संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ७६

काशीखण्डः - अध्याय ७६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
शृणुष्व मैत्रावरुणे पुराकल्पे रथंतरे ॥
इतिहास इहासीद्यः पीठे विरजसंज्ञिते ॥१॥
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ॥
नानाभंगि गवाक्षाढ्ये रत्नसानाविवायते ॥२॥
कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये ॥
प्रोत्तंभनं स्तंभ इव दत्तो विश्वकृता स्वयम् ॥३॥
मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः ॥
सन्निवारयतीवेत्थमघौघान्विशतो मुने ॥४॥
देदीप्यमान सौवर्ण कलशेन विराजिते ॥
पार्वणेन शशांकेन खेदादिव समाश्रिते ॥५॥
तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम् ॥
प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम् ॥६॥
उड्डीयमानं परितः पक्षवातेरितस्ततः ॥
रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने ॥७॥
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत् ॥८॥
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ॥९॥
मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ॥
नेत्रांत निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत् ॥१०॥
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीयवांछितं यातः पश्यंतौ कौतुकं खगौ ॥११॥
तत्र भक्तजनाकीर्णं प्रासादं परितो मुने ॥
तंडुलादि चरंतौ तौ कुर्वाते च प्रदक्षिणम् ॥१२॥
देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् ॥
तृषार्तौ धयतो विप्र स्नातौ जातु चिदंडजौ ॥१३॥
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ॥१४॥
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ ॥१५॥
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः ॥
अवतीर्यांबरादाशु प्रविष्टोन्यशिवालये ॥१६॥
ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ ॥१७॥
केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् ॥
कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः ॥१८॥
मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् ॥
एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिंतयन् ॥१९॥
अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः ॥
दुर्बलोप्याकलयितुं सहसारिर्न शक्यते ॥२०॥
करिणां तु सहस्रेण वराश्वानां न लक्षतः ॥
तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत् ॥२१॥
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ॥
स्वतंत्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम् ॥२२॥
इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणम् ॥२३॥
अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् ॥
महाबलं दुर्गबला प्राह पारावतं पतिम् ॥२४॥
कलरव्युवाच ॥
प्रिय पारावत प्राज्ञ सर्वकामि सुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः ॥२५॥
सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः ॥
पारावतीमुवाचेदं का चिंतेति तव प्रिये ॥२६॥
॥ पारावत उवाच ॥
कति नाम न संतीह सुभगे व्योमचारिणः ॥
कति देवालयेष्वेषु खगा नोपविशंति हि ॥२७॥
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ॥२८॥
रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि ॥२९॥
इत्थं पारावतवचः श्रुत्वा पारावती ततः ॥
मौनमालंब्य संतस्थे पत्युः पादार्पितेक्षणा ॥३०॥
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया ॥
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ॥३१॥
अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ॥३२॥
अथ मंडलगत्या स प्रासादं परितो भ्रमन् ॥
निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः ॥३३॥
गतेऽथ नभसि श्येने पुनः पारावतांगना ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ॥३४॥
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ॥३५॥
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न ता गतीर्वेत्ति या वेदाहं नभोंगणे ॥३६॥
प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः ॥।
स्रंसनी मंडलवती गतयोष्टावुदाहृताः ॥३७॥
यथैतास्विह कौशल्यं मयि पारावति प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे ॥३८॥
सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये ॥
इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती ॥३९॥
अपरेद्युरपि श्येनस्तत्र भारशिलातले ॥
कियदंतरमासाद्योपविष्टोऽतिप्रहृष्टवत् ॥४०॥
आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च ॥
पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः ॥४१॥
प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् ॥
असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत् ॥४२॥
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ॥
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ॥४३॥
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ॥
तयोरभिमुखं तत्र स्थितो याम द्वयावधि ॥४४॥
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्॥
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमी ॥४५॥
नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत् ॥
पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय ॥४६॥
प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा ॥
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्॥ ४७॥
सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् ॥
स पंगुर्नाशमाप्नोति कूलस्थित इव द्रुमः ॥४८॥
प्रियोदितं निशम्येति स भवित्री दशार्दितः ॥
सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः ॥४९॥
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि ॥
तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः ॥५०॥
अस्ताचलस्य शिखरं याते भानौ गते खगे ॥
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ॥५१॥
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः ॥
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते ॥५२॥
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ॥
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ॥५३॥
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि ॥
तदा सर्वं हरिश्चंद्रभूपेनेवेह लभ्यते ॥५४॥
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ॥
धमार्थकाममोक्षाणामयमात्मार्जकः परः ॥५५॥
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये ॥
सोपि क्षेमः सुमतिना यशसा सह वांछ्यते ॥५६॥
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् ॥
तद्यशः प्राप्यते पुंभिर्नीतिमार्गप्रवर्तने ॥५७॥
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज ॥
न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि ॥५८॥
इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः ॥५९॥
अथोषसि समागत्य श्येनेन बलिना तदा ॥
तन्निर्गमाध्वा संरुद्धः किंचिद्भक्ष्यवता मुने ॥६०॥
दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः ॥
पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम् ॥६१॥
किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्॥ ६२॥
द्वौ भवंतावहं चैकश्चलौ जयपराजयौ !।
स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा ॥६३॥
पुरुपार्थं समालंब्य ये यतंते महाधियः ॥
विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः ॥६४॥
इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ॥६५॥
क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चंच्वा सापि धृता खगी॥ ६६॥
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ॥
चिंतयद्भक्षणस्थानमन्यपक्षिविवर्जितम् ॥६७॥
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ॥
वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः ॥६८॥
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबलायतः ॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ॥६५॥
तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि ॥७०॥
यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यैवमरेः पादं दृढं दश ॥।७१॥।
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ॥७२॥
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात्॥
पादांगुलि श्लथत्वेन सोपि पारावतोऽपतत् ॥७३॥
विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः ॥
क्व चंचुपुटस्तस्य क्व च तत्पादपीडनम् ॥७४॥
क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् ॥
दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत् ॥७५॥
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः ॥७६॥
अथ तौ कालयोगेन विपन्नौ सरयूतटे ॥
मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत् ॥७७॥
मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम् ॥
मंदारदामतनयो नाम्ना परिमलालयः ॥७८॥
अनेकविद्यानिलयः कलाकौशलभाजनम्॥
कौमारं वय आसाद्य शिवभक्तिपरोभवत् ॥७९॥
नियमं चातिजग्राह विजितेंद्रियमानसः ॥
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम् ॥८०॥
परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् ॥
हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः ॥८१॥
अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मांतराभ्यासात्त्रिलोचनसमाश्रयात् ॥८२॥
समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् ॥
समस्तकामजनकं परानंदैककारणम् ॥८३॥
यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः ॥
तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि ॥८४॥
इत्थं मांदारदामिः स नित्यं परिमलालयः ॥
काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान् ॥८५॥
पारावत्यपि सा जाता रत्नदीपस्य मंदिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च ॥८६॥
समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा ॥८७॥
तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे उभे ॥८८॥
स्वदेहादनपायिन्यौ छायाकांती यथा तया ॥
ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव ॥८९॥
सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना ॥
शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत् ॥९०॥
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ॥९१॥
एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत् ॥९२॥
दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः ॥
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम् ॥९३॥
तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम् ॥
रासमंडलभेदेन लास्यं तिस्रोपि कुर्वते ॥९४॥
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ॥
वादयंति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ ॥९५॥
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ॥
विचित्रगंधमालाभिः संमार्जनविलेपनैः ॥९६॥
एकदा माधवे मासि तृतीयायामुपोषिताः ॥
रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः ॥९७॥
प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमंडपे ॥९८॥
सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः ॥
शुद्धकर्पूरगौरांगो जटामुकुटमंडलः ॥९९॥
तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ॥
वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान् ॥।१००॥
तस्मादेव विनिष्क्रम्य लिंगात्पन्नगमेखलात् ॥
उवाच च ततो बाला विभुरुत्तिष्ठतेति सः ॥१॥
उत्थाय ता विनिर्मार्ज्य लोचने श्रुतिसंगते ॥
अंगमोटनवत्यश्च जृंभाभिः क्वणिताननाः ॥२॥
यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ॥३॥
ववंदुरथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्ट्वुश्च प्रहृष्टास्याः सन्नकंठ्योतिगद्गदम्॥ ४॥
जयशंभो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयांधकनिषूदन ॥५॥
जय जालंधरहर जय कंदर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवर्धन ॥६॥
जय त्रैलोक्यनिलय जय त्रैलोक्यवंदित ॥
जय भक्तजनाधीन जय प्रमथनायक ॥७॥
जय त्रिपथगापाथः प्रक्षालितजटातट ॥
जय चंद्रकलाज्योतिर्विद्योतितजगत्त्रय ॥८॥
जय सर्पफणारत्न प्रभाभासितविग्रह ॥
जयाद्रिराजतनया तपःक्रीतार्धदेहक ॥९॥
जय श्मशाननिलय जय वाराणसीप्रिय ॥
जयानंदवनाध्यासि प्राणिनिर्वाणदायक ॥११०॥
जय विश्वपते शर्व शर्वरीपरिवर्जित ॥
जय नृत्यप्रियेशोग्र जय गीतविशारद ॥११॥
जय प्रणवसद्वास जय धाम महानिधे ॥
जय शूलिन्विरूपाक्ष जय प्रणतसर्वद ॥१२॥
विधिः सर्वविधिज्ञोपि न त्वां स्तोतुं विचक्षणः ॥
वाचो वाचस्पतेर्नाथ त्वत्स्तुतौ परिकुंठिताः ॥१३॥
विदंति वेदाः सर्वज्ञ न त्वां नाथ यथार्थतः ॥
मनतीह मनो न त्वामनंतं चादिवर्जितम् ॥१४॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोस्तु ते ॥१५॥
इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ॥१६॥
सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति ॥१७॥
चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ॥
ततो निर्वेदमापन्नाः काशीसिद्धिमवाप्स्यथ ॥१८॥
यूयं तिस्रोपि मे भक्ताः स च विद्याधरो युवा ॥
चत्वारोप्येत एवात्र प्रतिमोक्षमवाप्स्यथ ॥१९॥
जन्मांतरेपि मे सेवा भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ॥१२०॥
एतच्च भवती स्तोत्रं यः पठिष्यति मे पुरः ॥
तस्य कामं प्रदास्यामि भवतीनामिव स्फुटम् ॥२१॥
त्यजेत्क्षपाकृतं पापं शुचिः प्रातः पठन्नरः ॥
दिवाकृतमलं हंति सायं पठनतः स्फुटम् ॥२२॥
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः ॥२३॥
नागकन्या ऊचुः ॥
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ॥
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता ॥२४॥
भवप्राग्भव वृत्तांतं तस्यापि सुकृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ॥२५॥
इति श्रुत्वा प्रणयतो बालोदीरितमीशिता ॥
प्रोवाच तासां तस्यापि भवांतरविचेष्टितम् ॥२६॥
॥ ईश्वर उवाव ॥
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवे भवतीनां च तस्यापि कथयाम्यहम् ॥९७॥
एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोभवत् ॥२८॥
प्रासादेत्र ममैताभ्यामुषितं सुचिरं सुखम्॥
रजःप्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ॥२९॥
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः ॥
व्योम्ना संचरमाणाभ्यां संचरद्भ्यां ममाजिरे ॥१३०॥
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृतः कलरवो मुदे ॥३१॥
एताभ्यां स्थिरचेतोभ्यां मुदिताभ्यामतीव हि ॥
दृष्टानि कौतुकान्यत्र मम भक्तैः कृतानि वै ॥३२॥
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ॥३३॥
तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ॥
मृतं पुर्यामयोध्यायां काशीप्राप्तिकृति ध्रुवम् ॥३४॥
अयोध्यानिधनादेषा रत्नदीपसुताभवत् ॥
पतिः पारावतोऽस्याः स जातो विद्याधरांगजः ॥३५॥
एषा प्रभावती नागी नागराजस्य पद्मिनः ॥
इह जन्मनि कन्यासीत्पूर्वं जन्म ब्रवीमि वः ॥३६॥
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तांतं निशामयत वच्म्यहम् ॥३७॥
भवांतरे तृतीयेऽतः कन्ये चारायणस्य ह ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ॥३८॥
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन ते ॥
आमुष्यायण पुत्राय दत्ते नारायणाय हि ॥३९॥
अप्राप्तयौवनः सोथ समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दंदशूकेन कानने ॥१४०॥
भवानीगौतमी नाम्न्यो ते तु चारायणांगजे ॥
वैधव्य दुःखमापन्ने दैन्यग्रस्ते बभूवतुः ॥४१॥
अतएव प्रयत्नेन परिणेता विवर्जयेत् ॥
देवतासरिदाह्वानां कन्या पाणिग्रहे सुधीः ॥४२॥
अथर्षेः कस्यचिद्दैवादाश्रमे परमाद्भुते ॥
रंभाफलान्यदत्तानि मोहाज्जगृहतुस्तदा ॥४३॥
कृत्वा मासोपवासादि व्रतानि ब्राह्मणांगजे ॥
अवाप्य निधनं कालाच्छाखामृग्यौ बभूवतुः ॥४४॥
फलचौर्यविपाकेन वानरीत्वं तयोरभूत् ॥
शीलरक्षणधर्मेण काश्यां जनिमवापतुः ॥४५॥
स च नारायणो विप्रः पितृशुश्रूषणव्रतः॥
दष्टोपि दंदशूकेन काश्यां पारावतोभवत् ॥४६॥
एवं भवांतरेचासीदेतयोः पतिरेष कः ॥
तिसृणां भवतीनां च भावी भर्ताधुनापि हि ॥४७॥
प्रासादस्यास्य पार्श्वे तु न्यग्रोधस्तु महानभूत् ॥
तस्मिञ्शाखिनि शाखाढ्ये शाखामृग्यौ बभूवतुः ॥४८॥
चतुःस्रोतस्विनी तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थं तृषातुरे ॥४९॥
जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिंगं ददृशतुर्बहु ॥१५०॥
विचरंत्याविति स्वैरं तत्र न्यग्रोध सन्निधौ ॥
केनचिद्योगिवेषेण पाशेन च नियंत्रिते ॥५१॥
भिक्षार्थं शिक्षिते तेन तदुत्प्लुत्यादि नर्तनम्॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते॥ ५२॥
काशीवासज पुण्येन त्रैलोचन्यानुसेवया ॥
प्रादक्षिण्यादिरूपिण्या जाते नागसुते इति ॥५३॥
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्च काश्यां निर्वृतिमेष्यथ ॥५४॥
यदल्पमपि वै काश्यां कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ॥५५॥
त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी ॥
ततोपि लिंगमोंकारं ततोप्यत्र त्रिलोचनम् ॥५६॥
तिष्ठमानोत्र लिंगेहं भक्तमुक्तिं दिशाम्यहम् ॥
ततः सर्वप्रयत्नेन काश्यां पूज्यस्त्रिलोचनः ॥५७॥
इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरं विशत् ॥
अवाच्यरूपमासाद्य स्थूलं त्रिभुवनादपि ॥५८॥
ताश्च स्वं स्वं पदं प्राप्य तद्वृत्तांतमशेषतः ॥
स्वमातृपुरतश्चोक्त्वा कृतकृत्या इवाभवन् ॥५९॥
एकदा माधवे मासि महायात्रा समागता ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ॥१६०॥
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलीम् ॥६१॥
विद्याधराय ता नागैः कन्यास्तिस्रोपि कल्पिताः ॥
मंदारदामा संतुष्टः प्राप्य तच्च स्नुषात्रयम्॥ ६२॥
रत्नदीपश्च नागेंद्रः पद्मी च भुजगेश्वरः ॥
त्रिशिखोपि फणींद्रश्च हृष्टा एते त्रयोपि च ॥६३॥
जामातरं समासाद्य शुभं परिमलालयम् ॥
अन्योन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ॥६४॥
विवाहोत्सव माकल्प्य स्वं स्वं भुवनमाविशन् ॥
त्रिलोचनस्य लिंगस्य वर्णयंतोतिगौरवम् ॥६५॥
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वा वाराणसीं प्राप्य संसेव्याथ त्रिलोचनम् ॥६६॥
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिसंस्मृत्य मध्ये लिंगं लयं गतः ॥६७॥
॥ स्कंद उवाच ॥
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
अतोल्पसत्त्वा मनुजा न तल्लिंगमुपासते ॥६८॥
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो ॥
विपाप्मा जायते मर्त्यो लभते च परां गतिम् ॥१६९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे त्रिलोचनप्रभावोनाम षट्सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP