संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ४०

काशीखण्डः - अध्याय ४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
अविमुक्तेश माहात्म्यं वर्णितं तेग्रतो मया ॥
अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः ॥१॥
॥ अगस्त्य उवाच ॥
अविमुक्तेश माहात्म्यं श्रावं श्रावं श्रुती मम ॥
अतीव सुश्रुते जाते तथापि न धिनोम्यहम् ॥२॥
अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम् ॥
एतयोस्तु कथं प्राप्तिर्भवेत्षण्मुख तद्वद ॥३॥
॥ स्कंद उवाच ॥
शृणु कुं भज वक्ष्यामि यथा प्राप्तिर्भवेदिह ॥
स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते ॥४॥
समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः ॥
तच्च पुण्यं भवेद्विप्र श्रुतिवर्त्मसभाजनात् ॥५॥
श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने ॥
कलिकालावपि सदा छिद्रं प्राप्य जिघांसतः ॥६॥
वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै ॥
कलिकालावपि हतो ब्राह्मणं रंध्रदर्शनात् ॥७॥
निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः ॥
तद्दूरतः परित्यज्य नरो न निरयी भवेत् ॥८॥
पलांडुं विड्वराहं च शेलुं लशुन गृंजने ॥
गोपीयूषं तंडुलीयं वर्ज्यं च कवकं सदा ॥९॥
व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः ॥
अदेवपित्र्यं पललमवत्सागोपयस्त्यजेत् ॥१०॥
पय ऐकशफं हेयं तथा क्रामेलकाविकम् ॥
रात्रौ न दधि भोक्तव्यं दिवा न नवनीतकम् ॥११॥
टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम् ॥
त्यजेन्मांसाशिनः सर्वान्सारसं कुक्कुटं शुकम् ॥१२॥
जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान् ॥
मत्स्याशी सर्वमांसाशी तन्मत्स्यान्सर्वथा त्यजेत्॥ १३॥
हव्यकव्यनियुक्तौ तु भक्ष्यौ पाठीनरोहितौ॥
मांसाशिभिस्त्वमी भक्ष्याः शश शल्लक कच्छपाः ॥१४॥
श्वाविद्गोधे प्रशस्ते च ज्ञाताश्च मृगपक्षिणः ॥
आयुष्कामैः स्वर्गकामैस्त्याज्यं मांसं प्रयत्नतः ॥१५॥
यज्ञार्थं पशुहिंसा या सा स्वर्ग्या नेतरा क्वचित् ॥
त्यजेत्पर्युषितं सर्वमखंडस्नेह वर्जितम्॥ १६॥
प्राणात्यये क्रतौ श्राद्धे भैषजे विप्रकाम्यया॥
अलौल्यमित्थं पललं भक्षयन्नैव दोषभाक् ॥१७॥
न तादृशं भवेत्पापं मृगयावृत्तिकांक्षिणः ॥
यादृशं भवति प्रेत्य लौल्यान्मांसोपसेविनः ॥१८॥
मखार्थं ब्रह्मणा सृष्टाः पशु द्रुम मृगौषधीः ॥
निघ्नन्नहिंसको विप्रस्तासामपि शुभा गतिः ॥१९॥
पितृदेवक्रतुकृते मधुपर्कार्थमेव च ॥
तत्र हिंसाप्यहिंसा स्याद्धिंसान्यत्र सुदुस्तरा ॥२०॥
यो जंतूनात्मपुष्ट्यर्थं हिनस्ति ज्ञानदुर्बलः ॥
दुराचारस्य तस्येह नामुत्रापि सुखं क्वचित् ॥२१॥
भोक्तानुमंता संस्कर्ता क्रयिविक्रयि हिंसकाः ॥
उपहर्ता घातयिता हिंसकाश्चाष्टधा स्मृताः ॥२२॥
प्रत्यब्दमश्वमेधेन शतं वर्षाणि यो यजेत् ॥
अमांसभक्षको यश्च तयोरंत्यो विशिष्यते ॥२३॥
यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ॥
सुखदुःखानि तुल्यानि यथात्मनि तथा परे ॥२४॥
सुखं वा यदि वा चान्यद्यत्किंचित्क्रियते परे॥
तत्कृतं हि पुनः पश्चात्सर्वमात्मनि संभवेत् ॥२५॥
न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रियाः ॥
क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम् ॥२६॥
सुखं हि सर्वैराकांक्ष्यं तच्च धर्मसमुद्भवम्॥
तस्माद्धर्मोत्र कर्तव्यश्चातुर्वर्ण्येन यत्नतः ॥२७॥
न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ॥
दानं च विधिना देयं काले पात्रे च भावतः ॥२८॥
विधिहीनं तथाऽपात्रे यो ददाति प्रतिग्रहम् ॥
न केवलं हि तद्याति शेषं तस्य च नश्यति ॥२९॥
व्यसनार्थे कुटुंबार्थे यदृणार्थे च दीयते ॥
तदक्षयं भवेदत्र परत्र च न संशयः ॥३०॥
मातापितृविहीनं यो मौंजीपाणिग्रहादिभिः ॥
संस्कारयेन्निजैरर्थैस्तस्य श्रेयस्त्वनंतकम् ॥३१॥
अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः ॥
यच्छ्रेयः प्राप्यते मर्त्यैर्द्विजे चैके प्रतिष्ठिते ॥३२॥
यो ह्यनाथस्य विप्रस्य पाणिं ग्राहयते कृती ॥
इह सौख्यमवाप्नोति सोक्षयं स्वर्गमाप्नुयात् ॥३३॥
पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ॥
भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका ॥३४॥
यस्तां परिणयेन्मोहात्स भवेद्वृषलीपतिः ॥
तेन संभाषणं त्याज्यमपाङ्क्तेयेन सर्वदा ॥३५॥
विज्ञाय दोषमुभयोः कन्यायाश्च वरस्य च ॥
संबंधं रचयेत्पश्चादन्यथा दोषभाक्पिता ॥३६॥
स्त्रियः पवित्राः सततं नैता दुष्यंति केनचित् ॥
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ॥३७॥
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगंधर्व वह्निभिः ॥
भुंजते मानुषाः पश्चान्नैतादुष्यं ति केनचित् ॥३८॥
स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ॥
कल्याणवाणीं गंधर्वास्तेन मेध्याः सदा स्त्रियः ॥३९॥
कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ॥
स्तनोद्भेदेषु गंधर्वास्तत्प्रागेव प्रदीयते ॥४०॥
दृश्यरोमात्वपत्यघ्नी कुलघ्न्युद्गतयौवना ॥
पितृघ्न्याविष्कतरजास्ततस्ताः परिवर्जयेत् ॥४१॥
कन्यादानफलप्रेप्सुस्तस्माद्द द्यादनग्निकाम् ॥
अन्यथा न फलं दातुः प्रतिग्राही पतेदधः ॥४२॥
कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं लभेत्॥
देवभुक्तां ददद्दाता न स्वर्गमधिगच्छति ॥४३॥
शयनासनयानानि कुणपं स्त्रीमुखं कुशाः॥
यज्ञपात्राणि सर्वाणि न दुष्यंति बुधाः क्वचित् ॥४४॥
वत्सः प्रस्रवणे मध्ये शकुनिः फलपातने ॥
नार्यो रतिप्रयोगेषु श्वा मृग ग्रहणे शुचिः ॥४१।
अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ॥
पादतो ब्राह्मणा मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥४५॥
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥
न त्याज्या दयिता नारी नास्यास्त्यागो विधीयते ॥४७॥
आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना ॥
संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ॥४८॥
मनसापि हि या नेह चिंतयेत्पुरुषांतरम् ॥
सोमया सह सौख्यानि भुंक्ते चात्रापि कीर्तिभाक् ॥४९॥
पिता पितामहो भ्राता सकुल्यो जननी तथा ॥
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परःपरः ॥५०॥
अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ ॥
स्वयं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्॥ ५१॥
हृताधिकारां मलिनां पिंडमात्रोपजीविनीम्॥
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥५२॥
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ॥
गर्भभर्तृवधादौ तु महत्यपि च कल्मषे ॥५३॥
शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते ॥
ते च स्वा चैव राज्ञस्तु ताश्च स्वाचाग्रजन्मनः ॥५४॥
आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम्॥
उत्पाद्य पुत्रं शूद्रायां ब्राह्मण्यादेव हीयते॥ ५५॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ॥
देवाद्यास्तन्न चाश्नंति स च स्वर्गं न गच्छति ॥५६॥
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ॥
कृत्याभिर्निहतानीव नश्येयुस्तान्यसंशयम् ॥५७॥
तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ॥
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ॥५८॥
यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः ॥
रमंते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः ॥५९॥
यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ॥
तत्र वेश्मनि कल्याणं संपद्येत पदे पदे ॥६०॥
अहुतं च हुतं चैव प्रहुतं प्राशितं तथा ॥
ब्राह्मं हुतं पंचमं च पंचयज्ञा इमे शुभाः ॥६१॥
जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः ॥
प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम् ॥६२॥
पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति ॥
एतेषामननुष्ठानात्पंचसूना अवाप्नुयात् ॥६३॥
ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम्॥
वैश्यं सुखं समागम्य शूद्रं संतोषमेव च ॥६४॥
जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः ॥
भक्ष्याभक्ष्येषु नो दु्ष्येद्यावन्नैवोपनीयते ॥६५॥
भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् ॥
प्रत्यवायो ह्यभरणे भर्तव्यस्तत्प्रयत्नतः ॥६६॥
मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः ॥
अभ्यागतोतिथिश्चाग्निः पोष्यवर्गा अमी नव ॥६७॥
स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते ॥
जीवन्मृतोथ विज्ञेयः पुरुषः स्वोदरंभरिः ॥६८॥
दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया ॥
अदत्तदाना जायंते परभाग्योपजीविनः ॥६९॥
विभागशीलसंयुक्तो दयावांश्च क्षमायुतः ॥
देवतातिथिभक्तस्तु गृहस्थो धार्मिकः स्मृतः ॥७०॥
शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः ॥
तत्र स्वपंस्तदश्नंश्च ब्राह्मणो नावसीदति ॥७१॥
नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा ॥
सुधा व्ययानि यत्सौम्यं वाक्यं चक्षुर्मनोमुखम् ॥७२॥
अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम्॥
उपासनमनुव्रज्या गृहस्थोन्नति हेतवे ॥७३॥
तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव ॥
आसनं पादशौचं च यथाशक्त्याशनं क्षितिः ॥७४॥
शय्यातृणजलाभ्यंग दीपा गार्हस्थ्य सिद्धिदाः ॥
तथा नव विकर्माणि त्याज्यानि गृहमेधिनाम् ॥७५॥
पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् ॥
द्वेषो दंभश्च माया च स्वर्गमार्गार्गलानि हि ॥७६॥
नवावश्यककर्माणि कार्याणि प्रतिवासरम् ॥
स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् ॥७७॥
वेश्वदेवं तथातिथ्यं नवमं पितृतर्पणम् ॥
नव गोप्यानि यान्यत्र मुने तानि निशामय ॥७८॥
जन्मर्क्षं मैथुनं मंत्रो गृहच्छिद्रं च वंचनम् ॥
आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा ॥७९॥
नवैतानि प्रकाश्यानि रहः पापमकुत्सितम् ॥
प्रायोग्यमृणशुद्धिश्च सान्वयः क्रयविक्रयौ ॥
कन्यादानं गुणोत्कर्षो नान्यत्केनापि कुत्रचित् ॥८०॥
पात्र मित्र विनीतेषु दीनानाथोपकारिषु ॥
मातापितुगुरूष्वेतन्नवकं दत्तमक्षयम् ॥८१॥
निष्फलं नवसूत्सृष्टं चाटचारणतस्करे ॥
कुवैद्ये कितवे धूर्ते शठे मल्ले च बंदिनि ॥८२॥
आपस्त्वपि न देयानि नववस्तूनि सर्वथा ॥
अन्वये सति सर्वस्वं दारांश्च शरणागतान् ॥८३॥
न्यासाधीकुलवृत्तिं च निक्षेपं स्त्रीधनं सुतम्॥
यो ददाति स मूढात्मा प्रायश्चित्तैर्विशुध्यति ॥८४॥
एतन्नवानां नवकं ज्ञात्वा प्रियमवाप्नुयात् ॥
अन्यच्च नवकं वच्मि सर्वेषां स्वर्गमार्गदम् ॥८५॥
सत्यं शौचमहिंसा च क्षांतिर्दानं दया दमः ॥
अस्तेयमिंद्रियाकोचः सर्वेषां धर्मसाधनम् ॥८६॥
अभ्यस्य नवतिं चैतां स्वर्गमार्गप्रदीपिकाम्॥
सतामभिमतां पुण्यां गृहस्थो नावसीदति ॥८७॥
जिह्वा भार्या सुतो भ्राता मित्र दास समाश्रिताः ॥
यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम्॥ ८८॥
पानं दुर्जन संसर्गः पत्या च विरहोटनम् ॥
स्वप्नोन्यगृहवासश्च नारीणां दूषणानि षट् ॥८९॥
समर्घं धान्यमुद्धत्य महर्घं यः प्रयच्छति॥
स हि वार्धुषिको नाम तस्यान्नं नैव भक्षयेत् ॥९०॥
अग्रे माहिषिकं दृष्ट्वा मध्ये च वृषलीपतिम्॥
अंते वार्धुषिकं चैव निराशाः पितरो गताः ॥९१॥
महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी ॥
तां दुष्टां कामयेद्यस्तु स वै माहिषिकः स्मृतः ॥९२॥
स्व वृषं या परित्यज्य परवृषे वृषायते॥
वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥९३॥
यावदुष्णं भवत्यन्नं यावन्मौनेन भुज्यते ॥
तावदश्नंति पितरो यावन्नोक्ता हविर्गुणाः ॥९४॥
विद्याविनयसंपन्ने श्रोत्रिये गृहमागते ॥
क्रीडंत्यौषधयः सर्वा यास्यामः परमां गतिम् ॥९५॥
भ्रष्टशौचवताचारे विप्रे वेदविवर्जिते ॥
रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम् ॥९६॥
यस्य कोष्ठगतं चान्नं वेदाभ्यासेन जीर्यति ॥
स तारयति दातारं दशपूर्वान्दशापरान् ॥९७॥
न स्त्रीणां वपनं कार्यं न च गाः समनुव्रजेत् ॥
न च रात्रौ वसेद्गोष्ठे न कुर्याद्वैदिकीं श्रुतिम् ॥९८॥
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥
एवमेव तु नारीणां शिरसो मुंडनं भवेत् ॥९९॥
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥
अकारयित्वा वपनं प्रायश्चित्तं विनिर्दिशेत् ॥१००॥
केशानां रक्षणार्थाय द्विगुणं व्रतमादिशेत् ॥
द्विगुणा दक्षिणा देया ब्राह्मणे वेदपारगे ॥१॥
योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ॥
अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः ॥२॥
दाराग्निहोत्र दीक्षां च कुरुते योऽग्रजे स्थिते ॥
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥३॥
परिवित्तिः परिवेत्ता यया च परिविद्यते ॥
सर्वे ते नरकं यांति दातृयाजकपंचमाः ॥४॥
क्लीबे देशांतरस्थे च मूके प्रत्रजिते जडे ॥
कुब्जे खर्वे च पतिते न दोषः परिवेदने ॥५॥
वेदाक्षरणि यावंति नियुंज्यादर्थकारणे ॥
तावतीर्वै भ्रूणहत्या वेदविक्रयकृल्लभेत् ॥६॥
यस्तु प्रव्रजितो भूत्वा सेवते मैथुनं पुनः ॥
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ॥७॥
शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥
शूद्राद्विद्यागमः कश्चिज्ज्वलंतमपि पातयेत् ॥८॥
शूद्रादाहृत्य निर्वापं ये पचंत्यबुधा द्विजाः ॥
ते यांति नरकं घोरं ब्रह्मतेजोविवर्जिताः ॥९॥
माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ॥
हस्तदत्तानि भुक्तानि दिनमेकमभोजनम् ॥११०॥
हस्तदत्ताश्च ये स्नेहा लवणं व्यजनानि च ॥
दातारं नोपतिष्ठंते भोक्ता भुंक्ते तु किल्बिषम् ॥११॥
आयसेनैव पात्रेण यदन्नमुपदीयते ॥
भोक्ता तद्विट्समं भुंक्ते दाता च नरकं व्रजेत् ॥१२॥
अंगुल्या दंतकाष्ठं च प्रत्यक्षलवणं च यत् ॥
मृत्तिकाभक्षणं यच्च समं गोमांसभक्षणैः ॥१३॥
पानीयं पायसं भैक्षं घृतं लवणमेव च ॥
हस्तदत्तं न गृह्णीयात्तुल्यगोमांसभक्षणैः ॥१४॥
अग्रतो निवसेन्मूर्खो दूरतश्च गुणान्वितः ॥
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥१५॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ॥
ज्वलंतमग्निमुत्सृज्य नहि भस्मनि हूयते ॥१६॥
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ॥
भोजने चैव दाने च दहेदासप्तमं कुलम् ॥१७॥
गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ॥
प्रेष्यान्वार्धुषिकांश्चैव विप्राञ्शूद्रवदाचरेत् ॥१८॥
देवद्रव्यविभागेन ब्रह्मस्व हरणेन च ॥
कुलान्याशु विनश्यंति ब्राह्मणातिक्रमेण च ॥१९॥
मा देहीति च यो ब्रूयाद्गवाग्निब्राह्मणेषु च ॥
तिर्यग्योनिशतं गत्वा चांडालेष्वभिजायते ॥१२०॥
वाचा यच्च प्रतिज्ञातं कर्मणानोपपादितम् ॥
ऋणं तद्धर्मसंयुक्तमिहलोके परत्र च ॥२१॥
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ॥
यज्ञशेषोऽमृतंभुक्तशेषं तु विघसं विदुः ॥२२॥
सव्यादंसात्परिभ्रष्टे नाभिदेशे व्यवस्थिते ॥
वस्त्रे स एकवासास्तं देवे पित्र्ये च वर्जयेत् ॥२३॥
यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ॥
तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ॥२४॥
हस्तौ प्रक्षाल्य गंडूषं यः पिबेद्भोजनोत्तरम्॥
दैवं पित्र्यं तथात्मानं त्रयं स उपघातयेत् ॥१५॥
गणान्नं गणिकान्नं च यदन्नं ग्रामयाजके ॥
स्त्रीणां प्रथमगर्भेषु भुक्त्वा चांद्रायणं चरेत ॥२६॥
पक्षे वा यदि वा मासे यस्य गेहेत्ति न द्विजः ॥
भुक्त्वा दुरात्मनस्तस्य चरेच्चांद्रायणव्रतम् ॥२७॥
सत्रिणां दीक्षितानां च यतीनां ब्रह्मचारिणाम् ॥
एतेषां सूतकं नास्ति ऋत्विजां कर्मकुर्वताम् ॥२८॥
अजीर्णेऽभ्युदिते वाते श्मश्रुकर्मणि मैथुने ॥
दुःस्वप्ने दुर्जनस्पर्शे स्नानमेव विधीयते ॥२९॥
चैत्यवृक्षं चितिं यूपं शिवनिर्माल्यभोजिनम् ॥
वेदविक्रयिणं स्पृष्ट्वा सचैलो जलमाविशेत् ॥१३०॥
अग्न्यगारे गवां गोष्ठे देव ब्राह्मणसन्निधौ ॥
स्वाध्याये भोजने पाने पादुके वै विसर्जयेत् ॥३१॥
खलक्षेत्रगतं धान्यं कूपवापीषु यज्जलम् ॥
अग्राह्यादपि तद्ग्राह्यं यच्च गोष्ठगतं पयः ॥३२॥
यद्वेष्टितशिरा भुंक्ते यो भुंक्ते दक्षिणामुखः ॥
सोपानत्कश्च यद्भुंक्ते तद्वै रक्षांसि भुंजते ॥३३॥
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ॥
हरंति रसमन्नस्य मंडलेन विवर्जितम् ॥३४॥
ब्रह्माद्याश्च सुराः सर्वे वसिष्ठाद्या महर्षयः ॥
मंडलं चोपजीवंति ततः कुर्वीत मंडलम् ॥३५॥
ब्राह्मणे चतुरस्रं स्यात्त्र्यस्रं वै बाहुजन्मनः ॥
वर्तुलं च विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् ॥३६॥
नोत्संगे भोजनं कृत्वा नो पाणौ नैव कर्पटे ॥
नासनेन च शय्यायां भुंजीत न मलार्दितः ॥३७॥
धर्मशास्त्र रथारूढा वेदखड्गधरा द्विजाः ॥
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ॥३८॥
रात्रौ धाना दधियुतं धर्मकामो न भक्षयेत् ॥
अश्नतो धर्महानिः स्याद्व्याधिभिश्चोपपीड्यते ॥३९॥
फाणितं गोरसं तोयं लवणं मधुकांजिकम् ॥
हस्तेन ब्राह्मणो दत्त्वा कृच्छ्रं चांद्रायणं चरेत् ॥१४०॥
गंधाभरणमाल्यानि यः प्रयच्छति धर्मवित् ॥
ससुगंधिः सदा हृष्टो यत्रयत्रोपजायते ॥४१॥
नीलीरक्तं तु यद्वस्त्रं दूरतः परिवर्जयेत् ॥
स्त्रीणां क्रीडार्थसंयोगे शयनीयेन दुष्यति ॥४२॥
पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् ॥
अपवित्रो भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ॥४३॥
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा तस्य महायज्ञा नीली वासो बिभर्ति यः ॥४४॥
नीलीरक्तं यदावस्त्रं विप्रः स्वांगेषु धारयेत् ॥
तं तु संततिसंख्याके नरके स वसेद्ध्रुवम् ॥४५॥
अहोरात्रोषितो भूत्वा पंचगव्येन शुध्यति ॥४६॥
नीलीरक्तेन वस्त्रेण यदन्नमुपकल्पयेत् ॥
भोक्ता विष्ठासमं भुंक्ते दाता च नरकं व्रजेत् ॥४७॥
अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ॥
वैश्यस्य चान्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ॥४८॥
वैश्वदेवेन होमेन देवताभ्यर्चनैर्जपैः ॥
अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ॥४९॥
व्यवहारानुरूपेण न्यायेन तु यदर्जनम् ॥
क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् ॥१५०
प्रहरानद्धवाहाद्यदन्नमुत्पाद्य यच्छति ॥
सीतायज्ञविधानेन वैश्यान्नं तेन संस्कृतम् ॥५१॥
अज्ञानतिमिरांधस्य मद्यपानरतस्य च ॥
रुधिरं तेन शूद्रान्नं वेदमंत्रविवर्जितम् ॥५२॥
न वृथा शपथं कुर्यात्स्वल्पेप्यर्थे नरोत्तमः ॥
वृथा हि शपथं कुर्वन्प्रेत्य चेह विनश्यति ॥५३॥
कामिनीषु विवाहे च गवां भुक्ते धनक्षये ॥
ब्राह्मणाभ्युपपत्तौ च शपथैर्नास्ति पातकम् ॥५४॥
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ॥
गोबीजकांचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥५५॥
अग्निं वा हारयेदेनमप्सु चैनं निमज्जयेत् ॥
स्पर्शयेत्पुत्रदाराणां शिरांस्येनं च वा पृथक् ॥५६॥
न यमं यममित्याहुरात्मा वै यम उच्यत ॥
आत्मा संयमितो येन तं यमः किं करिष्यति ॥५७॥
न निस्त्रिंशस्तथा तीक्ष्णः फणी वा दुरतिक्रमः ॥
रिपुर्वा नित्यसंकुद्धो यथात्मा दुरधिष्ठितः ॥५८॥
एकः क्षमावतां दोषो न द्वितीयः कथंचन ॥
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥५९॥
न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्या वसथप्रियस्य ॥
न भोजनाच्छादन तत्परस्य न लोकवित्त ग्रहणे रतस्य ॥१६०॥
एकांतशीलस्य सदैव तस्य सर्वेंद्रियप्रीति निवर्तकस्य ॥
स्वाध्याययोगे गतमानसस्य मोक्षो धुवं नित्यमहिंसकस्य ॥६१॥
क्वैकांतशीलत्वमिहास्ति पुंसः क्व चेंद्रियप्रीतिनिवृत्तिरस्ति ॥
क्व योगयुक्तिः क्व च दैवतेज्या काश्यां विनैभिः सहजेन मुक्तिः ॥६२॥
विश्वेश संशीलनमेवयोगस्तपश्च विश्वेशपुरीनिवासः ॥
व्रतानि दानं नियमा यमाश्च स्नानं द्युनद्यां यदुदग्वहायाम् ॥६३॥
॥ स्कंद उवाच ॥
न्यायागतधनस्तत्त्वज्ञाननिष्ठोतिथिप्रियः ॥
श्राद्धकृत्सत्यवादी च गृहस्थोपीह मुच्यते ॥६४॥
दीनांधकृपणार्थिभ्यो दत्त्वान्नानि विशेषतः ॥
कृत्वा गार्ह्याणि कर्माणि गृहस्थः श्रेय आप्नुयात् ॥६५॥
इत्थमाचरतां पुंसां काशीनाथः प्रसीदति ॥
काशीनाथप्रसादेन काशीप्राप्तिस्तु मोक्षकृत् ॥६६॥
स सर्वतीर्थसुस्नातः स सर्वक्रतुदीक्षितः ॥
स दत्तसर्वदानस्तु काशी येन निषेविता ॥१६७॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे गृहस्थधर्माख्यानंनाम चत्वारिंशोध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP