संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ३० काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ३० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३० Translation - भाषांतर ॥ स्कंद उवाच ॥शृण्वगस्त्यमहाभाग स च राजा भगीरथः ॥आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान् ॥१॥ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः ॥महता तपसा भूमिमानिनाय त्रिवर्त्मगाम् ॥२॥त्रयाणामपि लोकानां हिताय महते नृपः ॥समानैषीत्ततो गंगां यत्रासीन्मणिकर्णिका ॥३॥आनंदकाननं शंभोश्चक्रपुष्करिणी हरेः ॥परब्रह्मैकसुक्षेत्रं लीलामोक्षसमर्पकम् ॥४॥प्रापयामास तां गंगां दैलीपिः पुरतश्चरन् ॥निर्वाणकाशनाद्यत्र काशीति प्रथिता पुरी ॥५॥अविमुक्तं महाक्षेत्रं न मुक्तं शंभुना क्वचित ॥प्रागेव हि मुनेऽनर्घ्यं जात्यं जांबूनदं स्वयम् ॥६॥पुनर्वारितरेणापि हीरेणयदि संगतम् ॥चक्रपुष्करणीतीर्थं प्रागेव श्रेयसांपदम् ॥७॥ततः श्रेष्ठतरं शंभोर्मणिश्रवणभूषणात् ॥आनंदकानने तस्मिन्नविमुक्ते शिवालये॥ ८॥प्रागेव मुक्तिः संसिद्धा गंगासंगात्ततोधिका ॥यदा प्रभृति सा गंगा मणिकर्ण्यां समागता ॥९॥तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि ॥कृत्वा कर्माण्यनेकानि कल्याणानीतराणि वा ॥१०॥तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत् ॥तस्यां वेदांतवेद्यस्य निदिध्यासनतो विना ॥११॥विना सांख्येन योगेन काश्यां संस्थोऽमृतो भवेत् ॥कर्मनिर्मूलनवता विना ज्ञानेन कुंभज ॥१२॥शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत् ॥यत्नतोऽयत्नतो वापि कालात्त्यक्त्वा कलेवरम् ॥१३॥तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत् ॥अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः ॥१४॥असिसंभेद योगेन काशीसंस्थोऽमृतो भवेत् ॥देहत्यागोऽत्र वै दानं देहत्यागोत्र वै तपः ॥१५८॥देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत् ॥प्राप्योत्तरवहां काश्यामतिदुष्कृतवानपि ॥१६॥यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ॥यमेंद्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् ॥१७॥सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः ॥असिं महासिरूपां च पाप्यसन्मतिखंडनीम् ॥१८॥दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः ॥वरणां च व्यधुस्तत्र क्षेत्रविघ्ननिवारिणीम् ॥१९॥दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः ॥दक्षिणोत्तरदिग्भागे कृत्वाऽसिं वरणां सुराः ॥२०॥क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः ॥क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम् ॥२१॥स्वयं व्यापारयामास रक्षार्थं शशिशेखरः ॥अनुज्ञातप्रवेशानां विश्वेशेन कृपावता ॥२२॥ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन ॥इत्यर्थे कथयिष्येऽहमितिहासं पुरातनम् ॥आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम् ॥२३॥॥ स्कंद उवाच ॥दक्षिणाब्धितटे कश्चित्सेतुबंधसमीपतः ॥वणिग्धनंजयो नाम मातृभक्तिसमन्वितः ॥२४॥पुण्यमार्गार्जित धनो धनतोषितमार्गणः ॥मार्गणस्फारितयशा यशोदातनयार्चकः ॥२५॥समुन्नतोपि संपत्त्या विनयानतकंधरः ॥आकरोपि गुणानां हि गुणिष्वाकारगोपकः ॥२६॥रूपसंपदुदारोपि परदारपराङ्मुखः ॥ससंपूर्णकलोप्यासीन्निष्कलंकोदयः सदा ॥२७॥ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने ॥वर्णेतरोप्यभूल्लोके सुवर्णकृतवर्णनः ॥२८॥सदाचरणगोप्येष सुखयानचरः कृती ॥अदरिद्रोपि मेधावी सोभूत्पापदरिद्रधीः ॥२९॥तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् ॥जननी निधनं प्राप्ता व्याधिताऽतिजरातुरा ॥३०॥तया च यौवनं प्राप्य मेघच्छायातिचंचलम् ॥प्रावृण्नदीपूरसमं स्वपतिः परिवंचितः ॥३१॥दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम्॥भर्तारं वंचयेन्मोहात्साऽक्षयं नरकं व्रजेत् ॥३२॥शीलभंगेन नारीणां भर्ताधर्मपरोपि हि ॥पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया ॥३३॥विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः ॥आभूतसंप्लवं यावत्ततः स्याद्ग्रामसूकरी ॥३४॥स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी॥उलूकी वा दिवांधा स्याद्वृक्षकोटरवासिनी ॥३५॥रक्षणीयं महायत्नादिदं सुकृतभाजनम् ॥वपुः परस्य दुःस्पर्शात्सुखाभासात्मकात्स्त्रिया ॥३६॥अनेनैव शरीरेण भर्तृसाद्विहितेन हि ॥किं सती न च तस्तंभ भानुमुद्यंतमाज्ञया ॥३७॥अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः ॥दधार न त्रयीं गर्भे पतिव्रत परायणा ॥३८॥इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः ॥पातिव्रत्यात्स्त्रिया लभ्यं सखित्वं च श्रिया सह ॥३९॥सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् ॥स्वच्छंदचारिणी भूत्वामृतानिरयमुद्ययौ ॥४०॥धनंजयोपि च मुने केनचिच्छिवयोगिना ॥सार्धं तपोदयादित्थं सोऽभवद्धर्मतत्परः ॥४१॥धनंजयोपि धर्मात्मा मातृभक्तिपरायणः ॥आदायास्थीन्यथो मातुर्गंगा मार्गस्थितोऽभवत् ॥४२॥पंचगव्येन संस्नाप्य ततः पंचामृतेन वै ॥यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च ॥४३॥आवेष्ट्य नेत्रवस्त्रेण ततः पट्टांबरेण वै ॥ततः सुरसवस्त्रेण ततो मांजिष्ठवाससा ॥४४॥नेपालकंबलेनाथ मृदाचाऽथ विशुद्धया ॥ताम्रसंपुटके कृत्वा मातुरंगान्यहो वणिक् ॥४५॥अस्पृष्टहीनजातिः स शुचिष्मान्स्थंडिलेशयः ॥आनयञ्ज्वरितोप्यासीन्मध्ये मार्गं धनंजयः ॥४६॥भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम् ॥किं बहूक्तेन घटज काशी प्राप्ताऽथ तेन वै ॥४७॥धृत्वा संभृतिरक्षार्थं भारवाहं धनंजयः ॥जगामापणमानेतुं किंचिद्वस्त्वशनादिकम् ॥४८॥भारवाह्यंतरं प्राप्य तस्य संभृतिमध्यतः ॥ताम्रसंपुटमादाय धनं ज्ञात्वा गृहं ययौ ॥४९॥वासस्थानमथागत्य तमदृष्ट्वा धनंजयः ॥त्वरावान्संभृतिं वीक्ष्य ताम्रसंपुटवर्जिताम् ॥५०॥हाहेत्याताड्य हृदयं चक्रंद बहुशो भृशम् ॥इतस्ततस्तमालोक्य गतस्तदनुसारतः ॥५१॥अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम् ॥तस्य संवसथं प्राप्तो भारवोढुर्धनंजयः ॥५२॥भारवाडप्यरण्यान्यां ताम्रसंपुटमध्यतः॥दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ। ॥५३॥वणिक्च तद्गृहं प्राप्य शुष्ककंठोष्ठतालुकः ॥दृष्ट्वाऽथ चैलशकलं तृणकुट्यंतरे तदा ॥५४॥आशया किंचिदाश्वस्य तत्पत्नीं परिपृष्टवान् ॥सत्यं ब्रूहि न भेतव्यं दास्याम्यन्यदपि ध्रुवम् ॥५५॥वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय ॥वयं कार्पटिका भद्रे भवामो न च दुःखदाः ॥५६॥अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसंपुटः ॥तस्यैष दोषो नो भद्रे मातुर्मे कर्म तादृशम् ॥५७॥अथवा न प्रसू दोषो मंदभाग्योऽस्मि तत्सुतः ॥सुतेनकृत्यं यत्कृत्यं तत्प्राप्तिर्नास्ति भिल्लि मे ॥५८॥उद्यमं कृतवानस्मि न सिद्ध्येन्मंदभाग्यतः ॥आयातु सत्यवाक्यान्मे मा बिभेतु वनेचरः ॥५९॥अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः ॥इत्युक्ता तेन सा भिल्ली व्याजहार निजं पतिम् ॥६०॥लज्जानम्रशिराःसोऽथ वृत्तांतं विनिवेद्य च ॥निनाय तामरण्यानीं शबरस्तं धनंजयम् ॥६१॥वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने ॥दिग्भ्रांतिं समवाप्याथ परिबभ्राम कानने ॥६२॥इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत् ॥वनाद्वनांतरं भ्रांत्वा खिन्नः सोपि वनेचरः ॥६३॥विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम् ॥द्वित्राण्यहानि संभ्रम्य स कार्पटिकसत्तमः ॥६४॥क्षुत्क्षामः शुष्ककंठोष्ठो हाहेति परिदेवयन् ॥पुनः काशीपुरीं प्राप्तः परिम्लानमुखो वणिक् ॥८ ६५॥तन्मंदभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने ॥कृत्वा गयां प्रयागं च ततः स्वविषयं ययौ ॥६६॥काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव ॥विना वैश्वेश्वरीमाज्ञां बहिर्यातानि तत्क्षणात् ॥६७॥एवं काश्यां प्रविश्यापि पापी धर्मानुषंगतः ॥न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् ॥६८॥तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम् ॥असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ॥६९॥वाराणसीति विख्याता तदारभ्य महामुने ॥असेश्च वरणायाश्च संगमं प्राप्य काशिका ॥७०॥वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन ॥विश्वेशदृङ्महसि यत्सहसा प्रविश्य रूपेण तां वितनुतां पदवीं दधाति ॥७१॥जातो मृतो बहुषु तीर्थवरेषु रे त्वं जंतो न जातु तव शांतिरभून्निमज्य ॥वाराणसी निगदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात्स्मरशासनः स्याः ॥७२॥अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम् ॥चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्र जन्मा ॥७३॥नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः ॥यस्यां परं पौरुषमर्थमिच्छन्सिद्धिं नयेत्पौरपरंपरांसः ॥७४॥तीर्थांतराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात् ॥वाराणसीपरिसरे तु विसृज्य देहं संदेहभाग्भवति देहदशाप्तयेपि ॥७५॥वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहंत्री ॥तत्तारकं श्रवणगोचरतां नयंती तद्बह्मदर्शयति येन पुनर्भवो न ॥७६॥वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य ॥इष्टं पदं किमपि हृष्टतरोभिलष्य लाभोस्तुमूलमपि नो यदवाप शून्यम् ॥७७॥आःकाशिवासिजनता ननु वंचिताभूद्भाले विलोचनवतावनितार्धभाजा ॥आदाय यत्सन्ध्यकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयतापुनर्भु ॥७८॥वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात् ॥सर्वे गले गरलिनोऽक्षियुजो ललाटे वामार्धवामतनवोऽतनवस्ततोंऽते ॥७९॥आनंदकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ॥स्वः सिंधुसंगतिरथो परमास्पदं च विश्वेशितुः किमिह तन्न विमुक्तये यत् ॥८०॥वाराणसीह वरणासि सरिद्वरिष्ठा संभेदखेदजननी द्युनदी लसच्छ्रीः ॥विश्रामभूमिरचलाऽमलमोक्षलक्ष्म्याहैनां विहाय किमुसीदति मूढजंतुः ॥८१॥किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तांतदूतकृतबंधन ताडनं च ॥शंभोरनुग्रह परिग्रह लभ्य काशीं मूढो विहाय किमु याति करस्थ मुक्तिम् ॥८२॥तीर्थांतराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयंति ॥पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते बत मूलनाशम् ॥८३॥काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवंति ॥भाले विलोचनवतीं गलनीललक्ष्मीं वामार्धबंधुरवधूं विधुरावरोधाः ॥८४॥ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगंधि ॥स्वात्मावबोधमहसा सहसा मिलित्वा कल्पांतरेष्वपि स नैव पृथक्त्वमेति ॥८५॥रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् ॥ये कल्पयंत्यपरतीर्थसमां समंतात्ते पापिनो न सह तैः परिभाषणीयम् ॥८६॥वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगंतरेषु ॥प्राप्याप्यजाद्यसुलभांस्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः ॥८७॥विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चंदनानि वनिताश्च नितांत रम्याः ॥स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः।धात्रा धृतानि तुलया तुलनामवैतुं वैकुंठमुख्यभुवनानि च काशिका च ॥तान्युद्ययुर्लघुतयान्यगियं गुरुत्वात्तस्थौ पुरीह पुरुषार्थचतुष्टयस्य ॥८९॥काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणइहमान्यहवैकरुद्रः ॥नानोपसर्गजनिसर्गजदुःखभारैःकर्मापनुद्यसविशेत्परमेशधाम्नि ॥९०॥स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः ॥वपुस्तेजोरूपं स्थिरतरपरानंदसदनं विमूढोऽसौ जंतुः स्फुटितमिवकांम्यं विनिमयन् ॥९१॥अहो लोकः शोकं किमिह सहते हंतहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः ॥क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किंचिद्भूयः प्रविशति न येनोदरदरीम् ॥९२॥काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने ॥स्वैरचारिणि जितेंद्रियेप्यहो काशिवासिनि जने विशिष्टता ॥९३॥नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम् ॥बीजानि कर्मजनितानि यदूषरायां नांकूरंयति हरदृग्ज्वलितानितेषाम् ॥९४॥शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः ॥तुरगोरग वानरानरा गिरिजे काशिमृताः परामृतम् ॥९५॥अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः ॥निरंतरं काशिनिवासिनोजना गिरींद्रजे पारिषदा मता मम ॥९६॥यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः ॥तावंत एव मदनुग्रह रुद्रदेहा देहावसानमधिगम्य मयि प्रविष्टाः ॥९७॥ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः ॥वातेषवोंऽतरिक्षे ये ये भुव्यन्नेषवः प्रिये ॥९८॥रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः ॥ऊर्ध्वदिक्स्थाश्च ये रुद्राः पठ्यंते वेदवादिभिः ॥९९॥असंख्याताः सहस्राणि ये रुद्रा अधिभूतले ॥तत्सर्वेभ्योऽधिका काश्यां जंतवो रुद्ररूपिणः ॥१००॥रुद्रावासस्ततः प्रोक्तमविमुक्तं घटोद्भव ॥तस्मात्समर्च्य काशिस्थान्वर्णान्वर्णेतराश्रमान्॥ १॥श्रद्धयेश्वरबुद्ध्या च रुद्रार्चा फलभाङ्नरः ॥२॥श्म शब्देन शवः प्रोक्तः शानं शयनमुच्यते॥निर्वचंति श्मशानार्थं मुने शब्दार्थकोविदाः ॥३॥महांत्यपि च भूतानि प्रलये समुपस्थिते ॥शेरतेऽत्र शवा भूत्वा श्मशानं तु ततो महत् ॥४॥अप्सु भूरिह लये लयं व्रजेदाप और्ववदनोग्रकंदरे ॥मातरिश्वनि महातनूनपाद्व्योम्नि संक्षयति वै सदागतिः ॥५॥व्योम चापि लयमेत्यहंकृतौ सापि षोडशविकारसंयुता ॥लीयते महति बुद्धिसंज्ञकेहा महान्प्रकृतिमध्यगो भवेत् ॥६॥सा गुणत्रयमयी च निर्गुणं तं पुमांसमवगुह्य तिष्ठति ॥पंचविंशतितमः परः पुमान्देहगेहपतिरेष जीवकः ॥७॥प्राकृतः प्रलय एष उच्यते हंसयान हरि रुद्रवर्जितः ॥कालमूर्तिरथ तं च पूरुषं हेलया कलयतीश्वरः परः ॥८॥स वै महाविष्णुरितीर्यते बुधैस्तं वै महादेवमुदाहरंति ॥सोंऽतादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोपि हि पार्वतीपतिः ॥९॥दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् ॥बिभर्ति संवर्त महास्थिभूषणस्ततो हि काशी कलिकालवर्जिता ॥११०॥॥ स्कंद उवाच ॥वाराणसीति काशीति रुद्रावास इति द्विज ॥महाश्मशानमित्येवं प्रोक्तमानंदकाननम् ॥११॥इति देवीपुरः प्रोक्तं देवदेवेन शंभुना ॥यथाविष्णोः पुराख्यातं तथैव च मया श्रुतम् ॥तच्च त्वदग्रे कथितं रहस्यं काशिजं महत् ॥१२॥जप्त्वाध्यायमिमं पुण्यं महापातकनाशनम् ॥श्रावयित्वा द्विजान्सम्यक्छिवलोके महीयते ॥१३॥अतः परं कलशज किं शुश्रूषसि तद्वद ॥काशीकथा कथ्यमाना ममापि परितोषकृत् ॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे वाराणसीमहिमवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : November 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP