाः पुरो भर्तुस्तैर्भूर्भारवतीत्वियम् ॥९॥नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् ॥भूतधात्र्यास्तथा भारो यथा स्वामिद्रुहां महान् ॥११०॥अहो पौराणिकी गाथा स्मृतास्माभिरनिंदिता ॥तदर्थमवलंब्येह स्थास्यामः कृतनिश्चयाः ॥११॥अनाकलितपुण्यानां परिक्षीणधनायुषाम् ॥सर्वोपायविहीनानां गतिर्वाराणसीपुरी ॥१२॥अपुण्यभारखिन्नानां पश्चात्तापमुपेयुषाम्॥विष्वगूर्ध्वगतीनां च गतिर्वाराणसीपुरी ॥१३॥स्वामिद्रुहः कृतघ्नाश्च ये च विश्रंभघातकाः ॥तेषां क्वापि गतिर्नास्ति मुक्त्वा वाराणसीं पुरीम् ॥१४॥इत्थं निश्चित्य गाथार्थं प्रमथा अवतस्थिरे ॥अविज्ञातस्वरूपाश्च दिवोदासेन भूभुजा ॥१५॥न बुबोध स भूपालो नितरां बुद्धिमानपि ॥विबुधान्विविधाकारैः स्थितानीशप्रभावतः ॥१६॥चित्रं न चित्रगुप्तोपि वेत्ति वाराणसीस्थितान्॥जंतून्का गणनान्येषां मर्त्यलोकनिवासिनाम् ॥१७॥अविच्छिन्न प्रभावाणामपरिच्छिन्न तेजसाम् ॥कृतलिंगप्रतिष्ठानां नांतं प्राप्नोति धर्मराट् ॥१८॥इति ते प्रमथाः सर्वे घटोद्भव महामुने ॥कृतलिंगार्चनाः काशीं नाद्याप्युज्झंति शर्मदाम् ॥१९॥तारकेशं महालिंगं तारकाख्यो गणोत्तमः ॥तारकज्ञानदं पुंसां मुनेऽद्यापि समर्चयेत् ॥१२०॥तारकेश्वरलिंगस्य कृत्वा भक्तिसुनिश्चलाम् ॥सुखेन तारकज्ञानं लभ्यते तैर्नरोत्तमैः ॥२१॥तिलपर्णेश्वरं लिंगं तिलपर्ण प्रतिष्ठितम् ॥तिलप्रमाणमप्यत्र दृष्ट्वा पापं न संभवेत् ॥२२॥स्थूलकर्णेश्वरं लिंगं परिपूज्य नरोत्तमः ॥न दुर्गतिमवाप्नोति पुण्यमाप्नोति चोत्तमम् ॥२३॥दृमिचंडेश्वरं लिंगं तथा लिंगं प्रभामयम् ॥आराध्य तत्प्रतीच्यां च न पापैरभिभूयते ॥२४॥प्रभामयेश्वरं लिंगं दृष्ट्वान्यत्रापि संस्थितः ॥प्रभामयेन यानेन शिवलोके व्रजेत्सुधीः ॥२५॥सुकेशेश्वरमभ्यर्च्य हरिकेशवने नरः ॥षाट्कौशिकमयं देहं धारयेन्न पुनःपुनः ॥२६॥विंदतीशं नरोभ्यर्च्य भीमचंडी समीपतः ॥त्यक्त्वा प्रचंडमप्येनो मोक्षं विंदति शाश्वतम् ॥२७॥छागलेशं महालिंगं पित्रीश्वरसमीपगम् ॥विलोक्य पशुवत्कोपि न पापं प्राकृतं स्पृशेत् ॥२८॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वाराणसीवर्णनं गणप्रेषणं नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : November 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP