संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ३६ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ३६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३६ Translation - भाषांतर स्कंद उवाच ॥पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज ॥यं श्रुत्वापि नरो धीमान्नाज्ञानतिमिरं विशेत् ॥१॥ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः ॥प्रथमं मातृतो जाता द्वितीयं चोपनायनात् ॥२॥एषां क्रियानिषेकादि श्मशानांता च वैदिकी॥आदधीत सुधीर्गर्भमृतौमूलं मघां त्यजेत् ॥३॥स्पंदनात्प्राक्पुंसवनं सीमंतोन्नयनं ततः ॥मासि षष्ठेऽष्टमे वापि जातेथो जातकर्म च ॥४॥नामाह्न्येकादशे गेहाच्चतुर्थेमासि निष्क्रमः ॥मासेन्नप्राशनं षष्ठे चूडाब्दे वा यथाकुलम् ॥५॥शममेनो व्रजेदेवं बैजं गर्भजमवे च ॥स्त्रीणामेताः क्रियास्तूष्णीं पाणिग्राहस्तु मंत्रवान् ॥६॥सप्तमेथाष्टमेवाब्दे सावित्रीं ब्राह्मणोर्हति ॥नृपस्त्वेकादशे वैश्यो द्वादशे वा यथाकुलम् ॥७॥ब्रह्मतेजोभिवृद्ध्यर्थं विप्रोब्देपंचमेर्हति ॥षष्ठे बलार्थी नृपतिर्मौजीं वैश्योष्टमे ध्रियेत् ॥८॥महाव्याहृतिपूर्वं च वेदमध्यापयेद्गुरुः ॥उपनीय च तं शिष्यं शौचाचारे च योजयेत् ॥९॥पूर्वोक्तविधिना शौचं कुर्यादाचमनं तथा ॥दंताञ्जिह्वां विशोध्याथ कृत्वा मलविशोधनम् ॥१०॥स्नात्वांबुदैवतैर्मंत्रैः प्राणानायम्य यत्नतः ॥उपस्थानं रवेः कृत्वा संध्ययोरुभयोरपि ॥११॥अग्निकार्यं ततः कृत्वा ब्राह्मणानभिवादयेत् ॥ब्रुवन्नमुक गोत्रोहमभिवादय इत्यपि ॥१२॥अभिवादनशीलस्य वृद्धसेवारतस्य च ॥आयुर्यशोबलं बुद्धिर्वर्धतेऽहरहोधिकम् ॥१३॥अधीते गुरुणा हूतः प्राप्तं तस्मै निवेदयेत् ॥कर्मणा मनसा वाचा हितं तस्याचरेत्सदा ॥१४॥अध्याप्याधर्मतोनार्थात्साध्वाप्तज्ञानवित्तदाः ॥शक्ताः कृतज्ञाः शुचयोऽद्रोहकाश्चानसूयकाः ॥१५॥धारयेन्मेखलादंडोपवीताजिनमेव च ॥अनिंद्येषु चरेद्भैक्ष्यं ब्राह्मणेष्वात्मवृत्तये ॥१६॥ब्राह्मणक्षत्रियविशामादिमध्यावसानतः ॥भैक्ष्यचर्या क्रमेण स्याद्भवच्छब्दोपलक्षिता ॥१७॥वाग्यतो गुर्वनुज्ञातो भुंजीतान्नमकुत्सयन् ॥एकान्नं न समश्नीयाच्छ्राद्धेऽश्नीयात्तथापदि ॥१८॥अनारोग्यमनायुष्यमस्वर्ग्यंचातिभोजनम् ॥अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥१९॥न द्विर्भुंजीत चैकस्मिन्दिवा क्वापि द्विजोत्तमः ॥सायंप्रातर्द्विजोऽश्नीयादग्निहोत्रविधानवित् ॥२०॥मधुमांसं प्राणिहिंसां भास्करालोकनांजने ॥स्त्रियं पर्युषितोच्छिष्टंपरिवादं विवजर्येत् ॥२१॥औपनायनिकः कालो ब्रह्मक्षत्र विशां परः ॥आ षोडशादाद्वाविंशादा चतुर्विंशदब्दतः ॥२२॥इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः ॥व्रात्यस्तोमेन यज्ञेन तत्पातित्यं परिव्रजेत् ॥२३॥सावित्रीपतितैः सार्धं संबंधं न समाचरेत् ॥ऐणं च रौरवं वास्तं क्रमाच्चर्म द्विजन्मनाम् ॥२४॥वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च॥द्विजस्य मेखला मौंजी मौर्वी च भुजजन्मनः ॥भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी ॥२५॥मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः ॥ग्रंथिनैकेन संयुक्ता त्रिभिः पंचभिरेव वा ॥२६॥उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम् ॥त्रिवृदूर्ध्ववृतं तच्च भवेदायुर्विवृद्धये ॥२७॥बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु ॥न्यग्रोधबालदलयोः पीलूदुंबरयोर्विशः ॥२८॥आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः ॥ब्रह्मक्षत्रविशां दंडस्त्वगाढ्योनाग्निदूषितः ॥२९॥प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् ॥दंडाजिनोपवीताढ्यश्चरेद्भैक्ष्यं यथोदितम् ॥३०॥मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः ॥प्रथमं भिक्षणीयाः स्युरेतायाचन नो वदेत् ॥३१॥यावद्वेदमधीते च चरन्वेदव्रतानि च ॥ब्रह्मचारी भवेत्तावदूर्ध्वं स्नातो गृही भवेत् ॥३२॥प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः ॥तिष्ठेत्तावद्गुरुकुले यावत्स्यादायुषः क्षयः ॥३३॥गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक्॥नासौ यतिर्वनस्थो वा स्यात्सर्वाश्रमवर्जितः ॥३४॥अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ॥आश्रमं तु विना तिष्ठन्प्रायश्चित्ती यतो हि सः ॥३५॥जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम्॥कुर्वाणोथाश्रमभ्रष्टो नासौ तत्फलमाप्नुयात् ॥३६॥मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः ॥गृहिणो वेदयज्ञादि नखलोमवनस्थितेः ॥३७॥त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै ॥एतल्लक्षणहीनस्तु प्रायश्चित्ती दिने दिने ॥३८॥जीर्णं कमंडलुं दंडमुपवीताजिने अपि ॥अप्स्वेव तानि निक्षिप्य गृह्णीतान्यच्च मंत्रवत् ॥३९॥विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् ॥द्वाविंशे च चतुर्विंशे गार्हस्थ्य प्रतिपत्तये ॥४०॥तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः ॥द्विजातीनां श्रुतिर्ह्येका हेतुर्निश्रेयस श्रियः ॥४१॥वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा ॥अफलोऽनोंकृतो यस्मात्पठितोपि न सिद्धये ॥४२॥वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा ॥तिसृभिः प्रणवाद्याभिर्महाव्याहृतिभिः सह ॥४३॥सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी ॥मासं बहिः प्रतिदिनं महाघादपि मुच्यते ॥४४॥अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः ॥स व्योममूर्तिः शुद्धात्मा परं ब्रह्माधिगच्छति ॥४५॥त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम् ॥पादत्रयं च सावित्र्यास्त्रयोवेदा अदूदुहन् ॥४६॥एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम् ॥संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥४७॥विधिक्रतोर्दशगुणं जपस्यफलमश्नुते ॥विधिक्रतोर्दशगुणो जपक्रतुरुदीरितः ॥४८॥उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः ॥४९॥अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः ॥सुवर्णपूर्ण धरणी दानस्य फलमश्नुते ॥५०॥श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ॥श्रुत्यभ्यासो हि विप्रस्य परमं तप उच्यते ॥५१॥हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति ॥स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोडीं दुधुक्षति ॥५२॥उपनीय च वै शिष्यं वेदमध्यापयेद्द्विजः ॥सकल्पं सरहस्यं च तमाचार्यं विदु्र्बुधाः ॥५३॥योध्यापयेदेकदेशं श्रुतेरंगान्यथापि वा ॥वृत्त्यर्थं स उपाध्यायो विद्वद्भिः परिगीयते ॥५४॥यथाविधि निषेकादि यः कर्म कुरुते द्विजः ॥संभावयेत्तथान्नेन गुरुः स इह कीर्त्यते ॥५९॥अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ॥यः करोति वृतो यस्य स तस्यर्त्त्विगिहोच्यते ॥५६॥उपाध्यायाद्दशाचार्य आचार्यात्तु शतं पिता ॥सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥५७॥विप्राणां ज्ञानतो ज्यैष्ठ्यं बाहुजानां तु वीर्यतः ॥वैश्यानां धान्यधनतः पज्जातानां तु जन्मतः ॥५८॥यथा दारुमयो हस्ती यथा कृत्तिमयो मृगः ॥तथा विप्रोऽनधीयानस्त्रयोऽमी नामधारिणः ॥५९॥स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ॥स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥६०॥स्वधर्मनिरतानां च वेदयज्ञक्रियावताम् ॥ब्रह्मचारी चरेद्भैक्ष्यं वेश्मसुप्रयतोऽन्वहम् ॥६१॥अकृत्वा भैक्ष्यचरणमसमिध्य हुताशनम् ॥अनातुरः सप्तरात्रमवकीर्णि व्रतं चरेत् ॥६२॥यथेष्टचेष्टो नभवेद्गुरोर्नयनगोचरे ॥न नामपरिगृह्णीयात्परोक्षेप्यविशेषणम् ॥६३॥गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च ॥श्रुती पिधाय वास्थेयं यातव्यं वा ततोन्यतः ॥६४॥खरो गुरोः परीवादाच्छ्वा भवेद्गुरुनिंदकः ॥मत्सरी क्षुद्रकीटःस्यात्परिभोक्ता भवेत्कृमिः ॥६५॥नाभिवाद्या गुरोः पत्नी स्पृष्ट्वांघ्री युवती सती ॥क्वापि विंशतिवर्षेण ज्ञातृणा गुणदोषयोः ॥६६॥स्वभावश्चंचलः स्त्रीणां दोषः पुंसामतः स्मृतः ॥प्रमदासु प्रमाद्यंति क्वचिन्नैव विपश्चितः ॥६७॥विद्वांसमप्यविद्वांसं यतस्ताधर्षयंत्यलम् ॥स्ववशं वापि कुर्वंति सूत्रबद्धशकुंतवत् ॥६८॥न मात्रा न दुहित्रा वा न स्वस्रैकांतशीलता ॥बलवंतीद्रियाण्यत्र मोहयंत्यपि कोविदान् ॥६९॥प्रयत्नेन खनन्यद्वद्भूमेर्वार्यधिगच्छति ॥शुश्रूषया गुरोस्तद्वद्विद्या शिष्योधिगच्छति ॥७०॥शयानमभ्युदयते ब्रध्नश्चेद्ब्रह्मचारिणम् ॥प्रमादादथ निम्लोचेज्जपन्नपवसेद्दिनम् ॥७१॥सुतस्य संभवे क्लेशं सहेते पितरौ च यत् ॥शक्या वर्षशतेनापि नो कर्तुं तस्य निष्कृतिः ॥७२॥अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ॥त्रिषु तेषु सुतुष्टेषु तपः सर्वं समाप्यते ॥७३॥तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥तानतिक्रम्य यः कुर्यात्तन्नसिद्ध्येत्कदाचन ॥७४॥त्रीनेवामून्समाराध्य त्रीँल्लोकान्स जयेत्सुधीः ॥देववद्दिवि दीव्येत तेषां तोषं विवर्धयन् ॥७५॥भूर्लोकं जननी भक्त्या भुवर्लोकं तथा पितुः ॥गुरोः शुश्रूषणात्तद्वत्स्वर्लोकं च जयेत्कृती ॥७६॥एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ॥यदेतेषां हि संतोष उपधर्मोन्य उच्यते ॥७७॥अधीत्य वेदान्वेदौ वा वेदं वापि क्रमाद्द्विजः ॥अप्रस्खलद्ब्रह्मचर्यो गृहाश्रममथाश्रयेत् ॥७८॥अविप्लुत ब्रह्मचर्यो विश्वेशानुग्रहाद्भवेत् ॥अनुग्रहश्च वैश्वेशः काशीप्राप्तिकरः परः ॥७९॥काशीप्राप्त्या भवेज्ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥निर्वाणार्थं प्रयत्नो हि सदाचारस्य धीमताम् ॥८०॥सदाचारो गृहे यद्वन्न तथास्त्याश्रमांतरे ॥विद्याजातं पठित्वांते गृहस्थाश्रममाश्रयेत् ॥८१॥गृहाश्रमात्परं नास्ति यदि पत्नीवशंवदा ॥आनुकूल्यं हि दंपत्योस्त्रिवर्गोदय हेतवे ॥८२॥आनुकूल्यं कलत्रं चेत्त्रिदिवेनापि किं ततः ॥प्रातिकूल्यं कलत्रं चेन्नरकेणापि किं ततः ॥८३॥गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम् ॥सा च भार्या विनीताया त्रिवर्गो विनयो धुवम् ॥८४॥जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः ॥मृगीदृशां जलौकानां विचारान्महदतंरम् ॥८५॥जलौका केवलं रक्तमाददाना तपस्विनी ॥प्रमदा सर्वदा दत्ते चित्तं वित्तं बलं सुखम् ॥८६॥दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा ॥गुणैरमीभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी ॥८७॥गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च ॥उद्वहेत ततो भार्यां सवर्णां साधुलक्षणाम् ॥८८॥जने तु रसगोत्राया मातुर्याप्यसपिंडका ॥दारकर्मणि योग्या सा द्विजानां धर्मवृद्धये ॥८९॥स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् ॥अभिशस्तिसमायुक्तं तथा कन्याप्रसूं त्यजेत् ॥९०॥रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम् ॥उद्वहेत द्विजो भार्यां सौम्यास्यां मृदुभाषिणीम् ॥९१॥न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम् ॥न पक्ष्यहिप्रेष्यनाम्नीं सौम्याख्यामुद्वहेत्सुधीः ॥९२॥न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम् ॥नालोमिकां नातिलोमां नास्निग्धस्थूलमौलिजाम् ॥९३॥मोहात्समुपयच्छेत कुलहीनां न कन्यकाम् ॥हीनोपयमनाद्याति संतानमपि हीनताम् ॥९४॥लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत् ॥सुलक्षणा सदाचारा पत्युरायुर्विवर्धयेत् ॥९५॥ब्रह्मचारि समाचार इति ते समुदी रितः ॥घटोद्भव प्रसंगेन स्त्रीलक्षणमथ ब्रुवे ॥९६॥इति श्री स्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षट्त्रिंशत्तमोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : November 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP