काशीखण्डः - अध्याय ८०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
कुंभोद्भूत तदाश्चर्यं विलोक्य जगदंबिका ॥
उवाच शंभुं प्रणता प्रणतार्तिहरं परम् ॥१॥
॥ अंबिकोवाच॥
अस्य पीठस्य माहात्म्यं महादेव महेश्वर ॥
तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम् ॥२॥
अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे ॥
धर्मेश्वरसमीपेहं स्थास्याम्यद्य दिनावधि ॥३॥
अत्र लिंगे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा ॥
तेषामभीष्टां संसिद्धिं साधयिष्याम्यहं सदा ॥४॥
॥ ईश्वर उवाच ॥
साधुकृतं त्वया देवि कृतवत्या परिग्रहम् ॥
अस्येह धर्मपीठस्य मनोरथकृतः सताम् ॥५॥
त एव विश्वभोक्तारो विश्वमान्यास्त एव हि ॥
ये त्वां विश्वभुजामत्र पूजयिष्यंति मानवाः ॥६॥
विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे ॥
नरास्त्वदर्चकाश्चात्र भविष्यंत्यमलात्मकाः ॥७॥
मनोरथतृतीयायां यस्ते भक्तिं विधास्यति ॥
तन्मनोरथसंसिद्धिर्भवित्री मदनुग्रहात् ॥८॥
नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये ॥
मनोरथानिह प्राप्य ज्ञानमंते च लप्स्यते ॥९॥
॥ देव्युवाच ॥
मनोरथतृतीयायां व्रतं कीदृक्कथा कथम् ॥
किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु ॥१०॥
॥ ईश्वर उवाच ॥
शृणु देवि यथा पृष्टं भवत्या भवतारिणि ॥
मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम् ॥११॥
पुलोमतनया पूर्वं तताप परमं तपः ॥
किंचिन्मनोरथं प्राप्तुं न चाप तपसः फलम् ॥१२॥
अपूपुजत्ततो मां सा भक्त्या परमया मुदा ॥
गीतेन सरहस्येन कलकंठीकलेन हि ॥१३॥
तद्गानेनातिसंतुष्टो मृदुना मधुरेण च ॥
सुतालेन सुरंगेण धातुमात्राकलावता ॥१४॥
प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे ॥
अनेन च सुगीतेन त्वनया लिंगपूजया ॥१५॥
॥पुलोमजोवाच ॥
यदि प्रसन्नो देवेश तदा यो मे मनोरथः ॥
तं पूरय महादेव महादेवी महाप्रिय ॥१६॥
सर्वदेवेषु यो मान्यः सर्वदेवेषु सुंदरः ॥
यायजूकेषु सर्वेषु यः श्रेष्ठः सोस्तु मे पतिः ॥१७॥
यथाभिलषितं रूपं यथाभिलषितं सुखम् ॥
यथाभिलषितं चायुः प्रसन्नो देहि मे भव ॥१८॥
यदायदा च पत्या मे संगः स्याद्धृत्सुखेच्छया ॥
तदातदा च तं देहं त्यक्त्वान्यं देहमाप्नुयाम्॥ १९॥
सदा च लिंगपूजायां मम भक्तिरनुत्तमा ॥
भव भूयाद्भवहर जरामरणहारिणी ॥२०॥
भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न ॥
मम भावि महादेव पातिव्रत्यं च यातु मा ॥२१॥
॥ स्कंद उवाच ॥
इमं मनोरथं तस्याः पौलोम्याः पुरसूदनः ॥
समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः ॥२६॥
ईश्वर उवाच ॥
पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः ॥
लप्स्यसे व्रतचर्यातस्तत्कुरुष्व जितेंद्रिये ॥२३॥
मनोरथतृतीयायाश्चरणेन भविष्यति ॥
तत्प्राप्तये व्रतं वक्ष्ये तद्विधेहि यथोदितम् ॥२४॥
तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ॥
अवश्यं भविता बाले तव चैवं मनोरथः ॥२५॥
॥ पुलोमकन्यावोच ॥
कारुण्यवारिधे शंभो प्रणतप्राणि सर्वद ॥
किमात्मिकाथ का शक्तिः का पूज्या तत्र देवता ॥२६॥
कदा च तद्विधातव्यमिति कर्तव्यता च का ॥
इत्याकर्ण्य शिवो वाक्यं तां तु प्रणिजगाद ह ॥२७॥
॥ ईश्वर उवाच ॥
मनोरथतृतीयायां व्रतं पौलोमि तच्छुभम्॥
पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी ॥२८॥
वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः ॥
देव्याः पुरस्ताद्व्रतिना पूज्य आशाविनायकः ॥२९॥
चैत्रशुक्ल तृतीयायां कृत्वा वै दंतधावनम् ॥
सायंतनीं च निर्वर्त्य नातितृप्त्या भुजिक्रियाम् ॥३०॥
नियमं चेति गृह्णीयाज्जितक्रोधो जितेंद्रियः ॥
संत्यक्तास्पृश्य संस्पर्शः शुचिस्तद्गतमानसः ॥३१॥
प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे ॥
विधेहि तत्र सांनिध्यं मन्मनोरथसिद्धये ॥३२॥
नियमं चेति संगृह्य स्वपेद्रात्रौ शुभं स्मरन्॥
प्रातरुत्थाय मेधावी विधायावश्यकं विधिम् ॥३३॥
शौचमाचमनं कृत्वा दंतकाष्ठं समाददेत् ॥
अशोकवृक्षस्य शुभं सर्वशोकनिशातनम् ॥३४॥
नित्यंतनं च निष्पाद्य विधिं विधिविदांवरः ॥
स्नात्वा शुद्धांबरः सायं गौरीपूजां समाचरेत् ॥३५॥
आदौ विनायकं पूज्य घृतपूरान्निवेद्य च ॥
ततोर्चयेद्विश्वभुजामशोककुसुमैः शुभैः ॥३६॥
अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसंभवैः ॥
कुंकुमेनानुलिप्यादावेकभक्तं ततश्चरेत् ॥३७॥
अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः ॥
एवं चैत्रतृतीयायां व्यतीतायां पुलोमजे ॥३८॥
राधादिफाल्गुनांतासु तृतीयासु व्रतं चरेत् ॥
क्रमेण दंतकाष्ठानि कथयामि तवानघे ॥३९॥
अनुलेपनवस्तूनि कुसुमानि तथैव च ॥
नैवेद्यानि गजास्यस्य देव्याश्चापि शुभव्रते ॥४०॥
अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये ॥
जंब्वपामार्ग खदिर जाती चूतकदंबकम् ॥४१॥
प्लक्षोदुंबरखर्जूरी बीजपूरी सदाडिमी ॥
दंतकाष्ठ द्रुमा एते व्रतिनः समुदाहृताः ॥४२॥
सिंदूरागुरु कस्तूरी चंदनं रक्तचंदनम् ॥
गोरोचना देवदारु पद्माक्षं च निशाद्वयम् ॥४३॥
प्रीत्यानुलेपनं बाले यक्षकर्दमसंभवम् ॥
सर्वेषामप्यलाभे च प्रशस्तो यक्षकर्दमः ॥४४॥
कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुंकुमस्य च ॥
चंदनस्य त्रयो भागाः शशिनस्त्वेक एव हि ॥४५॥
यक्षकर्दम इत्येष समस्तसुरवल्लभः ॥
अनुलिप्याथ कुसुमैरर्चयेद्वच्मि तान्यपि ॥४६॥
पाटला मल्लिका पद्म केतकी करवीरकः ॥
उत्पलै राजचंपैश्च नंद्यावर्तैश्च जातिभिः ॥४७॥
कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह ॥
सुगंधिभिः प्रसूनोघैः सर्वालाभेपि पूजयेत् ॥४८॥
करंभो दधिभक्तं च सचूतरसमंडकाः ॥
फेणिका वटकाश्चैव पायसं च सशर्करम् ॥४९॥
समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् ॥
इंडेरिकाश्च लड्डूका माघे लंपसिका शुभा ॥५०॥
मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः ॥
निवेद्याः फाल्गुने देव्यै सार्धं विघ्नजिता मुदा ॥५१॥
निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम् ॥
अन्यन्निवेद्य संमूढो भुंजानोऽन्यत्पतेदधः ॥५२॥
प्रतिमासं तृतीयायामेवमाराध्य वत्सरम् ॥
व्रतसंपूर्तये कुर्यात्स्थंडिलेऽग्निसमर्चनम् ॥५३॥
जातवेदसमंत्रेण तिलाज्यद्रविणेन च ॥
शतमष्टाधिकं होमं कारयेद्विधिना व्रती ॥५४॥
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ॥
नक्त एव हि होमोऽयं नक्त एव क्षमापनम् ॥५५॥
गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह ॥
नमोस्तु ते विश्वभुजे पूरयाशु मनोरथम् ॥५६॥
नमो विघ्नकृते तुभ्यं नम आशाविनायक ॥
त्वं विश्वभुजया सार्धं मम देहि मनोरथम् ॥५७॥
एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ ॥
व्रतक्षमापने देयः पर्यंकस्तूलिकान्वितः ॥५८॥
उपधान्या समायुक्तो दीपीदपर्णसंयुतः ॥
आचार्यं च सपत्नीकं पर्यंक उपवेश्य च ॥५९॥
व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः ॥
सुगंधचंदनैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ॥६०॥
दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये ॥
तथोपभोगवस्तूनिच्छत्रोपानत्कमंडलुम् ॥६१॥
मनोरथतृतीयाया व्रतमेतन्मया कृतम् ॥
न्यूनातिरिक्तं संपूर्णमेतदस्तु भवद्गिरा ॥६२॥
इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै ॥
आसीमांतमनुव्रज्य दत्त्वान्येभ्योपि शक्तितः ॥६३॥
नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः ॥
प्रातश्चतुर्थ्यां संभोज्य चतुरश्च कुमारकान् ॥६४॥
अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः ॥
एवं संपूर्णतां याति व्रतमेतत्सुनिर्मलम् ॥६५॥
कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम् ॥
पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम् ॥६६॥
तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ॥
कुर्वन्नेतद्व्रतं वर्षं कुमारः प्राप्नुयात्स्फुटम् ॥६७॥
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ॥
सुवासिनी लभेत्पुत्रान्पत्युः सौख्यमखंडितम् ॥६८॥
दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी ॥
विधवापि न वैधव्यं पुनराप्नोति कुत्रचित् ॥६९॥
गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् ॥
ब्राह्मणो लभते विद्यां सर्वसौभाग्यदायिनीम् ॥७०॥
राज्यभ्रष्टो लभेद्राज्यं वैश्यो लाभं च विंदति ॥
चिंतितं लभते शूद्रो व्रतस्यास्य निषेवणात् ॥७॥।
धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥७२॥
यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम् ॥
मनोरथतृतीयाया व्रतस्य चरणाद्व्रती ॥७३॥
॥ स्कंद उवाच ॥
इत्थं निशम्य शिवतः शिवा संतुष्टमानसा ॥
पुनः पप्रच्छ विश्वेशं प्रबद्धकरसंपुटा ॥७४॥
अन्यत्र ये व्रतं चैतत्करिष्यंति सदाशिव ॥
ते कथं पूजयिष्यंति मां च आशाविनायकम् ॥७५॥
शिव उवाच ॥
साधु पृष्टं त्वया देवि सर्वसंदेहभेदिनि ॥
वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी ॥७६॥
आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा ॥
हारिणानंतविघ्नानां मम क्षेत्र शुभार्थिना ॥७७॥
क्षिप्रमागमयित्वा च नत्वा दूरंगतानपि ॥
कृतकृत्यान्विधायाथ चिंतितैः समनोरथैः ॥७८॥
अन्यत्र व्रतिभिर्विश्वे कांचनीप्रतिमा तव ॥
पंचकृष्णलकादूर्ध्वं कार्या विघ्नहृतोपि च ॥७९॥
आचार्याय व्रती दद्याद् व्रतांते प्रतिमा द्वयम् ॥
सकृत्कृते व्रती चास्मिन्कृतकृत्यो व्रती भवेत् ॥८०॥
ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम् ॥
कृत्वा मनोरथं प्राप यथाभिवांछितं हृदि ॥८१॥
अरुंधत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया ॥
सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोंऽगजोत्तमः ॥८२॥
सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम् ॥
चतुर्भुजः पतिः प्राप्तः क्षीरनीरधिजन्मना ॥८३॥
किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम् ॥
व्रतानि तेन सर्वाणि कृतानि व्रतिना ध्रुवम् ॥८४॥
श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः ॥
शुभबुद्धिमवाप्नोति पापैरपि विमुच्यते ॥८५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याने विश्वभुजाशाविनायकप्रशंसने मनोरथतृतीयाव्रताख्यानं नामाशीतितमोध्यायः ॥८०॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP