काशीखण्डः - अध्याय ६५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
ज्येष्ठेश्वरस्य परितो यानि लिंगानि कुंभज॥
तानि पंचसहस्राणि मुनीनां सिद्धिदान्यलम् ॥१॥
पराशरेश्वरं लिंगं ज्येष्ठेशादुत्तरे महत्॥
तस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्यते ॥२॥
तत्रैव सिद्धिदं लिंगं मांडव्येश्वरसंज्ञितम् ॥
न तस्य दर्शनाज्जातु दुर्बुद्धिं प्राप्नुयान्नरः ॥३॥
लिंगं च शंकरेशाख्यं तत्रैव शुभदं सदा ॥
भृगुनारायणस्तत्र भक्तानां सर्वसिद्धिदः ॥४॥
जाबालीश्वर संज्ञं च लिंगं तत्रातिसिद्धिदम् ॥
तस्य संदर्शनाज्जातु न जंतुर्दुर्गतिं व्रजेत् ॥५॥
सुमंतु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः ॥
तस्य संदर्शनादेव कुष्ठव्याधिः प्रशाम्यति ॥६॥
भैरेवी भीषणा नाम तत्र भीषणरूपिणी ॥
क्षेत्रस्य भीषणं सर्वं नाशयेद्भावतोर्चिता ॥७॥
तत्रोपजंघने लिंगं कर्मबंधविमोक्षणम् ॥
नृभिः संसेवितं भक्त्या षण्मासात्सिद्धिदं परम् ॥८॥
भारद्वाजेश्वरं लिंगं लिंगं माद्रीश्वरं वरम् ॥
एकत्र संस्थिते द्वे तु द्रष्टव्ये सुकृतात्मना ॥९॥
अरुणि स्थापितं लिंगं तत्रैव कलशोद्भव ॥
तस्य लिंगस्य सेवातः सर्वामृद्धिमवाप्नुयात्॥१०॥
लिंगं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम् ॥
तस्य संदर्शनात्पुंसां वाजपेयफलं भवेत्॥११॥
कण्वेश्वरं शुभं लिंगं लिंगं कात्यायनेश्वरम् ॥
वामदेवेश्वरं लिंगमौतथ्येश्वरमेव च ॥१२॥
हारीतेश्वरसंज्ञं च लिंगं वै गालवेश्वरम् ॥
कुंभेर्लिंगं महापुण्यं तथा वै कौसुमेश्वरम् ॥१३॥
अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च ॥
वत्सेश्वरं महालिंगं पर्णादेश्वरमेव च ॥१४॥
सक्तुप्रस्थेश्वरं लिंगं कणादेशं तथैव च ॥
अन्यत्तत्र महालिंगं मांडूकाय निरूपितम् ॥१५॥
वाभ्रवेयेश्वरं लिंगं शिलावृत्तीश्वरं तथा ॥
च्यवनेश्वर लिंगं च शालंकायनकेश्वरम् ॥१६॥
कलिंदमेश्वरं लिंगं लिंगमक्रोधनेश्वरम् ॥
लिंगं कपोतवृत्तीशं कंकेशं कुंतलेश्वरम ॥१७॥
कंठेश्वरं कहोलेशं लिंगं तुंबुरुपूजितम् ॥
मतगेशं मरुत्तेशं मगधेयेश्वरं तथा ॥१८॥
जातूकर्णेश्वरं लिंगं जंबूकेश्वरमेव च ॥
जारुधीशं जलेशं च जाल्मेशं जालकेश्वरम् ॥१९॥
एवमादीनि लिंगानि अयुतार्धानि कुंभज ॥
स्मरणाद्दर्शनात्स्पर्शादर्चनान्नमनात्स्तुतेः ॥२०॥
न जातु जायते जंतोः कलुषस्य समुद्भवः ॥
एतेषां शुभलिंगानां ज्येष्ठस्थानेति पावने ॥२१॥
॥ स्कंद उवाच ॥
एकदा तत्र यद्वृत्तं ज्येष्ठस्थाने महामुने ॥
तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम् ॥२२॥
स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः ॥
कौतुकेनैव चिक्रीड शिवा कंदुकलीलया ॥२३॥
उदंच न्न्यंचदंगानां लाघवं परितन्वती ॥
निःश्वासामोदमुदित भ्रमराकुलितेक्षणा ॥२४॥
भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका ॥
स्विद्यत्कपोलपत्राली स्रवदंबुकणोज्ज्वला ॥२५॥
स्फुटच्चोलांशुकपथनिर्यदंगप्रभावृता ॥
उल्लसत्कंदुकास्फालातिशोणितकरांबुजा ॥२६॥
कंदुकानुग सदृष्टि नर्तित भ्रूचलतांचला ॥
मृडानी किल खेलंती ददृशे जगदंबिका ॥२७॥
अंतरिक्षचराभ्यां च दितिजाभ्यां मनोहरा ॥
कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना ॥२८॥
विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥२९॥
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥
दिवोवतेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ॥३०॥
धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम् ॥
तावत्यंतं सुदुर्वृत्तावतिचंचलमानसा ॥३१॥
सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात् ॥
कटाक्षिताथ देवेन दुर्गादुर्गारिघातिनी ॥३२॥।
विज्ञाय नेत्रसंज्ञां तु सर्वज्ञार्ध शरीरिणी ॥
तेनैव कंदुकेनाथ युगपन्निजघान तौ ॥३३॥
महाबलौ महादेव्या कंदुकेन समाहतौ॥
परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥३४॥
वृंतादिव फले पक्वे तालादनिललोलिते ॥
दंभोलिना परिहते शृंगेइव महागिरेः ॥३५॥
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥
ततः परिणतिं यातो लिंगरूपेण कंदुकः ॥३६॥
कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा ॥
ज्येष्ठेश्वर समीपे तु सर्वदुष्टनिवारणम् ॥३७॥
कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः ॥
पूजयिष्यति यो भक्तस्तस्य दुःखभयं कुतः ॥३८॥
कंदुकेश्वर भक्तानां मानवानां निरेनसाम् ॥
योगक्षेमं सदा कुर्याद्भवानी भयनाशिनी ॥३९॥
मृडानी तस्य लिंगस्य पूजां कुर्यात्सदैव हि ॥
तत्रैव देव्या सान्निध्यं पार्वत्या भक्तसिद्धिदम् ॥४०॥
कंदुकेशं महालिंगं काश्यां यैर्न समर्चितम् ॥
कथं तेषां भवनीशौ स्यातां सर्वेप्सितप्रदौ ॥४१॥
द्रष्टव्यं च प्रयत्नेन तल्लिंगं कंदुकेश्वरम् ॥
सर्वोपसर्गसंघातविघातकरणं परम् ॥४२॥
कंदुकेश्वर नामापि श्रुत्वा वृजिनसंततिः ॥
क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा ॥४३॥
॥ स्कंद उवाच ॥
संशृणुष्व महाभाग ज्येष्ठेश्वर समीपतः ॥
यद्वृत्तांतमभूद्विप्र परमाश्चर्यकृद्ध्रुवम् ॥४४॥
दंडखाते महातीर्थे देवर्षिपितृतृप्तिदे ॥
तप्यमानेषु विप्रेषु निष्कामं परमं तपः ॥४५॥
दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥
देवाः कथं सुजेयाः स्युरित्युपायमचिंतयत् ॥४६॥
किं बलाश्च किमाहाराः किमाधारा हि देवताः ॥
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ॥४७॥
अवश्यमग्रजन्मानो हेतवोत्र विचारतः ॥
ब्राह्मणान्हंतुमसकृत्कृतवानुद्यमं ततः ॥४८॥
यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ॥
ते वेदा ब्राह्मणाधीनास्ततो देवबलं द्विजाः ॥४९॥
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ॥
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥५०॥
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् ॥
आम्नायेषु प्रणष्टेषु विनष्टाः शततंतवः ॥५१॥
यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः ॥
निर्बलाः सुखजेयाः स्युर्जितेषु त्रिदशेष्वथ ॥५२॥
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥
आहरिष्यामि देवानामक्षयाः सर्वसंपदः ॥५३॥
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ॥
इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्मुने ॥५४॥
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः ॥
श्रुत्यध्ययन संपन्नास्तपोबल समन्विताः ॥५५॥
भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत् ॥
तानादावुपसंहृत्य यामि तीर्थांतरं ततः ॥५६॥
यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च ॥
संति सर्वेऽग्रजन्मानस्ते मयाद्याः समंततः ॥५७॥
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ॥५८॥
समित्कुशान्समादातुं यत्र यांति द्धिजोत्तमाः ॥
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥९॥
यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः ॥
वने वनेचरो भूत्वा यादोरूपी जलाशये ॥६०॥
अदृश्यरूपी मायावी देवानामप्यगोचरः ॥
दिवाध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥६१॥
प्रवेशमुटजानां च निर्गमं च विलोकयन् ॥
यामिन्यां व्याघ्ररूपेण ब्राह्मणान्भक्षयेद्बहून् ॥६२॥
निःशब्दमेव नयति नत्यजेदपि कीकसम् ॥
इत्थं निपातिता विप्रास्तेन दुष्टेन भूरिशः ॥६३॥
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोभवत् ॥६४॥
स च दुंदुभिनिर्ह्राद दैत्येंद्रो बलदर्पितः ॥
व्याघ्र रूपं समास्थाय तमादातुं मतिं दधे ॥६५॥
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे॥
कृतास्त्रमंत्रविन्यासं तं क्रांतुमशकन्न सः ॥६६॥
अथ सर्वगतः शंभुर्ज्ञात्वा तस्याशयं हरः ॥
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥६७॥
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥
जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षण दक्षधीः ॥६८॥
रुद्रमायांतमालोक्य तद्भक्तार्चित लिंगतः ॥
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥६९॥
सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः ॥
तावदायांतमादाय कक्षायंत्रे न्यपीडयत् ॥७०॥
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत् ॥
स च तेनैव रूपेण कक्षानिष्पेषणेन च ॥७१॥
अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन् ॥
तेन नादेन सहसा सं प्रवेपितमानसाः ॥७२॥
तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ॥
तत्रेश्वरं समालोक्य कक्षीकृत मृगेश्वरम् ॥७३॥
तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः ॥
परित्राता जगत्त्रातः प्रत्यूहाद्दारुणादितः ॥७४॥
अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो ॥
अनेनैव हि रूपेण व्याघ्रेश इति नामतः ॥७५॥
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥
अन्येभ्योप्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ॥७६॥
इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः ॥
तथेत्युक्त्वा पुनः प्राह शृणुध्वं द्विजपुंगवाः ॥७७॥
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥
तस्योपसर्गसंघातं घातयिष्याम्यसंशयम् ॥७८॥
एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः ॥
चौरव्याघ्रादिसंभूत भयं तस्य कुतो भवेत् ॥७९॥
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ॥
संग्रामे प्रविशन्मर्त्यो जयमाप्नोति नान्यथा ॥८०॥
इत्युक्त्वा देवदेवशस्तस्मिँल्लिंगे लयं ययौ ॥
सविस्मयास्ततो विप्राः प्रातर्याता यथागतम् ॥८१॥
॥ स्कन्द उवाच ॥
तदा प्रभृति कुंभोत्थ लिंगं व्याघ्रेश्वराभिधम् ॥
ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम् ॥८२॥
व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किंकराः ॥
यामा अपि महाक्रूरा जयजीवेति वादिनः॥ ८३॥
पराशरेश्वरादीनां लिंगानामिह संभवम् ॥
श्रुत्वा नरो न लिप्येत महापातककर्दमैः॥ ८४॥
कंदुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा॥
समाकर्ण्य नरो जातु नोपसर्गैः प्रदूयते ॥८५॥
उटजेश्वर लिंगं तु व्याघ्रेशात्पश्चिमे स्थितम् ॥
भक्तरक्षार्थमुद्भूतं स्यात्समभ्यर्च्य निर्भयः ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे पराशरेश्वरादिलिंगसंभवोनाम पंचषष्टितमोऽध्यायः ॥६५॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP