काशीखण्डः - अध्याय ८४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत् ॥
गंगावरणयोः पुण्यात्संभेदात्तीर्थभूमिकाम्॥ १॥
संगमे तत्र निष्णातः संगमेशं समर्च्य च ॥
नरो न जातु जननी गर्भसंगमवाप्नुयात् ॥२॥
तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा ॥
आदौ पादौ क्षलितौ तु मंदराच्चागतेन यत् ॥३॥
विप्णुपादोदके तीर्थे वारिकार्यं करोति यः ॥
व्यतीपातेन नियतं भूयः सांसारिकी गतिः ॥४॥
कृतपादोदक स्नानः कृतकेशवपूजनः ॥
वीतसंसारवसतिः काश्यामासीन्नरोत्तमः ॥५॥
काश्यां सा भूमिरुद्दिष्टा श्वेतद्वीप इति द्विजैः ॥
तत्र पुण्यार्जनं कृत्वा श्वेतद्वीपाधिपो भवेत् ॥६॥
ततः पादोदकात्तीर्थात्तीर्थं क्षीराब्धिसंज्ञकम् ॥
तत्रार्जित महापुण्यो वसेत्क्षीराब्धिरोधसि ॥७॥
क्षीरोदाद्दक्षिणेभागे तीर्थं शंखाख्यनुत्तमम् ॥
तत्र स्नातो भवेन्नूनं नाशंखादिनिधेः पतिः ॥८॥
अर्वाक्च शंखतीर्थाद्वै चक्रतीर्थमनुत्तमम् ॥
संसारचक्रे न पतेत्तत्तीर्थजलमज्जनात् ॥९॥
गदातीर्थं तदग्रे तु संसारगदनाशनम् ॥
तत्र श्राद्धादिकरणात्पश्येद्देवं गदाधरम् ॥१०॥
पद्माकृत्पद्मतीर्थं च तदग्रे पितृतृप्तिकृत् ॥
तत्र स्नानादिकरणात्प्राप्नुयादघसंक्षयम् ॥११॥
ततस्तीर्थं महालक्ष्म्या महापुण्यफलप्रदम् ॥
तत्राभ्यर्च्य महालक्ष्मीं निर्वाणकमलां लभेत् ॥१२॥
ततो गारुत्मतं तीर्थं संसारगरनाशनम् ॥
कृतोदकक्रियस्तत्र वैकुंठे वसतिं लभेत् ॥१३॥
ततो नारदतीर्थं च ब्रह्मविद्यैककारणम् ॥
तत्र स्नानेन मुक्तः स्याद्दृष्ट्वा नारदकेशवम् ॥१४॥
प्रह्लादतीर्थं तद्याम्ये महाभक्तिफलप्रदम् ॥
तत्र वै स्नानमात्रेण विष्णोः प्रियतरो भवेत् ॥१५॥
अंबरीषं ततस्तीर्थं महापातकनाशनम् ॥
तत्र वै शुभकर्माणो जना नो गर्भभाजनम् ॥१६॥
आदित्यकेशवं नाम तदग्रे तीर्थमुत्तमम् ॥
कृताभिषेकस्तत्रापि लभेत्स्वर्गाभिषेचनम् ॥१७॥
दत्तात्रेयस्य तत्रास्ति तीर्थं त्रैलोक्यपावनम् ॥
योगसिद्धिं लभे तत्र स्नानमात्रेण भावतः ॥१८॥
तदग्रे भार्गवं तीर्थं महाज्ञानसमर्पकम् ॥
तत्र स्नानविधानेन भवेद्भार्गव लोकभाक् ॥१९॥
ततो वामनतीर्थं च विष्णुसान्निध्यहेतुकम् ॥
तत्र श्राद्धविधानेन मुच्यते पितृजादृणात् ॥२०॥
नरनारायणाख्यं हि ततस्तीर्थं शुभप्रदम् ॥
तत्तीर्थमज्जनात्पुंसां गर्भवासः सुदुर्लभः ॥२१॥
यज्ञवाराहतीर्थं च ततो दक्षिणतः शुभम् ॥
यत्र स्नातस्य वै पुंसां राजसूयफलं ध्रुवम् ॥२२॥
विदारनारसिंहाख्यं तीर्थं तत्रास्ति पावनम् ॥
यत्रैकस्नानतो नश्येदघ जन्मशतार्जितम् ॥२३॥
गोपीगोविंदतीर्थं च ततो वैष्णवलोकदम् ॥
यस्मिन्स्नातो नरो विद्वान्न विंद्याद्गर्भवेदनम् ॥२४॥
लक्ष्मीनृसिंहतीर्थं च गोपीगोविंद दक्षिणे ॥
निर्वाणलक्ष्म्या यत्रत्यो व्रियते तु नरोत्तमः ॥२५॥
तद्दक्षिणायां काष्ठायां शेषतीर्थमनुत्तमम्॥
महापापौघ शेषोपि न तिष्ठेद्यन्निमज्जनात् ॥२६॥
शंखमाधवतीर्थं च तद्याम्यां दिशि चोत्तमम् ॥
तत्तीर्थसेवनान्नृणां कुतः पापभयं महत् ॥२७॥
ततोपि पावनतरं तीर्थं तत्क्षणसिद्धिदम् ॥
नीलग्रीवाख्यमतुलं तत्स्नायी सर्वदा शुचिः ॥२८॥
तत्रोद्दालकतीर्थं च सर्वाघौघ विनाशनम् ॥
ददाति महतीमृद्धिं स्नानमात्रेण तन्नृणाम् ॥२९॥
ततः सांख्याख्य तीर्थं च सांख्येश्वर समीपतः ॥
तत्तीर्थसेवनात्पुंसां सांख्ययोगः प्रसीदति ॥३०॥
स्वर्लोकाद्यत्र संलीनः स्वयं देव उमापतिः ॥
अतः स्वर्लीनतीर्थं च स्वर्लीनेश्वर सन्निधौ ॥३१॥
तत्र स्नानेन दानेन श्रद्धया द्विजभोजनैः ॥
जपहोमार्चनैः पुंसामक्षयं सर्वमेव हि ॥३२॥
महिषासुरतीर्थं च तत्समीपेति पावनम् ॥
यत्र तप्त्वा स दैत्येंद्रो विजिग्ये सकलान्सुरान् ॥३३॥
तत्तीर्थसेवकोद्यापि नारिभिः परिभूयते ॥
न पातकैर्महद्भिश्च प्रार्थितं च फलं लभेत् ॥३४॥
बाणतीर्थं च तस्यारात्तत्सहस्रभुजप्रदम् ॥
तत्र स्नातो नरो भक्तिं प्राप्नुयाच्छांभवीं स्थिराम् ॥३५॥
गोप्रतारेश्वरं नाम तदग्रे तीर्थमुत्तमम् ॥
अपुत्रोपि तरेद्यत्र स्नातो वैतरणीं सुखम् ॥३६॥
तीर्थं हिरण्यगर्भाख्यं तद्याम्ये सर्वपापहृत्॥
तत्र स्नातो हिरण्येन मुच्यते न कदाचन ॥३७॥
ततः प्रणवतीर्थं च सर्वतीर्थोत्तमोत्तमम् ॥
जीवन्मुक्तो भवेत्तत्र स्नानमात्रेण मानवः ॥३८॥
ततः पिशंगिला तीर्थं दर्शनादपि पापहृत् ॥
मुने ममाधिष्ठानं वै तदगस्तेऽति सिद्धिदम् ॥३९॥
स्नात्वा पिशंगिला तीर्थे दत्त्वा दानं च किंचन ॥
किं शोचति कृतात्पापादन्यत्रापि मृतो यदि ॥४०॥
यो वै पिशंगिला तीर्थे स्नात्वा मामर्चयिष्यति ॥
भविष्यति स मे मित्त्रं मित्रतेजः समप्रभम् ॥४१॥
ततस्त्रैविष्टपीदृष्टि निर्मलीकृत पुष्कलम्॥
तीर्थं पिलिपिलाख्यं वै मनोमलविनाशनम् ॥४२॥
तत्र श्राद्धादिकरणाद्दीनानाथ प्रतर्पणात् ॥
महतीं श्रियमाप्नोति मानवोतीव निश्चलाम् ॥४३॥
ततो नागेश्वरं तीर्थं महाघपरिशोधनम् ॥
तत्तीर्थमज्जनादेव भवेत्सर्वाघसंक्षयः ॥४४॥
तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम् ॥
तीर्थं यत्राप्लुतो मर्त्यो भास्करीं श्रियमावहेत् ॥४५॥
ततो भैरवतीर्थं च महाघौघक्षयप्रदम् ॥
चतुरर्थोदयकरं सर्वविघ्ननिवारणम् ॥४६॥
भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन् ॥
दृष्ट्वा च भैरवं कालं कलिं कालं च संजयेत् ॥४७॥
तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः ॥
तत्र स्नातस्य वै पुंसः कुतोघजनितं भयम् ॥४८॥
मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम ॥
तत्र स्नानेन मर्त्यानां नापायमरणं क्वचित् ॥४९॥
ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् ॥
तीर्थं यत्र नरः स्नात्वा न संसारी पुनर्भवेत् ॥५०॥
ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः ॥
ऊर्जे यत्र समायांति स्वाघौघ परिनुत्तये ॥५१॥
सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम् ॥
तिष्ठंति तीर्थवर्याणि निजनैर्मल्यहेतवे ॥५२॥
भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे ॥
परं पांचनदः कैश्चिन्महिमानापि कुत्रचित् ॥५३॥
अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम् ॥
जपहोमार्चनादानैः कृतकृत्यास्त एव हि ॥५४॥
सर्वाण्यपि च तीर्थानि युगपत्तुलितान्यपि ॥
नाधिजन्मुः पंचनद्याः कलाया अपि तुल्यताम् ॥५५॥
स्नात्वा पांचनदे तीर्थे दृष्ट्वा वै बिंदुमाधवम् ॥
न जातु जायते धीमाञ्जननी जठराजिरे ॥५६॥
ततो ज्ञानहदं तीर्थं जडानामपि जाड्यहृत् ॥
तत्र स्नातो नरो जातु ज्ञानभ्रंशं न चाप्नुयात् ॥५७॥
तत्र ज्ञानह्रदे स्नात्वा दृष्ट्वा ज्ञानेश्वरं नरः ॥
ज्ञानं तदधिगच्छेद्वै येन नो बाध्यते पुनः ॥५८॥
ततोस्ति मंगलं तीर्थं सर्वामंगलनाशनम् ॥
तत्रावगाहनं कृत्वा भवेन्मंगलभाजनम् ॥५९॥
अमंगलानि नश्येयुर्भवेयुर्मंगलानि च ॥
स्नातुर्वै मंगले तीर्थे नमस्कर्तुश्च मंगलम् ॥६०॥
मयूखमालिनस्तीर्थं तदग्रे मलनाशनम् ॥
तत्राप्लुतो गभस्तीशं विलोक्य विमलो भवेत् ॥६१॥
मखतीर्थं तु तत्रैव मखैश्वर समीपतः ॥
मखजं पुण्यमाप्नोति तत्र स्नातो नरोत्तमः ॥६२॥
तत्पार्श्वे बिंदुतीर्थं च परमज्ञानकारणम् ॥
तत्र श्राद्धादिकं कृत्वा लभेत्सुकृतमुत्तमम् ॥६३॥
पिप्पलादस्य च मुनेस्तीर्थं तद्याम्यदिक्स्थितम् ॥
स्नात्वा शनेर्दिने तत्र दृष्ट्वावै पिप्पलेश्वरम् ॥६४॥
पिप्पलं तत्र सेवित्वा अश्वत्थ इति मंत्रतः ॥
शनिपीडां न लभते दुःस्वप्नं चापि नाशयेत् ॥६५॥
ततस्ताम्रवराहाख्यं तीर्थं चैवातिपावनम् ॥
यत्र स्नानेन दानेन न मज्जेदघसागरे ॥६६॥
तदग्रे कालगंगा च कलिकल्मषनाशिनी ॥
तस्यां स्नात्वा नरो धीमांस्तत्क्षणान्निरघो भवेत् ॥६७॥
इंद्रद्युम्नं महातीर्थमिंद्रद्युम्नेश्वराग्रतः ॥
तोयकृत्यं तत्र कृत्वा लोकमैंद्रमवाप्नुयात॥ ६८॥
ततस्तु रामतीर्थं च वीररामेश्वराग्रतः॥
तत्तीर्थस्नानमात्रेण वैष्णवं लोकमाप्नुयात् ॥६९॥
तत ऐक्ष्वाकवं तीर्थं सर्वाघौघविनाशनम् ॥
तत्र स्नानेन पूतात्मा जायते मनुजोत्तमः ॥७०॥
मरुत्ततीर्थं तत्प्रांते मरुत्तेश्वरसन्निधो ॥
तत्र स्नात्वा तमर्च्येशं महदैश्वर्यमाप्नुयात् ॥७१॥
मैत्रावरुणतीर्थं च ततः पातकनाशनम् ॥
तत्र पिंडप्रदानेन पितॄणां भवति प्रियः ॥७२॥
ततोग्नितीर्थविमलमग्नीश पुरतो महत् ॥
अग्निलोकमवाप्नोति तत्तीर्थपरिमज्जनात् ॥७३॥
अंगारतीर्थं तत्रैव अंगारेश्वरसन्निधौ ॥
तत्रांगार चतुर्थ्यां नु स्नात्वा निष्पापतामियात् ॥७४॥
ततो वै कलितीर्थं च कलशेश्वरसन्निधौ ॥
स्नात्वा तल्लिंगमभ्यर्च्य कलिकालान्न बिभ्यति ॥७५॥
चंद्रतीर्थं च तत्रैव चंद्रेश्वरसमीपतः ॥
तत्र स्नात्वार्च्य चंद्रेशं चंद्रलोकमवाप्नुयात् ॥७६॥
तदग्रे वीरतीर्थं च वीरेश्वर समीपतः ॥
यदुक्तं प्राक्तवपुरस्तीर्थानामुत्तमं परम् ॥७७॥
विघ्नेशतीर्थं च ततः सर्वविघ्नविघातकृत् ॥
जातुचित्तत्र संस्नातो न विघ्नैरभिभूयते ॥७८॥
हरिश्चंद्रस्य राजर्षस्ततस्तीर्थमनुत्तमम् ॥
यत्र स्नातो नरो जातु न सत्याच्चयवते कचित् ॥७९॥
हरिश्चंद्रस्य तीर्थे तु यच्छ्रेयः समुपार्जितम् ॥
तदक्षयफलं वीर इह लोके परत्र च ॥८०॥
ततः पर्वततीर्थं च पर्वतेश समीपतः ॥
सर्वपर्वफलं तस्य स्नात्वा पर्वण्यपर्वणि ॥८१॥
कंबलाश्वतरं तीर्थं तत्र सर्वविषापहम् ॥
तत्र स्नातो भवेन्मर्त्यो गीतविद्याविशारदः ॥८२॥
ततः सारस्वतं तीर्थं सर्वविद्योपपादकम् ॥
तिष्ठेयुः पितरस्तत्र सह देवर्षिमानवैः ॥८३॥
उमातीर्थं तु तत्रैव सर्वशक्तिसमन्वितम् ॥
औमेयलोकप्राप्त्यै स्यात्स्नानमात्रेण निश्चितम् ॥८४॥
ततस्त्रिलोकी विख्यातं त्रिलोक्युद्धरणक्षमम् ॥
तीर्थं श्रेष्ठतरं वीर यदाख्या मणिकर्णिका ॥८५॥
चक्रपुष्करिणीतीर्थं तदादौ विष्णुना कृतम् ॥
तदाख्या कर्णनादेव सर्वैः पापैः प्रमुच्यते ॥८६॥
स्वर्गौकसस्त्रिसंध्यं वै जपंति मणिकर्णिकाम् ॥
यन्नामग्रहणं पुंसां श्रेयसं परमाय हि ॥८७॥
यैः श्रुता यैः स्मृता वीर यैर्दृष्टा मणिकर्णिका ॥
त एव कृतिनो लोके कृतकृत्यास्त एव हि ॥८८॥
त्रिलोके ये जपंतीह मानवा मणिकर्णिकाम् ॥
जपामि तानहं वीर त्रिकालं पुण्यकर्मणः ॥८९॥
इष्टं तेन महायज्ञैः सहस्रशतदक्षिणैः ॥
पंचाक्षरी महाविद्या येनोक्ता मणिकर्णिका ॥९०॥
महादानानि दत्तानि तेन वै पुण्यकर्मणा ॥
येनाहमर्चितो वीर संप्राप्य मणिकर्णिकाम् ॥९१॥
मणिकर्ण्यंबुभिर्येन तर्पिताः प्रपितामहाः ॥
तेन श्राद्धानि दत्तानि गयायां मधुपायसैः ॥९२॥
मणिकर्णीजलं येन संपीतं शुद्धबुद्धिना ॥
किं तस्य सोमपानैस्तैः पुनरावृत्तिलक्षणैः ॥९३॥
ते स्नाताः सर्वतीर्थेषु महापर्वसुभूरिशः ॥
तथा च सर्वावभृथैर्यैः स्नाता मणिकर्णिका ॥९४॥
तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः ॥
यैः स्वर्णकुसुमैरत्नैरर्चिता मणिकर्णिका ॥९५॥
अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम् ॥
अर्चितः प्रत्यहं येन पूजिता णिकर्णिका ॥९६॥
तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम् ॥
सेविता श्रद्धया येन श्रीमती मणिकर्णिका ॥९७॥
दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः ॥
चिरं तप्त्वाप्यरण्येषु स्वर्गैश्वर्यान्महीं पुनः ॥९८॥
विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा ॥
संश्रिता मणिकर्णीयैस्ते याताश्चानिवर्तकाः ॥९९॥
दानानां च व्रतानां च क्रतूनां तपसामपि ॥
इदमेव फलं मन्ये यदाप्या मणिकर्णिका ॥१००॥
मोक्षलक्ष्मीरियं साक्षाच्छ्रीमती मणिकर्णिका ॥
प्रायोस्या महिमानं वै नवेद्म्यहमपि स्फुटम् ॥१॥
अवाच्यां मणिकर्ण्याश्च तीर्थं पाशुपतं परम् ॥
तीर्थं तु रुद्रवासाख्यं विश्वतीर्थमतः परम् ॥२॥
मुक्तितीर्थं ततो रम्यमविमुक्तमथोत्तमम् ॥
तीर्थं च तारकं स्कांदं ढुंढेस्तीर्थं ततोपि च ॥३॥
भवानेयमथैशानं ज्ञानतीर्थमथोत्तमम् ॥
नंदितीर्थं विष्णुतीर्थं तीर्थं पैतामहं ततः ॥४॥
नाभितीर्थमिदं चैव ब्रह्मनालमतः परम् ॥
ततो भागीरथं तीर्थं यत्तवाग्रे पुराकथि ॥५॥
तीर्थात्युत्तरवाहिन्यां स्वर्धुन्यां काशिसन्निधौ ॥
संत्यनेकानि पुण्यानि मयोक्तान्यल्पशः पुनः ॥६॥
तत्रापि नितरां श्रेष्ठा पंचतीर्थी(?) नृपांगज ॥
यस्यां स्तात्वा नरो भूयो गर्भवासं न संस्मरेत् ॥७॥
प्रथमं चासिसंभेदं तीर्थानां प्रवरं परम्॥
ततो दशाश्वमेधाख्यं सर्वतीर्थनिषेवितम् ॥८॥
ततः पादोदकं तीर्थमादिकेशवसन्निधौ ॥
ततः पंचनदं पुण्यं स्नानमात्रादघौघहृत् ॥९॥
एतेषामपि तीर्थानां चतुर्णामपि सत्तम ॥
पंचमं मणिकर्ण्याख्यं मनावेयवशुद्धिदम् ॥११०॥
अहं स्नाम्यत्र सततमुमया सह पर्वसु ॥
ब्रह्मणा विष्णुना सार्धं सहेंद्रादिसुरर्षिभिः ॥११॥
अतएवात्र गीयेत गाथेयं श्रुतिसंमता॥
नागलोककृतावासैः स्वर्गौकोभिश्च संततम् ॥१२॥
सत्यं सत्यं पुनः सत्यं सत्यपूर्वमिदं वचः ॥
मणिकर्णी समं तीर्थं नास्ति ब्रह्मांडगोलके ॥१३॥
पंचतीर्थ्यां नरः स्नात्वा न देहं पांचभौतिकम् ॥
गृह्णाति जातुचित्काश्यां पंचास्योवाथ जायते ॥१४॥
इति दत्त्वा वरान्देवो वीरस्यांतर्दधे हरः ॥
स च वीरोपि वीरेशं प्रार्च्य प्राप्तः समीहितम् ॥१५॥
॥ स्कंद उवाच॥
तीर्थाध्यायमिमं पुण्यमगस्ते यो निशामयेत् ॥
तस्याघसंक्षयं यायादपि जन्मशतार्जितम् ॥१६॥
इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः ॥
कथितं ते पुरागस्ते कामेशं कथयाम्यतः ॥११७॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे वीरेश्वराख्यानं नाम चतुरशीतितमोऽध्यायः ॥८४॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP