संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५१

काशीखण्डः - अध्याय ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ श्रीकाशीखंडोत्तरार्धं प्रारभ्यते ॥

श्रीगणेशाय नमः ॥
॥ अगस्तिरुवाच ॥
पार्वती हृदयानंद सर्वज्ञांगभव प्रभो ॥
किंचित्प्रष्टुमनाः स्वामिंस्तद्भवान्वक्तुमर्हति ॥१॥
दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः ॥
गरुत्मतः प्रसूः साध्वी कुतो दास्यमवाप सा ॥२॥
॥ स्कंद उवाच ॥
हंजिकात्वं यथा प्राप्ता विनता सा तपस्विनी ॥
तदप्यहं समाख्यामि निशामय महामते ॥३॥
कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा ॥
उलूकमरुणं तार्क्ष्यमसूत विनता त्रयम् ॥४॥
कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने ॥
निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ॥५॥
क्रूराक्षोयं दिवांधोयं सदा वक्रनखस्त्वसौ ॥
अतीवोद्वेगजनकं सर्वेषामस्य भाषणम् ॥६॥
इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः ॥
नाद्यापि वृण्वते राज्ये कमपि स्वैरचारिणः ॥७॥
कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा ॥
अंडं प्रस्फोटयामास मध्यमं विनता तदा ॥८॥
पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसंभव ॥
तदभेदितयौत्सुक्यादंडमष्टमके शते ॥९॥
तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः ॥
ऊर्वोरुपरिसिद्धानि दंडांतर्निवासिनः ॥१०॥
अंडान्निर्गतमात्रेण क्रोधारुणमुखश्रिया ॥
अर्धनिष्पन्नदेहेन शिशुना शापिता प्रसूः ॥११॥
जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया ॥
खेलतो मातुरुत्संगे यदंडं व्याधित द्विधा ॥१२॥
तदनिष्पन्न सर्वांगः शपामि त्वा विहंगमे ॥
तेषामेवैधि दासी त्वं सपत्न्यंग भुवामिह ॥१३॥
वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी ॥
अनूरो ब्रूहि मे शापावसानं मातुरंगज ॥१४॥
॥ अनूरुरुवाच ॥
अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि ॥
अस्मिन्नंडे भविष्यो यः स ते दास्यं हरिष्यति ॥१५॥
इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम् ॥
यत्र विश्वेश्वरो दद्यादपि पंगोः शुभां गतिम्॥ १६॥
एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्॥
मुने प्रसंगतो वच्मि अरुणादित्यसंभवम् ॥१७॥
अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः ॥
वाराणस्यां तपस्तप्त्वा तेनाराधि दिवाकरः ॥१८॥
सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे ॥
आदित्यस्तस्य नाम्नाभूदरुणादित्य इत्यपि ॥१९॥
॥ अर्क उवाच ॥
तिष्ठानूरो मम रथे सदैव विनतात्मज ॥
जगतां च हितार्थाय ध्वांतं विध्वंसयन्पुरः ॥२०॥
अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः ॥
वाराणस्यां महादेवोत्तरे तेषां कुतो भयम् ॥२१॥
येर्चयिष्यंति सततमरुणादित्यसंज्ञकम् ॥
मामत्र तेषां नो दुःखं न दारिद्र्यं न पातकम् ॥२२॥
व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन ॥
शोकाग्निना न दह्यंते ह्यरुणादित्यसेवनात् ॥२३॥
अथ स्यंदनमारोप्य नीतवानरुणं रविः ॥
अद्यापि स रथे सौरे प्रातरेव समुद्यति ॥२४॥
यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने ॥
अरुणाय ससूर्याय तस्य दुःखभयं कुतः ॥२५॥
अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः ॥
न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन ॥२६॥
स्कंद उवाच ॥
वृद्धादित्यस्य माहात्म्यं शृणु ते कथयाम्यहम्॥
यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत् ॥२७॥
पुरात्र वृद्धहारीतो वाराणस्यां महातपाः ॥
महातपः समृद्ध्यर्थं समाराधितवान्रविम् ॥२८॥
मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम् ॥
दक्षिणेन विशालाक्ष्या दृढभक्तिसमन्वितः ॥२९॥
तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने ॥
अलं विलंब्य याचस्व कस्ते देयो वरो मया ॥३०॥
सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः ॥
यदि प्रसन्नो भगवान्युवत्वं देहि मे पुनः ॥३१॥
तपःकरण सामर्थ्यं स्थविरस्य न मे यतः ॥
पुनस्तारुण्यमाप्तोहं चरिष्याम्युत्तमं तपः ॥३२॥
तप एव परो धर्मस्तप एव परं वसु ॥
तप एव परः कामो निर्वाणं तप एव हि ॥३३॥
ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः ॥
पदं ध्रुवादिभिः प्रापि केवलं तपसो बलात् ॥३४॥
ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम् ॥
प्राप्य त्वद्वरदानेन यौवनं सर्वसंमतम् ॥३८३॥
धिग्जरांप्राणिनामत्र यया सर्वो विरज्यति ॥
जरातुरेंद्रियग्रामे स्त्रियोपि नयतः स्वसात् ॥३६॥
वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत् ॥
क्षणं दुःखं च मरणं जरा दुःखं क्षणेक्षणे ॥३७॥
कांक्षंति दीर्घतपसे चिरमायुर्जितेंद्रियाः ॥
धनं दानाय पुत्राय कलत्रं मुक्तये धियम् ॥३८॥
वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै ॥
ददौ च चारुता हेतुं तारुण्यं पुण्यसाधनम् ॥३९॥
एवं स वृद्धहारीतो वाराणस्यां महामुनिः ॥
संप्राप्य यौवनं ब्रध्नात्तप उग्रं चचार ह ॥४०॥
वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना ॥
आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः ॥४१॥
वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव ॥
जरा दुर्गति रोगघ्नं बहवः सिद्धिमागताः ॥४२॥
वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः ॥
लभेदभीप्सितां सिद्धिं न क्वचिद्दुर्गतिं लभेत् ॥४३॥
॥ स्कंद उवाच ॥
अतः परं शृणु मुने केशवादित्यमुत्तमम् ॥
यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् ॥४४॥
व्योम्नि संचरमाणेन सप्ताश्वेनादिकेशवः ॥
एकदा दर्शिभावेन पूजयँल्लिंगमैश्वरम् ॥४५॥
कौतुकादिव उत्तीर्य हरे रविरुपाविशत् ॥
निःशब्दो निश्चलः स्वस्थो महाश्चर्यसमन्वितः ॥४६॥
प्रतीक्षमाणोवसरं किंचित्प्रष्टुमना हरिम् ॥
हरिं विसर्जितार्चं च प्रणनाम कृतांजलिः ॥४७॥
स्वागतं ते हरिः प्राह बहुमानपुरःसरम् ॥
स्वाभ्याशं आसयामास भास्वंतं नतकंधरम्॥ ४८॥
अथावसरमालोक्य लोकचक्षुरधोक्षजम् ॥
नत्वा विज्ञापयामास कृतानुज्ञोऽसुरारिणा ॥४९॥
॥ रविरुवाच ॥
अंतरात्मासि जगतां विश्वंभर जगत्पते ॥
तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव ॥५०॥
त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते ॥
त्वमेव पाता सर्वस्य जगतो जगतांनिधे ॥५१॥
इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवांतिकम् ॥
किमिदं पूज्यते नाथ भवता भवतापहृत् ॥५२॥
इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम् ॥
उच्चैर्माशंस सप्ताश्वं वारयन्करसंज्ञया ॥५३॥
॥ श्रीविष्णुरुवाच ॥
देवदेवो महादेवो नीलकंठ उमापतिः ॥
एक एव हि पूज्योत्र सर्वकारणकारणम् ॥५४॥
अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः ॥
सलोचनोपि विज्ञेयो लोचनाभ्यां विवर्जितः ॥५५॥
एको मृत्युंजयः पूज्यो जन्ममृत्युजराहरः ॥
मृत्युंजयं किलाभ्यर्च्य श्वेतो मृत्युंजयोभवत् ॥५६॥
कालकालं समाराध्य भृंगी कालं जिगायवै ॥
शैलादिमपि तत्याज मृत्युर्मृत्युंजयार्चकम् ॥५७॥
विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात् ॥
तं समभ्यर्च्य भूतेशं को न पूज्यतमो भवेत् ॥५८॥
त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम् ॥
को नाराधयति ब्रध्नसारस्य स्मरविद्विषः ॥५९॥
यस्याक्षिपक्ष्मसंकोचाज्जगत्संकोचमेत्यदः ॥
विकस्वरं विकासाच्च कस्य पूज्यतमो न सः ॥६०॥
शंभोर्लिंगं समभ्यर्च्य पुरुषार्थचतुष्टयम् ॥
प्राप्नोत्यत्र पुमान्सद्यो नात्र कार्या विचारणा ॥६१॥
समर्च्य शांभवं लिंगमपिजन्मशतार्जितम् ॥
पापपुंजं जहात्येव पुमानत्र क्षणाद्ध्रुवम् ॥६२॥
किंकिं न संभवेदत्र शिवलिंगसमर्चनात् ॥
पुत्राः कलत्र क्षेत्राणि स्वर्गो मोक्षोप्यसंशयम् ॥६३॥
त्रैलोक्यैश्वर्यसंपत्तिर्मया प्राप्ता सहस्रगो ॥
शिवलिंगार्चनादेकात्सत्यंसत्यं पुनःपुनः ॥६४॥
अयमेव परोयोगस्त्विदमेव परं तपः ॥
इदमेव परं ज्ञानं स्थाणुलिंगं यदर्च्यते ॥६५॥
यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः ॥
कुतो दुःखभयं तेषां संसारे दुःखभाजने ॥६६॥
सर्वं परित्यज्य रवे यो लिंगं शरणं गतः ॥
न तं पापानि बाधंते महांत्यपि दिवाकर ॥६७॥
लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर ॥
येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः ॥६८॥
न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम् ॥
सर्वतीर्थाभिषेकः स्याल्लिंगस्नानांबु सेवनात् ॥६९॥
तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः ॥
संप्राप्तं परमां लक्ष्मीं महातेजोभि जृंभणीम् ॥७०॥
इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः ॥
विधाय स्फाटिकं लिंगं मुनेद्यापि समर्चयेत् ॥७१॥
गुरुत्वेन तदाकल्य विवस्वानादिकेशवम् ॥
तत्रोपतिष्ठतेद्यापि उत्तरेणादिकेशवात् ॥७२॥
अतः स केशवादित्यः काश्यां भक्ततमोनुदः ॥
समर्चितः सदा देयान्मनसो वांछितं फलम् ॥७३॥
केशवादित्यमाराध्य वाराणस्यां नरोत्तमः ॥
परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत् ॥७४॥
तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः ॥
विलोक्य केशवादित्यं मुच्यते जन्मपातकैः ॥७५॥
अगस्ते रथसप्तम्यां रविवारो यदाप्यते ॥
तदा पादोदके तीर्थे आदिकेशव सन्निधौ ॥७६॥
स्नात्वोषसि नरो मौनी केशवादित्यपूजनात् ॥
सप्तजन्मार्जितात्पापान्मुक्तो भवति तत्क्षणात् ॥७७॥
यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ॥
तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ॥७८॥
एतज्जन्मकृतं पापं यच्च जन्मांतरार्जितम् ॥
मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥७९॥
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके ॥
सप्तव्याधिसमायुक्तं हर माकरि सप्तमि ॥८०॥
एतन्मंत्रत्रयं जप्त्वा स्नात्वा पादोदके नरः ॥
केशवादित्यमालोक्य क्षणान्निष्कलुषो भवेत् ॥८१॥
केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः ॥
नरो न लिप्यते पापैः शिवभक्तिं च विंदति ॥८२॥
॥ स्कंद उवाच ॥
अतः परं शृणु मुने विमलादित्यमुत्तमम् ॥
हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्॥ ८३॥
उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः ॥
स प्राक्तनात्कर्मयोगाद्विमले पथ्यपि स्थितः ॥८४॥
कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु ॥
वाराणसीं समासाद्य ब्रध्नमाराधयत्सुधीः ॥८५॥
करवीरैर्जपाभिश्च गंधकैः किंशुकैः शुभैः ॥
रक्तोत्पलैरशोकैश्च स समानर्च भास्करम् ॥८६॥
विचित्ररचनैर्माल्यैः पाटलाचंपकोद्भवैः ॥
कुंकुमागुरुकर्पूरमिश्रितैः शोणचंदनैः ॥८७॥
देवमोहनधूपैश्च बह्वामोदततांबरैः ॥
कर्पूरवर्तिदीपैश्च नैवेद्यैर्घृतपायसैः ॥८८॥
अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि ॥
एवं समाराधयतस्तस्यार्को वरदोभवत् ॥८९॥
उवाच च वरं ब्रूहि विमलामलचेष्टित ॥
कुष्ठश्च ते प्रयात्वेष प्रार्थयान्यं वरं पुनः ॥९०॥
आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ॥
प्रणतो दंडवद्भूमौ संप्रहष्टतनूरुहः । ९१॥
शनैर्विज्ञापयांचक्र एकचक्ररथं रविम् ॥
जगच्चक्षुरमेयात्मन्महाध्वांतविधूनन ॥९२॥
यदि प्रसन्नो भगवन्यदि देयो वरो मम ॥
तदा त्वद्भक्तिनिष्ठा ये कुष्ठं मास्तु तदन्वये ॥९३॥
अन्येपि रोगा मा संतु मास्तु तेषां दरिद्रता ॥
मास्तु कश्चन संतापस्त्वद्भक्तानां सहस्रगो ॥९४॥
। श्रीसूर्य उवाच ॥
तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम् ॥
त्वयेयं पूजिता मूर्तिरेवं काश्यां महामते ॥९५॥
अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन ॥
प्रथिता तव नाम्ना च प्रतिमैषा भविष्यति ॥९६॥
विमलादित्य इत्याख्या भक्तानां वरदा सदा ॥
सर्वव्याधि निहंत्री च सर्वपापक्षयंकरी ॥९७॥
इति दत्त्वा वरान्सूर्यस्तत्रैवांतरधीयत ॥
विमलो निर्मलतनुः सोपि स्वभवनं ययौ ॥९८॥
इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः ॥
तस्य दर्शनमात्रेण कुष्ठरोगः प्रणश्यति ॥९९॥
यश्चैतां विमलादित्यकथां वै शृणुयान्नरः ॥
प्राप्नोति निर्मलां शुद्धिं त्यज्यते च मनोमलैः ॥१००॥
॥ स्कंद उवाच ॥
गंगादित्योस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै ॥
तस्य दर्शनमात्रेण नरः शुद्धिमियादिह ॥१॥
यदा गंगा समायाता भगीरथपुरस्कृता ॥
तदा गंगां परिष्टोतुं रविस्तत्रैव संस्थितः ॥२॥
अद्याप्यहर्निशं गंगां संमुखीकृत्य भास्करः ॥
परिष्टौति प्रसन्नात्मा गंगाभक्तवरप्रदः ॥३॥
गंगादित्यं समाराध्य वाराणस्यां नरोत्तमः ॥
दुर्गतिं जातु न क्वापि लभते न च रोगभाक् ॥४
॥ स्कंद उवाच ॥
अन्यच्छृणु महाभाग यमादित्यस्य संभवम्॥
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ॥५॥
यमेशात्पश्चिमे भागे वीरेशात्पूर्वतो मुने ॥
यमादित्यं नरो दृष्ट्वा यमलोकं न पश्यति ॥६॥
यमतीर्थे नरः स्नात्वा भूतायां भौमवासरे ॥
यमेश्वरं विलोक्याशु सर्वैः पापैः प्रमुच्यते ॥७॥
यमतीर्थे यमः पूर्वं तप्त्वा सुविमलं तपः ॥
यमेशं च यमादित्यं प्रत्यष्ठाद्भक्तसिद्धिदम् ॥८॥
यमेन स्थापितो यस्मादादित्यस्तत्र कुंभज ॥
अतः स हि यमादित्यो यामीं हरति यातनाम् ॥९॥
यमेशं च यमादित्यं यमेन स्थापितं नमन् ॥
यमतीर्थे कृतस्नानो यमलोकं न पश्यति ॥११०॥
यमतीर्थे चतुर्दश्यां भरण्यां भौमवासरे ॥
तर्पणं पिंडदानं च कृत्वा पित्रनृणी भवेत् ॥११॥
अभिलष्यंति सततं पितरो नरकौकसः ॥
भौमै भरण्यां भूतायां यदि योगोयमुत्तमम् ॥१२॥
काश्यां कश्चिद्यमे तीर्थे कृत्वा स्नानं महामतिः ॥
अपि यस्तर्पणंकुर्यात्सतिलं नो विमुक्तये ॥१३॥
किं गया गमनैः पुंसां किं श्राद्धैर्भूरिदक्षिणैः ॥
यदि काश्यां यमे तीर्थे योगेस्मिञ्श्राद्धमाप्यते॥ १४॥
श्राद्धं कृत्वा यमे तीर्थे पूजयित्वा यमेश्वरम् ॥
यमादित्यं नमस्कृत्य पितॄणामनृणो भवेत् ॥१५॥
॥ स्कंद उवाच ॥
इति ते द्वादशादित्याः कथिता पापनाशनाः ॥
यत्संभवं समाकर्ण्य नरो न निरयी भवेत्॥ १६॥
अन्येपि संति घटज रविभक्तैरनेकशः ॥
काश्यां संस्थापिताः सूर्या गुह्यकार्कादयः किल ॥१७॥
श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान् ॥
श्रावयित्वापि नो मर्त्यो दुर्गतिं याति कुत्रचित् ॥११८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुथें काशीखण्डे अरुणवृद्धकेशवविमलगंगायमादित्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP