काशीखण्डः - अध्याय ९१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
पार्वतीशस्य महिमा कथितस्ते मयानघ ॥
मुने निशामयेदानीं गंगेश्वरसमुद्भवम् ॥१॥
यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत् ॥
चक्रपुष्करिणीतीर्थं यदा गंगा समागता ॥२॥
तेन दैलीपिना सार्धमस्मिन्नानंदकानने ॥
क्षेत्रप्रभावमतुलं ज्ञात्वा शंभुपरिग्रहात् ॥३॥
स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम् ॥
गंगया स्थापितं लिंगं विश्वेशात्पूर्वतः शुभम्॥ ४॥
गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा ॥
तिथौ दशहरायां च यो गंगेशं समर्चयेत् ॥५॥
तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात् ॥
कलौ गंगेश्वरं लिंगं गुप्तप्रायं भविष्यति ॥६॥
तस्य संदर्शनं पुंसां जायते पुण्यहेतवे ॥
दृष्टं गंगेश्वरं लिंगं येन काश्यां सुदुर्लभम् ॥७॥
प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः ॥
कलौ सुदुर्लभा गंगा सर्वकल्मषहारिणी ॥८॥
भविष्यति न संदेहो मित्रावरुणनंदन॥
ततोपि तिष्ये संप्राप्ते काश्यत्यंतं सुदुर्लभा ॥९॥
ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् ॥
यस्य संदर्शनं पुंसां भवेत्पापक्षयाय वै ॥१०॥
श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत् ॥
लभेच्च पुण्यसंभारं चिंतितं चाधिगच्छति ॥११॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः ॥९१॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP