काशीखण्डः - अध्याय २२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ शिवशर्मोवाच ॥
ध्रुवाख्यानमिदं रम्यं महापातकनाशनम् ॥
महाश्चर्यकरं पुण्यं श्रुत्वा तृप्तोस्मि भो गणौ ॥१॥
॥ अगस्त्य उवाच ॥
इत्थं यावद्द्विजो ब्रूते विमानं वायुवेगगम् ॥
तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम् ॥२॥
द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम् ॥
तौ गणौ प्रत्युवाचेदं कोयं लोको मनोहरः ॥३॥
तावूचतुस्ततो विप्रं निशामय महामते ॥
अयं स हि महर्लोकः स्वर्लोकात्परमाद्भुतः ॥४॥
कल्पायुषो वसंत्यत्र तपसा धूतकल्मषाः ॥
विष्णुस्मरण संक्षीण समस्तक्लेशसंचयाः ॥५॥
निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत् ॥
महायोगसमायुक्ता वसंत्यत्र सुरोत्तमाः ॥६॥
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ॥
क्षणार्धेन विमानं तज्जनलोकं निनायतान् ॥७॥
निवसंत्यमला यत्र मानसा बह्मणः सुताः ॥
सनंदनाद्या योगींद्राः सर्वे ते ह्यूर्ध्वरेतसः ॥८॥
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ॥
सर्वद्वंद्वविनिर्मुक्तास्ते वसंत्यतिनिर्मलाः ॥९॥
जनलोकात्तपोलोकस्तेषां लोचनगोचरः ॥
कृतस्तेन विमानेन मनोवेगेन गच्छता ॥१०॥
वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः ॥
वासुदेवे मनो येषां वासुदेवार्पितक्रियाः ॥११॥
तपसा तोष्य गोविंदमभिलाषविवर्जिताः॥
तपोलोकमिमं प्राप्य वसंति विजितेंद्रियाः ॥१२॥
शिलोंछ वृत्तया ये वै दंतोलूखलिकाश्च ये ॥
अश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ॥१३॥
ग्रीष्मे पंचाग्नितपसो वर्षासु स्थंडिलेशयाः ॥
हेमंतशिशिरार्धे ये क्षपंति सलिले क्षपाः ॥१४॥
कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन्॥
वाताशिनोतिक्षुधिताः पादाग्रांगुष्ठ भूस्पृशः ॥१५॥
ऊर्ध्वदोषो रविदृशस्त्वेकांघ्रि स्थाणु निश्चलाः ॥
ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये पुनः ॥१६॥
मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये ॥
ऋत्वंततोयपाना ये षण्मासोपवासकाः ॥१७॥
ये च वर्षनिमेषा वै वर्षधारांबु तर्षकाः ॥
ये च स्थाणूपमां प्राप्ता मृगकंडूति सौख्यदाः ॥१८॥
जटाटवी कोटरांतः कृतनीडांडजाश्च ये ॥
प्ररूढवामलूरांगाः स्नायुनद्धास्थिसंचयाः ॥१९॥
लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥
सस्यानि च प्ररूढानि यदंगेषु चिरस्थिति ॥२०॥
इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः ॥
ब्रह्मायुषस्तपोलोके ते वसंत्यकुतोभयाः ॥२१॥
यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात् ॥
तावन्नेत्रातिथीभूतः सत्यलोको महोज्ज्वलः ॥२२॥
त्वरावंतौ गणौ तत्र विमानादवरुह्य तौ ॥
स्रष्टारं सर्वलोकानां तेन सार्धं प्रणेमतुः ॥२३॥
ब्रह्मोवाच ॥
गणावसौ द्विजो धीमान्वेदवेदांगपारगः ॥
स्मृत्युक्ताचारचंचुश्च प्रतीपः पापकर्मसु ॥२४॥
अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक ॥
साधूकृतं त्वया वत्स सुतीर्थप्राणमोक्षणात् ॥२५॥
सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम् ॥
दैनंदिनप्रलयतः सृजामि च पुनः पुनः ॥२६॥
आ वैराजं प्रतिपदमुपसंहरते हरः ॥
का कथा मशकाभानां नृणां मरणधर्मिणाम् ॥२७॥
चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम् ॥
तस्मिन्वै भारते वर्षे कर्मभूमौ महीयसि ॥२८॥
चपलानि विनिर्जित्येंद्रियाणि मनसा सह ॥
विहाय वैरिणं लोभं विष्वग्गुणगणस्य च ॥२९॥
धर्मवंशहरं काममर्थसंचयहारिणम् ॥
जरापलितकर्तारं विनिष्कृत्य विचारतः ॥३०॥
जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः ॥
शरीरस्यापि हर्तारं नेतारं तामसीं गतिम् ॥३१॥
सदा मदं परित्यज्य प्रमादैकपदप्रदम् ॥
प्रमादैकशरण्यं च संपदां विनिवर्तकम् ॥३२॥
सर्वत्र लघुता हेतुमहंकारं विहाय च ॥
दूषणारोपणे यत्नं कुर्वाणं सज्जनेष्वपि ॥३३॥
हित्वा मोहं महाद्रोहरोपणं मतिघातिनम् ॥
अत्यंतमंधीकरणमंधतामिस्रदर्शकम् ॥३४॥
श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः ॥
धर्मसोपानमारुह्य यदिहायांति हेलया ॥३५॥
कर्मभूमिं समीहंते सर्वे स्वर्गौकसो द्विज ॥
यत्तत्रार्जितभोक्तारः पदेषूच्चावचेष्वमी ॥३६॥
नार्यावर्तसुमो देशो न काशी सदृशी पुरी ॥
न विश्वेश समं लिंगं क्वापि बह्मांडमंडले ॥३७॥
संति स्वर्गा बहुविधाः सुखेतर विवर्जिता॥
सुकृतैकफलाः सर्वे युक्ताः सर्वसमृद्धिभिः ॥३८॥
स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके ॥
सर्वे यतंते स्वर्गाय तपोदानव्रतादिभिः ॥३९॥
स्वर्लोकादपिरम्याणि पातालानीति नारदः ॥
प्राह स्वर्गसदां मध्ये पातालेभ्यः समागतः ॥४०॥
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥
नागांगाभरणप्रोताः पातालं केन तत्समम् ॥४१॥
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥४२॥
दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम्॥
शशिनश्च न शीताय निशि द्योताय केवलम् ॥४३॥
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥
वनानि नद्यो रम्याणि सदंभांसि सरांसि च ॥४४॥
कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च ॥
भूषणान्यतिरम्याणि गंधाद्यमनुलेपनम् ॥४५॥
वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः ॥
हाटकेशं महालिंगं यत्र वै सर्वकामदम् ॥४६॥
एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः ॥
दैत्योरगैश्च भुज्यंते पातालांतरगोचरैः ॥४७॥
पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम्॥
रत्नसानुं समाश्रित्य परितः परिसंस्थितम् ॥४८॥
सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज॥
नवयौवनसंपन्ना नित्यं यत्र मृगीदृशः ॥४९॥
भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता ॥
भुज्यते त्वद्विधैर्लोकैस्तीर्थाभित्यक्त देहकैः ॥५०॥
अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः ॥
परोपकारसंक्षीणसुखायुर्धनसंचयैः ॥५१॥
संति द्वीपा ह्यनेका वै पारावारांतरस्थिताः ॥
जंबूद्वीपसमो द्वीपो न क्वापि जगतीतले ॥५२॥
तत्रापि नववर्षाणि भारतं तत्र चोत्तमम् ॥
कर्मभूमिरियं प्रोक्ता देवानामपिदुर्लभा ॥५३॥
अष्टौ किंपुरुषादीनि देवभोग्यानि तानि तु ॥
तेषु स्वर्गात्समागत्य रमंते त्रिदिवौकसः ॥५४॥
योजनानां सहस्राणि नवविस्तारतस्त्विदम् ॥
भारतं प्रथमं वर्षं मेरोर्दक्षिणतः स्थितम् ॥५५॥
तत्रापि हिमविंध्याद्रेरंतरं पुण्यदं परम् ॥
गंगायमुनयोर्मध्ये ह्यंतर्वेदी भुवः पराः ॥५६॥
कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः ॥
ततोपि नैमिषारण्यं स्वर्गसाधनमुत्तमम् ॥५७॥
नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमंडले ॥
सर्वेभ्योपि हि तीर्थेभ्यस्तीर्थराजो विशिष्यते ॥५८॥
स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः ॥
प्रयागस्तन्महत्क्षेत्रं तीर्थराज इति स्मृतः ॥६९॥
यागाः सर्वे मया पूर्वं तुलया विधृता द्विज ॥
तच्च तीर्थवरं रम्यं कामिकं कामपूरणात ॥६०॥
दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः ॥
प्रयागमिति तन्नाम कृतं हरिहरादिभिः ॥६१॥
नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः ॥
स्मर्तुः शरीरे नो जातु पापं वसति कुत्रचित् ॥६२॥
संति तीर्थान्यनेकानि पापत्राणकराणि च ॥
न शक्तान्यधिकं दातुं कृतैनः परिशुद्धितः ॥६३॥
जन्मांतरेष्वसंख्येषु यः कृतः पापसंचयः ॥
दुष्प्रणोद्यो हि नितरां व्रतैर्दानैस्तपोजपैः ॥६४॥
स तीर्थराजगमनोद्यतस्य शुभजन्मनः ॥
अंगेषु वेपतेऽत्यंतं द्रुमो वातहतो यथा ॥६५॥
ततः क्रांतार्धमार्गस्य प्रयाग दृढचेतसः ॥
पुंसः शरीरान्निर्यातुमपेक्षेत पदांतरम् ॥६६॥
भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः ॥
पलायते द्रुततरं तमः सूर्योदये यथा ॥६७॥
सप्तधातुमयी भूततनौ पापानि यानि वै ॥
केशेषु तानि तिष्ठंति वपनाद्यांति तान्यपि ॥६८॥
एवं निष्कलुषीभूय ततः स्नायात्सितासिते ॥
यंयं काममभिध्यायंस्तं तमाप्नोति नान्यथा ॥६९॥
पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् ॥
स्वर्गं प्राप्नोति तत्पुण्यान्निष्कामो मोक्षमाप्नुयात् ॥७०॥
स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च ॥
सोपि मोक्षमवाप्नोति कामदात्तीर्थराजतः ॥७१॥
तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति ॥
भारताख्ये महावर्षे स कामं नाप्नुयात्स्फुटम् ॥७२॥
सत्यलोके प्रयागे च नांतरं वेद्म्यहं द्विज ॥
तत्र ये शुभकर्माणस्ते मल्लोकनिवासिनः ॥७३॥
तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थांतरं नहि ॥
अन्यत्र भूमिवलये तीर्थराजात्प्रया गतः ॥७४॥
यथांतरं द्विजश्रेष्ठ भूपेत्वितरसेवके ॥
दृष्टांतमात्रं कथितं प्रयागेतर तीर्थयोः ॥७५॥
यथाकथंचित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः ॥
तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि ॥७६॥
यस्य भाग्यवतश्चात्र तिष्ठंत्यस्थीन्यपि द्विज ॥
न तस्य दुःखलेशोपि क्वापि जन्मनि जायते ॥७७॥
ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा ॥
प्रयागं विधिवत्सेव्यं द्विजवाक्यान्न संशयः ॥७८॥
किं बहूक्तेन विप्रेंद्र महोदयमभीप्सुना ॥
सेव्यं सितासितं तीर्थं प्रकृष्टं जगतीतले ॥७९॥
प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि ॥
अनायासेन वै मुक्तिः काश्यां देहावसानतः ॥८०॥
प्रयागादपि वै रम्यमविमुक्तं न संशयः ॥
यत्र विश्वेश्वरः साक्षात्स्वयं समधितिष्ठति ॥८१॥
अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात् ॥
न च किंचित्क्वचिद्रम्यमिह ब्रह्मांडगोलके ॥८२॥
अविमुक्तमिदं क्षेत्रमपि ब्रह्मांडमध्यगम् ॥
ब्रह्मांडमध्ये न भवेत्पंचक्रोशप्रमाणतः ॥८३॥
यथायथा हि वर्धेत जलमेकार्णवस्य च ॥
तथातथोन्नयेदीशस्तत्क्षेत्रं प्रलयादपि ॥८४॥
क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज ॥
अंतरिक्षेन भूमिष्ठं नेक्षंते मूढबुद्धयः॥ ८५॥
सदा कृतयुगं चात्र महापर्वसदाऽत्र वै ॥
न ग्रहाऽस्तोदयकृतो दोषो विश्वेश्वराश्रमे ॥८६॥
सदा सौम्यायनं तत्र सदा तत्र महोदयः ॥
सदैव मंगलं तत्र यत्र विश्वेश्वरस्थितिः ॥८७॥
यथाभूमितले विप्र पुर्यः संति सहस्रशः ॥
तथा काशी न मंतव्या क्वापि लोकोत्तरात्वियम् ॥८८॥
मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश ॥
अस्याः पुर्या विनिर्माता स्वयं विश्वेश्वरः प्रभुः ॥८९॥
पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् ॥
त्रैलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसीं पुरीम् ॥९०॥
चराचरस्य सर्वस्य यानि कर्माणि तानि वै ॥
गोचरे चित्रगुप्तस्य काशीवासिकृतादृते ॥९१॥
प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम ॥
मध्ये काशीपुरी क्वापि रक्षिणस्तत्र तद्गणाः ॥९२॥
स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम् ॥
तत्रापि कृतपापानां नियंता कालभैरवः ॥९३॥
तत्र पापं न कर्तव्यं दारुणा रुद्रयातना ॥
अहो रुद्रपिशाचत्वं नरकेभ्योपि दुःसहम् ॥९४॥
पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी ॥
सुखेनान्यत्र कर्तव्यं मही ह्यस्ति महीयसी ॥९५॥
अपि कामातुरो जंतुरेकां रक्षति मातरम् ॥
अपि पापकृता काशी रक्ष्या मोक्षार्थिनैकिका ॥९६॥
परापवादशीलेन परदाराभिलाषिणा ॥
तेन काशी न संसेव्या क्व काशी निरयः क्व सः ॥९७॥
अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः ॥
परस्वं कपटैर्वापि काशी सेव्या न तैर्नरैः ॥९८॥
परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत् ॥
तदेव चेत्किमत्र स्यात्काशीवासो दुरात्मनाम् ॥९९॥
त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः ॥
सर्वथा तैर्न वस्तव्या राजधानी पिनाकिनः ॥१००॥
अर्थार्थिनस्तु ये विप्र ये च कामार्थिनो नराः ॥
अविमुक्तं न तैः सेव्यं मोक्षक्षेत्रमिदं यतः ॥१॥
शिवनिंदापरा ये च वेदनिंदा पराश्च ये ॥
वेदाचारप्रतीपा ये सेव्या वाराणसी न तैः ॥२॥
परद्रोहधियो ये च परेर्ष्याकारिणश्च ये ॥
परोपतापिनो ये वै तेषां काशी न सिद्धये ॥३॥
मनसापि न ये काशीमभिनंदंति दुर्धियः ॥
तेषां निर्वाणवार्तापि दूरे दुर्वृत्तचेतसाम् ॥४॥
ज्ञानेन न विना मोक्षः क्वचिदस्तीह भूतले ॥
तज्ज्ञानं न व्रतैर्लभ्यमपि चांद्रायणादिभिः ॥५॥
तुलापुरुषमुख्यैश्च दानैश्च श्रद्धयान्वितैः ॥
देशकाले च विधिना पात्रेभ्यः प्रतिपादितैः ॥६॥
न यमैर्ब्रह्मचर्याद्यैर्नियमैर्नार्चनादिभि. ॥
शरीरशोषणैरुग्रैर्न तपोभिर्द्विजोत्तम ॥७॥
न महामंत्रजप्यैश्च गुरुभिः प्रतिपादितैः ॥
न स्वाध्यायैर्यथोक्तैश्च नाग्निशुश्रूषणैः परैः ॥८॥
न सेवया गुरूणां च न श्राद्धैर्देवतार्चनैः ॥
न नानातीर्थयात्राभिर्ज्ञानं समधिगम्यते ॥९॥
न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् ॥
गुरूपदिष्टमार्गेण सदाभ्यासवशेन च ॥११०॥
तस्यांतराया बहवः सुदूरश्रवणादयः ॥
अतो न प्राप्यते ज्ञानं योगादेकेन जन्मना ॥११॥
विना तपो जपाद्यैश्च विना योगेन सुव्रत ॥
निःश्रेयो लभ्यते काश्यामिहैकेनैव जन्मना ॥१२॥
त्वया शुद्धधिया काश्यां यच्छ्रेयः समुपार्जितम् ॥
तच्छ्रेयसोप्युदर्कस्ते महानस्ति द्विजोत्तम ॥१३॥
उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः ॥
सोपि प्रमुदितश्चाभूच्छिवशर्मा महामनाः ॥११४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ब्रह्मकृतकाशीप्रशंसानाम द्वाविंशतितमोऽध्यायः ॥२२॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP