काशीखण्डः - अध्याय ९०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
अगस्त्य उवाच ॥
पार्वतीहृदयानंद पार्वतीश समुद्भवम् ॥
कथयेह यदुद्दिष्टं भवता प्रागघापहम् ॥१॥
॥ स्कंद उवाच ॥
शृण्वगस्ते यदा मेना हिमाचलपतिव्रता ॥
गिरींद्रजां सुतामाह पुत्रि तेस्य महेशितुः ॥२॥
किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन ॥
प्रायो गृहं न जामातुरस्य कोपि च कुत्रचित् ॥३॥
निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा ॥
आसाद्यावसरं शंभुं नत्वा गौरी व्यजिज्ञपत् ॥४॥
मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम् ॥
नाथात्र नैव वस्तव्यं नय मां स्वं निकेतनम् ॥५॥
गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित् ॥
हित्वा हिमगिरिं प्राप्तो निजमानंदकाननम् ॥६॥
प्राप्यानंदवनं देवी परमानंदकारणम्॥
विस्मृत्य पितृसंवासं जाता चानंदरूपिणी ॥७॥
अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा ॥
अच्छिन्नानंदसंदोहः कुतः क्षेत्रेऽत्र तद्वद ॥८॥
इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक् ॥
पंचक्रोशपरीमाणे क्षेत्रेस्मिन्मुक्तिसद्मनि ॥९॥
तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् ॥
एकैकं परितो लिंगं क्रोशं क्रोशं च यावनिः ॥१०॥
अन्यत्रापि हि सा देवि भवेदानंदकारणम् ॥
अत्रानंदवने देवि परमानंदजन्मनि ॥११॥
परमानंदरूपाणि संति लिंगान्यनेकशः ॥
चतुर्दशसु लोकेषु कृतिनो ये वसंति हि ॥१२॥
तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता ॥
अत्र येन महादेवि लिंगं संस्थापितं मम ॥१३॥
वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित् ॥१४॥
परिच्छेदव्यतीतस्यानंदस्य परकारणम् ॥
अतस्त्विदं परं क्षेत्रं लिर्गैर्भूयोभिरद्रिजे ॥१५॥
निशम्येति महादेवी पुनः पादौ प्रणम्य च ॥
देह्यनुज्ञां महादेव लिंगसंस्थापनाय मे॥१६॥
पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता ॥
न तस्याः श्रेयसो हानिः संवर्तेपि कदाचन ॥१७॥
इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः ॥
लिंगं संस्थापितं गौर्या महादेव समीपतः ॥१८॥
तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम् ॥
विलीयेत न संदेहो देहबंधोपि नो पुनः ॥१९॥
तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः ॥
निशामय मुने तं तु भक्तानां हितकाम्यया ॥२०॥
लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति ॥
तद्देहावसितिं प्राप्य काशीलिंगं भविष्यति ॥२१॥
काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति ॥
चैत्रशुक्लतृतीयायां पार्वतीशसमर्चनात् ॥२२॥
इह सौभाग्यमाप्नोति परत्र च शुभां गतिम् ॥
पार्वतीश्वरमाराध्य योषिद्वा पुरुषोपि वा ॥२३॥
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम् ॥
पार्वतीशस्य लिंगस्य नामापि परिगृह्णतः ॥२४॥
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ॥
पार्वतीशस्य माहात्म्यं यः श्रोष्यति नरोत्तमः ॥
ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पार्वतीशवर्णनं नाम नवतितमोऽध्यायः ॥९०॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP