संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ७३

काशीखण्डः - अध्याय ७३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अगस्त्य उवाच ॥
त्रिलोचनं समासाद्य देवदेवः षडाननः ॥
जगदंबिकयायुक्तः किं चकाराशु तद्वद ॥१॥
॥ स्कन्द उवाच ॥
मुने कलशजाख्यामि यत्पृष्टं तन्निशामय ॥
विरजःसंज्ञकं पीठं यत्प्रोक्तं सर्वसिद्धिदम् ॥२॥
तत्पीठदर्शनादेव विरजा जायते नरः ॥
यत्रास्ति तन्महालिंगं वाराणस्यां त्रिलोचनम् ॥३॥
तीर्थं पिलिपिलाख्यं तद्द्युनद्यंभसि विश्रुतम् ॥
सर्वतीर्थमयं तीर्थं तत्काश्यां परिगीयते ॥४॥
विष्टपत्रितयांतर्ये देवर्षिमनुजोरगाः ॥
ससरित्पर्वतारण्याः संति ते तत्र यन्मुने ॥५॥
तदारभ्य च तत्तीर्थं तच्च लिंगं त्रिलोचनम् ॥
त्रिविष्टपमिति ख्यातमतोहेतोर्महत्तरम् ॥६॥
त्रिविष्टपस्य लिंगस्य महिमोक्ताः पिनाकिना ॥
जगज्जनन्याः पुरतो यथा वच्मि तथा मुने ॥७॥
॥ देव्युवाच ॥
देवदेव जगन्नाथ शर्व सर्वद सर्वग ॥
सर्वदृक्सर्वजनक किंचित्पृच्छामि तद्वद ॥८॥
इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम् ॥
नैःश्रेयस्याः श्रियो गेहं ममापि प्रीतिदं महत् ॥९॥
यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते ॥
तस्याखिलस्य महिमा विष्वक्केनावगम्यते ॥१०॥
यानीह संति लिंगानि तानि सर्वाण्यसंशयम् ॥
निर्वाणकारणान्येव स्वयंभून्यपि तान्यपि ॥११॥
यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि ॥
काश्यामनादिसिद्धानि कानि लिंगानि शंकर ॥१२॥
यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः ॥
यैरियं प्रथितिं प्राप्ता काशी मुक्तिपुरीति च॥ १३॥
येषां स्मरणतोप्यत्र भवेत्पापस्य संक्षयः॥
दर्शनस्पर्शनाभ्यां च स्यातां स्वर्गापवर्गकौ ॥१४॥
येषां समर्चनादेव मध्ये जन्म सकृद्विभो ॥
लिंगानि पूजितानि स्युः काश्यां सर्वाणि निश्चितम् ॥१५॥
विधाय मय्यनुक्रोशं कारुण्यामृतसागर ॥
एतदाचक्ष्व मे शंभो पादयोः प्रणतास्म्यहम् ॥१६॥
इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम्॥
कथयामास र्विध्यारे महालिंगानि सत्तम ॥१७॥
यन्नामाकर्णनादेव क्षीयंते पापराशयः ॥
प्राप्यते पुण्यसंभारः काश्यां निवार्णकारणम् ॥१८॥
॥ देवदेव उवाच ॥
शृणु देवि परं गुह्यं क्षेत्रेऽस्मिन्मुक्तिकारणम् ॥
इदं विदंति नैवापि ब्रह्मनारायणादयः ॥१९॥
असंख्यातानि लिंगानि पार्वत्यानंदकानने ॥
स्थूलान्यपि च सूक्ष्माणि नानारत्नमयानि च ॥२०॥
नानाधातुमयानीशे दार्षदान्यप्यनेकशः ॥
स्वयंभून्यप्यनेकानि देवर्षिस्थापितान्यहो ॥२१॥
सिद्धचारणगंधर्व यक्षरक्षोर्चितान्यपि ॥
असुरोरगमर्त्यैश्च दानवैरप्सरोगणैः ॥२२॥
दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः ॥
पतत्रिप्रमुखैर्देवि स्वस्वनामांकितानि वै ॥२३॥
प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि ॥
अदृश्यान्यपि दृश्यानि दुरवस्थान्यपि प्रिये ॥२४॥
भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि॥
परार्धशतसंख्यानि गणितान्येकदा मया ॥२५॥
गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि॥
सिद्धलिंगानि तानीशे तिष्येऽदृश्यत्वमाययुः ॥२६॥
गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये ॥
प्रतिष्ठितानि यानीह तेषां संख्या न विद्यते ॥२७॥
त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम् ॥
तानि लिंगानि वक्ष्यामि मुक्तिहेतूनि सुंदरि ॥२८॥
कलावतीव गोप्यानि भविष्यंति गिरींद्रजे ॥
परं तेषां प्रभावो यः स्वस्वस्थानं न हास्यति ॥२९॥
कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः ॥
एतेषां सिद्धलिंगानां ज्ञास्यंत्याख्यामपीह न ॥३०॥
नामश्रवणतोपीह यल्लिंगानां शुभानने ॥
वृजिनानि क्षयं यांति वर्धंते पुण्यराशयः ॥३१॥
ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम् ॥
तृतीयश्च महादेवः कृत्तिवासाश्चतुर्थकम् ॥३२॥
रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम् ॥
केदारः सप्तमं लिंगं धर्मेशश्चाष्टमं प्रिये ॥३३॥
वीरेश्वरं च नवमं कामेशं दशमं विदुः ॥
विश्वकर्मेश्वरं लिंगं शुभमेकादशं परम् ॥३४॥
द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम् ॥
चतुर्दशं महालिंगं मम विश्वेश्वराभिधम् ॥३५॥
प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि ॥
एतेषां समवायोयं मुक्तिक्षेत्रमिहेरितम् ॥३६॥
देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः ॥
आराधिताः प्रयच्छंति नृभ्यो नैःश्रेयसीं श्रियम् ॥३७॥
आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि ॥
प्रिये चतुर्दशेज्यानि महालिंगानि देहिनाम् ॥३८॥
प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम् ॥
एतेषां लिंगमुख्यानां कार्या यात्रा प्रयत्नतः ॥३९॥
अनाराध्य महादेवमेषु लिंगेषु कुंभज ॥
कः काश्यां मोक्षमाप्नोति सत्यं सत्यं पुनःपुनः ॥४०॥
तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः ॥
पूज्यान्येतानि लिंगानि भक्त्या परमया मुने ॥४१॥
॥ अगस्त्य उवाच ॥
एतान्येव किमन्यानि महालिंगानि षण्मुख ॥
निर्वाणकारणानीह यदि संति तदा वद ॥४२॥
॥ स्कंद उवाच ॥
अन्यान्यपि च संतीह महालिंगानि सुव्रत ॥
कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै ॥४३॥
यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः ॥
स एवैतानि लिंगानि वेत्स्यत्यन्यो न कश्चन ॥४४॥
येषां नामग्रहेणापि कलिकल्मष संक्षयः ॥
अमृतेशस्तारकेशो ज्ञानेशः करुणेश्वरः ॥४५॥
मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा ॥
ब्रह्मेशो लांगलश्चैव वृद्धकालेश्वरस्तथा ॥४६॥
वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः ॥
ज्योतीरूपेश्वरं लिंगं ख्यातमत्र चतुर्दशम् ॥४७॥
काश्यां चतुर्दशैतानि महालिंगानि सुंदरि ॥
इमानि मुक्तिहेतूनि लिंगान्यानंदकानने ॥४८॥
कलिकल्मषबुद्धीनां नाख्येयानि कदाचन ॥
एतान्याराधयेद्यस्तु लिंगानीह चतुर्दश ॥४९॥
न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ॥
काशीकोशोयमतुलो न प्रकाश्यो यतस्ततः ॥५०॥
एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत् ॥
रहस्यं परमं चैतत्क्षेत्रस्यास्य वरानने ॥५१॥
चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि ॥
अविमुक्तस्य हृदयमेतदेव गिरींद्रजे ॥५२॥
इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि ॥
एकैकभुवनस्येह सारमादाय सर्वतः ॥
मयैतानि कृतान्येव महाभक्तिकृपावशात् ॥५३॥
अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये ॥
कारणं तत्र लिंगानि ममैतानि चतुर्दश ॥५४॥
त एव व्रतिनः कांते त एव च तपस्विनः॥
ध्यातान्येतानि यैर्भक्तैर्लिंगान्यानंदकानने ॥५५॥
त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि ॥
काश्यामिमानि लिंगानि यैर्दृष्टान्यपि दूरतः ॥५६॥
इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः ॥
ते सर्वे तेन विहिता यावज्जीवं निरेनसा ॥५७॥
येनाविमुक्तमासाद्य महालिंगानि पार्वति ॥
सकृदभ्यर्चितानीह स मुक्तो नात्र संशयः ॥५८॥
॥ स्कंद उवाच ॥
अन्यान्यपि च विंध्यारे देव्यै प्रोक्तानि शंभुना ॥
स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज ॥५९॥
शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः ॥
हिरण्यगर्भ ईशानो गोप्रेक्षो वृषभध्वजः ॥६०॥
उपशांत शिवो ज्येष्ठो निवासेश्वर एव च ॥
शुक्रेशो व्याघ्रलिंगं च जंबुकेशं चतुर्दशम् ॥६१॥
मुने चतुर्दशैतानि महांत्यायतनानि वै ॥
एतेषामपि सेवातो नरो मोक्षमवाप्नुयात् ॥६२॥
चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः ॥
आ चतुर्दशिपूज्यानि लिंगान्येतानि सत्तमैः ॥६३॥
एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम् ॥
कार्या मुमुक्षुभिः सम्यक्क्षेत्रसंसिद्धिदायिनी ॥६४॥
मुने चतुर्दशैतानि महालिंगानि यत्नतः ॥
दृष्ट्वा न जायते जंतुः संसारे दुःखसागरे ॥६५॥
क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम् ॥
संसाररोगग्रस्तानामिदमेव महौषधम् ॥६६॥
क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम् ॥
कर्मकाननदावाग्निरेषा लिंगावलिः प्रिये ॥६७॥
एकैकस्यास्य लिंगस्य महिमाद्यंत वर्जितः ॥
मयैव ज्ञायते देवि सम्यङ्नान्येन केनचित् ॥६८॥
इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा ॥
प्रणम्य देवमीशानं सर्वज्ञं सर्वदं शिवम् ॥६९॥
॥ देव्युवाच ॥
रहस्यं परमं काश्यां यदेतत्समुदीरितम् ॥
तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ ॥७०॥
यदुक्तं लिगमेकैकं महासारतरं परम् ॥
काश्यां परमनिर्वाणकारणं कारणेश्वर ॥७१॥
प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर ॥
चतुर्दशानां लिंगानां श्रवणादघहारिणाम् ॥७२॥
ओंकारेशस्य लिंगस्य कथमत्र समागमः ॥
अतिपुण्यतमात्तस्मात्क्षेत्रादमरकंटकात् ॥७३॥
किमात्मकोऽयमोंकारो महिमास्य च को हर ॥
केनाराधि पुरा चैष ददावाराधितश्च किम् ॥७४॥
मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम् ॥
कथामकथयद्देव ओंकारस्यमहाद्भुताम् ॥७५॥
॥ देवदेव उवाच ॥
कथामाकर्णयापर्णे वर्णयामि तवाग्रतः ॥
यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत् ॥७६॥
पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना ॥
तपस्तप्तं महादेवि समाधिं दधतापरम् ॥७७॥
पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्॥
उदतिष्ठत्पुरोज्योतिर्विद्योतित हरिन्मुखम् ॥७८॥
यदंतराविरभवन्निर्व्याजेन समाधिना॥
तदेव परमं धाम बहिराविरभूद्विधेः ॥७९॥
योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः॥
तच्छब्दाद्व्यसृजद्वेधाः समाधिं क्रमतो वशी ॥८०॥
स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने ॥
पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ॥८१॥
अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ॥
नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम् ॥८२॥
उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम् ॥
विधातारं समस्तस्य स्वाकारमिव बिंबितम् ॥८३॥
नीरवध्वांतसंकेत सदनाभं तदग्रतः ॥
मकारं स ददर्शाथ तमोरूपं विशेषतः ॥८४॥
साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम् ॥
अथ तत्पुरतो ध्याता व्यधात्स्वनयनातिथिम् ॥८५॥
विश्वरूपमयाकारं सगुणं वापि निर्गुणम्॥
अनाख्यनादसदनं परमानंदविग्रहम् ॥८६॥
शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम् ॥
अथोपरिष्टान्नादस्य बिंदुरूपं परात्परम् ॥८७॥
कारणं कारणानां च जगद्योनिं च तं परम् ॥
विधिर्विलोकयांचक्रे तपसागोचरीकृतम् ॥८८॥
अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः ॥
भक्तमुन्नयते यस्मात्तदोमिति य ईरितः ॥८९॥
अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ॥
तारयेद्यद्भवांभोधेः स्वजपासक्तमानसम् ॥
ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत् ॥९०॥
प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः ॥
सर्वेभ्योभ्यधिकस्तस्मात्प्रणवो यैः प्रकीर्तितः ॥९१॥
स्वसेवितारं पुरुषं प्रणयेद्यः परंपदम् ॥
अतस्तप्रणवं शांतं प्रत्यक्षीकृतवान्विधिः ॥९२॥
त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः ॥
नादबिंदुस्वरूपो यः स प्रैक्षि द्विजगामिना ॥९३॥
प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः ॥
सवेदादिः पद्मभुवा पुरस्तादवलोकितः ॥९४॥
वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः ॥
सनेत्रविषयी चक्रे परमः परमेष्ठिना ॥९५॥
शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च ॥
द्वे शीर्षे च त्रयः पादाः स देवो विधिनैक्षत ॥९६॥
यदंतर्लीनमखिलं भूतं भावि भवत्पुनः ॥
तद्बीजं बीजरहितं द्रुहिणेन विलोकितम् ॥९७॥
लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम्॥
अतः स भाज्यते सद्भिर्यल्लिंगं तद्विलोकितम् ॥९८॥
पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत् ॥
आदिपंचस्वरूपंयन्निरैक्षि ब्रह्मणा हि तत् ॥९९॥
तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् ॥
पंचाक्षरं प्रपंचाच्च भिन्नं तुष्टाव शंकरम् ॥१००॥
ब्रह्मोवाच ॥।
नम ओंकाररूपाय नमोऽक्षरवपुर्धृते ॥
नमोऽकारादिवर्णानां प्रभवाय सदाशिव ॥१॥
अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते ॥
ऋग्यजुः सामरूपाय रूपातीताय ते नमः ॥२॥
नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ॥
अलिंगलिंगरूपाय सर्वरूपस्वरूपिणे ॥३॥
नमस्ते धाम निधये निधनादिविवर्जित ॥
नमो भवाय रुद्राय शर्वाय च नमोस्तुते ॥४॥
नम उग्राय भीमाय पशूनां पतये नमः ॥
नमस्तारस्वरूपाय संभवाय नमोस्तु ते ॥५॥
अमायाय नमस्तुभ्यं नमः शिवतराय ते ॥
कपर्दिने नमस्तुभ्यं शितिकंठ नमोस्तु ते ॥६॥
मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः ॥
नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे ॥७॥
कुमारगुरवे तुभ्यं कुमारवपुषे नमः ॥
नमः श्वेताय कृष्णाय पीतायारुणमूर्तये ॥८॥
धूम्रवर्णाय पिंगाय नमः किर्मीरवर्चसे ॥
नमः पाटलवर्णाय नमो हरिततेजसे ॥९॥
नानावर्णस्वरूपाय वर्णानां पतये नमः ॥
नमस्ते स्वररूपाय नमो व्यंजनरूपिणे ॥११०॥
उदात्तायानुदात्ताय स्वरिताय नमो नमः ॥
ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः ॥११॥
अनुस्वारस्वरूपाय नमस्ते सानुनासिक ॥
नमो निरनुनासाय दंत्यतालव्यरूपिणे ॥१२॥
ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे ॥
अंतस्थाय नमस्तुभ्यं पंचमाय पिनाकिने ॥१३॥
निषादाय नमस्तुभ्यं निषादपतये नमः ॥
वीणावेणुमृदंगादि वाद्यरूपाय ते नमः ॥१४॥
नमस्ताराय मंद्राय घोरायाघोरमूर्तये ॥
नमस्तानस्वरूपाय मूर्च्छनां पतये नमः ॥१५॥
स्थायिसंचारिभेदेन नमो भावस्वरूपिणे ॥
तालप्रियाय तालाय लास्यतांडवजन्मने ॥१६॥
तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय ॥तौर्यत्रिककृतांभक्त्या निर्वाणश्रीप्रदायक ॥१७॥
स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्य स्वरूपिणे ॥
अर्वाचीनाय च नमः पराचीनाय ते नमः ॥१८॥
वाक्प्रपंच स्वरूपाय वाक्प्रपंच पराय च ॥
एकायानेकभेदाय सदसत्पतये नमः ॥१९॥
शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते ॥
नमो वेदांतवेद्याय वेदानां पतये नमः ॥१२०॥
नमो वेदस्वरूपाय वेदगोचरमूर्तये ॥
पार्वतीश नमस्तुभ्यं जगदीश नमोस्तु ते ॥२१॥
नमस्ते देवदेवेश देव दिव्यपदप्रद ॥
शंकराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥२२॥
नमस्ते जगदानंद नमस्ते शशिशेखर ॥
मृत्युंजय नमस्तुभ्यं नमस्ते त्र्यंबकाय च ॥२३॥
नमः पिनाकहस्ताय त्रिशूलायुधधारिणे ॥
नमस्त्रिपुरहंत्रे च नमोंधक निषूदन ॥२४॥
कंदर्पदर्पदलन नमोजालंधरारये ॥
कालाय कालकालाय कालकूटविषादिने ॥२५॥
विषादहंत्रे भक्तानामभक्तैक विषादद ॥
ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते ॥२६॥
योगसिद्धिप्रदोसि त्वं योगिनां योगसत्तम ॥
तपसां फलदोसि त्वं तपस्विभ्यस्तपोधन ॥२७॥
त्वमेव मंत्ररूपोसि मंत्राणां फलदो भवान् ॥
महादानफलं त्वं वै महादानप्रदो भवान् ॥२६॥
महायज्ञस्त्वमेवेश महायज्ञ फलप्रद ॥
त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान् ॥२९॥
सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक ॥
योगिनां हृदयाकाश कृतालय नमोस्तु ते ॥१३०॥
त्वमेव विष्णुरूपेण शंखचक्रगदाधर ॥
त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोस्तु ते ॥३१॥
त्वमेव विदधास्ये तद्विधिर्भूत्वा विधानवित् ॥
रजोरूपं समालंब्य नीरजस्कपदप्रद ॥३२॥
त्वमेव हि महारुद्रस्त्वं महोग्रो भुजंगभृत् ॥
त्वमेव हि महाभीमो महापितृवनेचर ॥३३॥
तामसीं तनुमाश्रित्य त्वं कृतांत कृतांतक ॥
कालाग्निरुद्रो भूऽत्वांते त्वं संवर्त प्रवर्तकः ॥३४॥
त्वं पुंप्रकृतिरूपाभ्यां महदाद्यखिलं जगत् ॥
अक्षिपक्ष्मसमुत्क्षेपात्पुनराविः करोप्यज ॥३५॥
उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् ॥
कपालमालाखेलोयं भवतः स्वैरचारिणः ॥३६॥
त्वत्कंठे नृकरोटीयं धूर्जटे या विभासते ॥
सर्वेषामंतदग्धानां सास्फुटं बीजमालिका ॥३७॥
त्वत्तः सर्वमिदं शंभो त्वयि सर्वं चराचरम् ॥
कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम् ॥३८॥
स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च ॥
वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किंचन ॥३९॥
त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा ॥
त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः ॥१४०॥
इत्युदीर्यासकृद्वेधाः प्रणनाम महेश्वरम् ॥
प्रणवाख्यं महालिंगरूपिणं दंडवत्क्षितौ ॥४१॥
॥ ईश्वर उवाच ॥
ततो गिरींद्रतनये श्रुत्वा ब्रह्मस्तुतिं पराम् ॥
परमैश्वर्यसंपत्ति हेतुं तुष्टोहमद्भुतम् ॥४२॥
अमूर्तोऽहं ततो लिंगान्मूर्तिमास्थाय शांकरीम् ॥
प्रसन्नोस्मि वरं ब्रूहीत्युवाच चतुराननम् ॥४३॥
चतुर्वक्त्रः समुत्थाय प्रत्यक्षं वीक्ष्य मामथ ॥
पुनर्जयजयेत्युक्त्वा प्रणनाम कृतांजलिः ॥४४॥
आनंदबाष्पसलिलनेत्रो हृष्टतनूरुहः ॥
गद्गदेन स्वरेणाथ प्रोवाच जलजासनः ॥४५॥
ब्रह्मोवाच ॥
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥
तदेतस्मिन्महालिंगे सान्निध्यं तेऽस्तु शंकर ॥४६॥
अयमेव वरो देयो नान्यं वरमहं वृणे ॥
ओंकारेश्वरनामैतदस्तु भक्तैकमुक्तिदम् ॥४७॥
॥ स्कंद उवाच ॥
विध्युक्तमिति विप्रर्षे समाकर्ण्य तदेशिता ॥
उवाच वचनं चैतत्तथास्तु चतुराननम् ॥४८॥
वरानन्यानपि विभुः प्रसन्नस्तत्क्षणाद्ददौ॥
विधये दीर्घतपसे तया स्तुत्यातितोषितः ॥४९॥
॥ ईश्वर उवाच ॥
सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव ॥
सृष्टेःकरणसामर्थ्यं तवास्तु मदनुग्रहात् ॥१५०॥
पितामहस्त्वं सर्वेषां सर्वेषां मान्यभूर्भवान् ॥
त्वत्तपःफलदानार्थं यदेतल्लिंगमुत्थितम् ॥५१॥
परमोंकाररूपं च शब्दब्रह्ममयं विधे ॥
अस्याराधनतः पुंसां न दूरं ब्रह्मणः पदम् ॥५२॥
अकाराख्यमिदं लिंगमुकाराख्यमिदं परम् ॥
मकाराह्वयमेतच्च नादाख्यं बिंदुसंज्ञकम् ॥५३॥
पंचायतनमीशानमित्थमेतदुदीरितम् ॥
मोक्षाय सर्वजंतूनामस्मिन्नानंदकानने ॥५४॥
स्नात्वा मत्स्योदरी तीर्थे विलोक्योंकारमीश्वरम् ॥
न जातु जायते जंतुर्जननी जठरे क्वचित् ॥५५॥
एतन्नादेश्वरं लिंगमेतल्लिंगं सुदुर्लभम् ॥
रम्ये मत्स्योदरी तीरे दृष्टं स्पृष्टं विमुक्तिदम् ॥५६॥
यदेतत्कापिलं ज्योतिरेतल्लिंगे विलोक्यते ॥
अतस्तु कपिलेशाख्यमेतल्लिंगं सुदुर्लभम् ॥५७॥
मत्स्योदरी यदा गंगा कपिलेश्वर सन्निधौ ॥
तदा तत्र नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥५८॥
वरणोत्सिक्तपानीये द्युनदीतोयमिश्रिते ॥
स्नात्वा नादेश्वरं दृष्ट्वा नरः किमनुशोचति ॥५९॥
अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः ॥
षष्टि कोटि सहस्राणि मत्स्योदर्यां विशंति हि ॥१६०॥
प्रणवेश समीपे तु यदा गंगा समेष्यति ॥
तदा पुण्यतमः कालो देवर्षि पितृवल्लभः ॥६१॥
तत्र स्नानं जपोदानं हवनं देवतार्चनम् ॥
मत्स्योदर्यामक्षयं स्यादोंकारेश्वरसन्निधौ ॥६२॥
ओंकारदर्शनादेव वाजिमेधफलं लभेत् ॥
तस्मात्काश्यां प्रयत्नेन दृश्य ओंकार ईश्वरः ॥६३॥
दुर्लभं मानवं जन्म चतुर्वर्गैकसाधनम् ॥
जलबुद्बुदवत्तत्स्यान्नादेशो येन नेक्षितः ॥६४॥
निरीक्ष्य कपिलेशानं स्नात्वा मत्स्योदरीजले ॥
कृत्वा पिंडप्रदानानि पितॄणामनृणो भवेत् ॥६५॥
कृत्वापि मोहात्पापानि भूरीण्येव महांत्यपि ॥
काश्यामोंकारमालोक्य कुतस्त्रस्यति वै यमात् ॥६६॥
ओंकारयात्राभिमुखं नरं वीक्ष्य पितामहाः ॥
परिनृत्यंति मुदिताः स्वसंतानसमुद्भवम् ॥६७॥
यस्य यस्य च वै नाम स्मृत्वा स्मृत्वा नमस्यति ॥
तं तमुन्नयते प्राज्ञः पितरं ब्रह्मणः पदम् ॥६८॥
रुद्राणां नियुतं जप्त्वा यत्फलं सम्यगाप्यते ॥
तत्फलं लभते नूनं भक्त्योंकार विलोकनात् ॥६९॥
केवलं भूमिभाराय जन्मिनो जन्म तस्य वै ॥
येनानंदवने दृष्टो नोंकारः सर्वकामदः ॥१७०॥
एकमोंकारमालोक्य समस्ते क्षोणिमंडले ॥लिं
गजातानि सर्वाणि दृष्टानि स्युर्न संशयः ॥७१॥
प्रणवेशं प्रणम्याथ यद्यन्यत्र विपद्यते ॥
स्वर्गलोकमवाप्याथ काश्यां मुक्तिमवाप्नुयात् ॥७२॥
अस्मिँल्लिंगे सदा ब्रह्मन्स्थास्यामीति विनिश्चितम् ॥
दास्यामि च सदा मोक्षमेतल्लिंगार्चकाय वै ॥७३॥
ओंकारं सकृदप्यत्र नरो नत्वा प्रयत्नतः ॥
कृतकृत्यो भवेन्नूनं परमान्मदनुग्रहात ॥७४॥
ओंकारपश्चिमे भागे तारतीर्थमनुत्तमम् ॥
कृतोदकक्रियस्तत्र नरस्तरति दुर्गतिम् ॥७५॥
ओंकारेशस्य ये भक्ता ज्ञेयास्ते नैव मानवाः ॥
मनुष्यचर्मणा नद्धास्ते रुद्रा मोक्षगामिनः ॥७६॥
अस्य लिंगस्य महिमा नान्यैरत्रावगम्यते ॥
त्वत्पुण्योदयतो यस्माद्विधेत्राविरभूदिदम् ॥७७॥
एतल्लिंगप्रभावाच्च सर्वं ज्ञास्यसि तत्त्वतः ॥
विधे विधेहि तस्मात्त्वं सर्वमेतच्चराचरम् ॥७८॥
इति दत्त्वा वरं तस्मै ब्रह्मणे पद्मसंभवे।
तस्मिन्नेव महालिंगे शंभुर्लीनो बभूव ह ॥७९॥
॥ स्कंद उवाच ॥
ब्रह्मापि भजतेद्यापि तल्लिंगं कलशोद्भव ॥
स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि ॥१८०॥
ब्रह्मस्तवं जपन्मर्त्यः सर्वैः पापैः प्रमुच्यते ॥
पूर्यते च महापुण्यैर्ज्ञानं प्राप्नोति सत्तमम् ॥८१॥
ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम् ॥
अंतकाले भवेज्ज्ञानं येन बंधात्प्रमुच्यते ॥१८२॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संह्तिायां चतुर्थे काशीखंड उत्तरार्ध ओंकारमहिमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP