संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ९

काशीखण्डः - अध्याय ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ शिवशर्मोवाच ॥
का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः ॥
दिव्यालंकारधारिण्यो दिव्यभोगसमन्विताः ॥१॥
॥ गणावूचतुः ॥
एता वारविलासिन्यो यज्ञभाजां प्रियंकराः ॥
गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः ॥२॥
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ॥
रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु ॥३॥
नानादेश विशेषज्ञा नानाभाषा सुकोविदाः ॥
संकेतोदंतनिपुणा नैकास्वैरचरा मुदा ॥४॥
लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः ॥
यूनां मनांसि सततं स्वैर्हावै रमयंत्यमूः ॥५॥
निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः ॥
निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः ॥६॥
उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा ॥
वपुष्मतीकांतिमती लीलावत्युत्पलावती ॥७॥
अलंबुषा गुणवती स्थूलकेशी कलावती ॥
कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा ॥८॥
अनंगलतिका चापि तथा मदनमोहिनी ॥
चकोराक्षी चंद्रकला तथा मुनिमनोहरा ॥९॥
ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका ॥
दारुसंजीविनी सुश्रीः क्रतुशुल्का शुभानना ॥१०॥
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ॥
पंचाश्वमेधिका चैव राजसूयार्थिनी तथा ॥११॥
अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा ॥
इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसंमितम् ॥१२॥
एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः ॥
सदा स्खलितलावण्याः सदास्खलितयौवनाः ॥१३॥
दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः ॥
दिव्यभोगैः सुसंपन्नाः स्वेच्छाविधृतविग्रहाः ॥१४॥
कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः ॥
सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः ॥१५॥
ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः॥
निवसंत्यप्सरोलोके सर्वकामसमन्विताः ॥१६॥
कृत्वा व्रतानि सांगानि कामिकानि विधानतः ॥
भवंति स्वैरचारिण्यो देवभोग्या इहागताः ॥१७॥
पतिव्रतधृता नार्यो बलेन बलिना धृताः ॥
भर्तबुद्ध्यारमंतेतं(?) कदाचित्ता इमा द्विज ॥१८॥
भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा ॥
विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः॥१९॥
कुसुमानि सुगंधीनि सुवासं चंदनं तथा ॥
सुगौरं चापि कर्पूरं सुसूक्ष्माण्यंबराणि च ॥२०॥
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च ॥
साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च ॥२१॥
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम ॥
शय्याविचित्राभरणा रतिशालोचितानि च ॥२२॥
बहुकौतुकवस्तूनि समर्च्यद्विजदंपती ॥
भोगदानमिदं काम्यं प्रतिसंक्रमणं रवेः ॥२३॥
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि॥
कोदादिति च मंत्रेण या दद्याद्वरवर्णिनी ॥२४॥
कामरूपधरो देवः प्रीयतामिति वादिनी ॥
सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहांगना ॥२५॥
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् ॥
देवरूपेण तं कालमारभ्य ब्रह्मचारिणी ॥२६॥
तदेव वृत्तं ध्यायंती निधनं याति कालतः ॥
दिव्यरूपधरा सेह जायते दिव्य भोगभाक् ॥२७॥
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः ॥
सौरं लोकमथ प्राप्य क्षणेन स विमानगः ॥२८॥
यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम् ॥
देदीप्यमानं हि तथा समंताद्भानुभानुभिः ॥२९॥
दूराद्रविं स विज्ञाय धृततामरसद्वयम् ॥
नवभिर्योजनानां च सहस्रैः संमितेन ह ॥३०॥
विचित्रेणैकचक्रेण सप्तसप्तियुतेन च ॥
अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना ॥३१॥
अप्सरोमुनिगंधर्व सर्पग्रामणि नैर्ऋतैः ॥
स्यंदनेनातिजविना प्रणनाम कृतांजलिः ॥३२॥
तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च॥
अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात् ॥३३॥
प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान् ॥
प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम् ॥३४॥
एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः ॥
सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ ॥३५॥
॥ गणावूचतुः ॥
शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन ॥
सत्संगादेव साधूनां सत्कथा संप्रवर्तते ॥३६॥
नियंता सर्वभूतानां य एकःकारणं परम् ॥
अनामा गोत्ररहितो रूपादि परिवर्जितः ॥३७॥
आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ ॥
स एव वक्ति सततं सर्वात्मा वेदपूरुषः ॥३८॥
योसावादित्यपुरुषः सोसावहमिति स्फुटम् ॥
अंधतमः प्रविशंति ये चैवान्यमुपासते ॥३९॥
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम ॥
तमेकमुपतिष्ठंते निश्चित्येति पुनःपुनः ॥४०॥
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ॥
काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः ॥४१॥
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः ॥
आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात् ॥४२॥
सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः ॥
काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत् ॥४३॥
काले फलंत्योषधयः काले पुष्पंति पादपाः ॥
वर्षंति तोयदाः काले तस्मात्कालं न लंघयेत् ॥४४॥
मंदेहदेहनाशार्थमुदयास्तमये रविः ॥
समीहते द्विजोत्सृष्टं मंत्रतोयांजलित्रयम् ॥४५॥
गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम् ॥
काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम् ॥४६॥
किं किं न सविता सूते काले सम्यगुपासितः ॥
आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च ॥४७॥
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च ॥
भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम् ॥४८॥
अष्टादश सुविद्यासु मीमांसातिगरीयसी ॥
ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥४९॥
ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज ॥
ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका ॥५०॥
दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता ॥
न गायत्र्याधिकं किंचित्त्रयीषु परिगीयते ॥५१॥
न गायत्री समो मंत्रो न काशी सदृशी पुरी ॥
न विश्वेश समं लिंगं सत्यंसत्यं पुनःपुनः ॥५२॥
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ॥
गातारं त्रायते यस्माद्गायत्री तेन गीयते ॥५३॥
वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः ॥
वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा ॥५४॥
प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी ॥
राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान् ॥५५॥
सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ॥
किं किं न दद्याद्गायत्री सम्यगेवमुपासिता ॥५६॥
न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि ॥
देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा ॥५७॥
गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः ॥
गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः ॥५८॥
देवत्रयं स भगवानंशुमाली दिवाकरः ॥
सर्वेषां महसां राशिः कालकालप्रवर्तकः ॥५९॥
अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः ॥
श्रुतिं ह्युदाहरंतीमां सारासारविवेकिनः ॥६०॥
एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः ॥
स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः ॥६१॥
सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः ॥
ये नमंत्यत्र ते विप्रा विप्रा भास्करसन्निभाः ॥६२॥
पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज ॥
उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा ॥६३॥
पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये ॥
दानहोमंजपंकुर्यादर्चामर्कस्य सुव्रत ॥६४॥
श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः ॥
सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान् ॥६५॥
अयने विषुवे चापि षडशीतिमुखेषु वा ॥
विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः ॥६६॥
तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च ॥
पितॄनुद्दिश्य च श्राद्धं ये कुर्वंति विपश्चितः ॥६७॥
महापूजां च ये कुर्युर्महामंत्राञ्जपंति च ॥
तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा ॥६८॥
न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः ॥
संक्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः ॥६९॥
संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु॥
विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः ॥७०॥
ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः ॥
देहिदेहीति जल्पंतो देहिनः सपटच्चराः ॥७१॥
समं कृष्णलकेनापि यो दद्यात्कांचनं कृती ॥
सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक् ॥७२॥
सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः ॥
सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे ॥७३॥
दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम्॥
भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न संनिधे ॥७४॥
रविवारे संक्रमश्चेदुपरागोऽथवाभवेत् ॥
तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते ॥७५॥
भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते ॥
तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते ॥७६॥
हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि ॥
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥७७॥
विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान् ॥
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥७८॥
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ॥
सुरः प्रभाकरः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥७९॥
त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः ॥
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥८०॥
द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः॥
छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः ॥८१॥
एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा ॥
दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः ॥८२॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ॥
दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ॥८३॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः ॥
एभिः सप्ततिसंख्याकैः पुण्यैः सूर्यस्य नामभिः ॥८४॥
प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः ॥
प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्॥ ८५॥
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ॥
जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ॥८६॥
करवीरादि कुसुमै रक्तचंदनमिश्रितैः ॥
दूर्वांकुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ॥८७॥
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ॥
उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः ॥८८॥
प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम् ॥
अनया नामसप्तत्या महामंत्ररहस्यया ॥८९॥
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ॥
व्याधिभिर्मुच्यते घोरैरपिजन्मांतरार्जितैः ॥९०॥
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ॥
कालेन निधनं प्राप्तः सूर्यलोके महीयते ॥९१॥
इत्येकदेशः कथितो भानुलोकस्य सत्तम ॥
महातेजोनिधेरस्य कोविशेषमवैत्यहो ॥९२॥
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् ॥
क्षणादालोकयांचक्रे महेंद्रस्य महापुरीम् ॥९३॥
॥ अगस्तिरुवाच ॥
श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् ॥
न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते ॥९४॥
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् ॥
वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम् ॥९५॥
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम् ॥
पातकानि विसृज्येह गतिं यास्यंत्यनुत्तमाम् ॥९६॥
इति श्रीस्कांदमहापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे अप्सरःसूर्यलोकवर्णनंनामनवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 24, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP