संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ३२ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३२ Translation - भाषांतर ॥ अगस्त्य उवाच ॥बर्हियान समाचक्ष्व हरिकेशसमुद्भवम् ॥कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत् ॥१॥कथं च देवदेवस्य प्रियत्वं समुपेयिवान् ॥काशीवासिजनीनोभूत्कथं वा दंडनायकः ॥२॥एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो ॥अन्नदत्वं च संप्राप्तः कथमेष महामतिः ॥३॥संभ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ ॥विभ्रांतिकारिणौ क्षेत्रवैरिणां सर्वदा नृणाम् ॥४॥॥ स्कंद उवाच ॥सम्यगापृच्छि भवता काशीवासिसमाहितम् ॥कुंभसंभव विप्रर्षे दंडपाणि कथानकम् ॥५॥यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम् ॥निष्प्रत्यूहं तदाप्नोति विश्वभर्त्तुरनुग्रहात् ॥६॥रत्नभद्र इति ख्यातः पर्वते गंधमादने ॥यक्षः सुकृतलक्षश्रीः पुरा परम धार्मिकः ॥७॥[१]पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः ॥वयश्चरममासाद्य भुक्त्वा भोगाननेकशः ॥८॥शांभवेनाथ योगेन देहमुत्सृज्य पार्थिवम् ॥आससादाशवं शांतं शांतसर्वेंद्रियार्थकः ॥९॥पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः ॥सुकृतोपात्तविभव भवसंभोगभुक्तिभाक् ॥१०॥सर्वान्मनोरथाँल्लेभे विना स्वर्गैकसाधनम् ॥गार्हस्थ्याश्रम नेपथ्यं पथ्यं पैतामहं महत् ॥११॥संसारतापसंतप्तावयवामृतसीकरम् ॥अपत्यं पततां पोतं बहुक्लेशमहार्णवे ॥१२॥पूर्णभद्रोऽथ संवीक्ष्य मंदिरं सर्वसुंदरम् ॥तद्बालकोमलालाप विकलं त्यक्तमंगलम्॥ १३॥शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा ॥पांथवत्प्रांतरमिव खिन्नोऽतीवानपत्यवान् ॥१४॥आहूय गृहिणी सोऽथ यक्षः कनककुंडलाम् ॥उवाच यक्षिणीं श्रेष्ठां पूर्णभद्रो घटोद्भव ॥१५॥न हर्म्यं सुखदं कांते दर्पणोदरसुंदरम् ॥मुक्ता गवाक्षसुभगं चंद्रकांतशिलाजिरम् ॥१६॥पद्मरागेंद्रनीलार्चिरर्चिताट्टालकं क्वणत् ॥विद्रुमस्तंभशोभाढ्यं स्फुरत्स्फटिककुड्यवत् ॥१७॥प्रेंखत्पताकानिकरं मणिमाणिक्यमालितम्॥कृष्णागुरुमहाधूप बहुलामोदमोदितम् ॥१८॥अनर्घ्यासनसंयुक्तं चारुपर्यंकभूषितम् ॥रम्यार्गलकपाटाढ्यं दुकूलच्छन्नमंडपम् ॥१९॥सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् ॥दासदासीशताकीर्णं किंकिणीनादनादितम् ॥२०॥नूपुरारावसोत्कंठ केकिकेकारवाकुलम् ॥कूजत्पारावत कुलं गुरुसारीकथावरम् ॥२१॥खेलन्मरालयुगलं जीवं जीवककांतिमत् ॥माल्याहूत द्विरेफाणां मंजुगुंजारवावृतम् ॥२२॥कर्पूरैण मदामोद सोदरानिलवीजितम् ॥क्रीडामर्कटदंष्ट्राग्री कृतमाणिक्यदाडिमम् ॥२३॥दाडिमीबीजसंभ्रांतशुकतुंडात्तमौक्तिकम् ॥धनधान्यसमृद्धं च पद्मालयमिवापरम् ॥२४॥कमलामोदगर्भं च गर्भरूपं विना प्रिये ॥गर्भरूपमुखं प्रेक्ष्ये कथं कनककुडले ॥२५॥यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम् ॥सर्वशून्यमिवाभाति गृहमेतदनंगजम् ॥२६॥धिगेतत्सौधसौंदर्यं धिगेतद्धनसंचयम् ॥विनापत्यं प्रियतमे जीवितं च धिगावयोः ॥२१७॥प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला ॥बभाषेंऽतर्विनिःश्वस्य यक्षिणी सा पतिव्रता ॥२८॥॥ कनककुंडलोवाच ॥किमर्थं खिद्यसे कांत ज्ञानवानसि यद्भवान् ॥अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय ॥२९॥किमुद्यमवतां पुंसां दुर्लभं हि चराचरे ॥ईश्वरार्पितबुद्धीनां स्फुंरंत्यग्रे मनोरथाः ॥३०॥दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते ॥स्वयं पुराकृतं कर्म दैवं तच्च न हीतरत् ॥३१॥ततः पौरुषमालंब्य तत्कर्म परिशांतये ॥ईश्वरं शरणं यायात्सर्वकारणकारणम् ॥३२॥अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः ॥सुखानि स्वर्गमोक्षौ च न दूरे शिवभक्तितः ॥३३॥विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः ॥सिद्धयोष्टौ गृहद्वारं सेवंते नात्र संशयः ॥३४॥नारायणोपि भगवानंतरात्मा जगत्पतिः ॥चराचराणामविता जातः श्रीकंठसेवया ॥३५॥ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना ॥इंद्रादयो लोकपाला जाता शंभोरनुग्रहात् ॥३६॥मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान् ॥श्वेतकेतुरपि प्राप जीवितं कालपाशतः ॥३७॥क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान् ॥अंधकोप्यभवद्भृंगी गाणपत्यपदोर्जितः ॥३८॥जिगाय शार्ङ्गिणं संख्ये दधीचिः शंभुसेवया ॥प्राजापत्यपदं प्राप दक्षः संशील्य शंकरम् ॥३९॥मनोरथपथातीतं यच्च वाचामगोचरम्॥गोचरो गोचरीकुर्यात्तत्पदं क्षणतो मृडः ॥४०॥अनाराध्य महेशानं सर्वदं सर्वदेहिनाम् ॥कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥४१॥तस्मात्सर्वप्रयत्नेन शंकरं शरणं व्रज ॥यदिच्छसि प्रियं पुत्रं प्रियसर्वजनीनकम् ॥४२॥इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट् ॥आराध्य श्रीमहादेवं गीतज्ञो गीतविद्यया ॥४३॥दिनैः कतिपयैरेव परिपूर्णमनोरथः ॥पुत्रकाममवापोच्चैस्तस्यां पत्न्यां दृढव्रतः ॥४४॥नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिंतितम् ॥तस्मात्काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः ॥४५॥अंतर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम् ॥तस्य नाम पिता चक्रे हरिकेश इति द्विज ॥४६॥प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात् ॥पूर्णभद्रस्तथागस्त्य हृष्टा कनककुंडला ॥४७॥बालोऽपि पूर्णचंद्राभ वदनो मदनोपमः ॥वृद्धिं प्रतिक्षणं प्राप शुक्लपक्ष इवोडुराट् ॥४८॥यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः ॥नित्यं तदाप्रभृत्येवं शिवमेकममन्यत ॥४९॥पांसुक्रीडनसक्तोपि कुर्याल्लिंगं रजोमयम् ॥शाद्वलैः कोमलतृणैः पूजयेच्च स कौतुकम् ॥५०॥आकारयति मित्राणि शिवनाम्नाऽखिलानि सः ॥चंद्रशेखरभूतेश मृत्युंजय मृडेश्वरः ॥५१॥धूर्जटे खंडपरशो मृडानीश त्रिलोचन ॥भर्गशंभोपशुपते पिनाकिन्नुग्रशंकर ॥५२॥श्रीकंठनीलकंठेश स्मरारे पार्वतीपते ॥कपालिन्भालनयन शूलपाणे महेश्वर ॥५३॥अजिनांबरदिग्वासः स्वर्धुनी क्लिन्नमौलिज ॥विरूपाक्षाहिनेपथ्य गृणन्नामावलीमिमाम् ॥५४॥सवयस्कानिति मुहुः समाह्वयति लालयन् ॥शब्दग्रहौ न गृह्णीतस्तस्यान्याख्यां हरादृते ॥५५॥पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात् ॥द्रष्टुं रूपांतरं तस्य वीक्षणेन विचक्षणे ॥५६॥रसयेत्तस्य रसना हरनामाक्षरामृतम्॥शिवांघ्रिकमलामोदाद्घ्राणं नैव जिघृक्षति ॥५७॥करौ तत्कौतुककरौ मनो मनति नापरम् ॥शिवसात्कृत्यपेयानि पीयते तेन सद्धिया ॥५८॥भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि ॥सर्वावस्थासु सर्वत्र न स पश्येच्छिवं विना ॥५९॥गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि ॥परितस्त्र्यक्षमैक्षिष्ट नान्यं भावं चिकेति सः ॥६०॥क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः ॥क्षणं त्र्यक्ष प्रतीक्षस्व बुध्यतीति स बालकः ॥६१॥स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता ॥अशिक्षयत्सुतं सोऽथ गृहकर्मरतो भव ॥६२॥एते तुरंगमा वत्स तवैतेऽश्वकिशो रकाः ॥चित्राणीमानि वासांसि सुदुकूलान्यमूनि च ॥६३॥रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः ॥कुप्यं बहुविधं चैतद्गोधनानि महांति च ॥६४॥अमत्राणि महार्हाणि रौप्य कांस्यमयानि च ॥पणनीयानि वस्तूनि नानादेशोद्भवान्यपि ॥६५॥चामराणि विचित्राणि गंधद्रव्याण्यनेकशः ॥एतान्यन्यानि बहुशस्त्वनेके धान्यराशयः ॥६६॥एतत्त्वदीयं सकलंवस्तुजातं समंततः ॥अर्थोपार्जनविद्याश्च सर्वाः शिक्षस्व पुत्रक ॥६७॥चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः ॥अभ्यस्यविद्याः सकला भोगान्निर्विश्य चोत्तमान् ॥६८॥तां दशां चरमां प्राप्य भक्तियोगं ततश्चर ॥असकृच्छिक्षितः पित्रेत्यवमन्य गुरोर्गिरम्॥ ६९॥रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः ॥निर्जगाम गृहाद्भीतो हरिकेश उदारधीः ॥७०॥ततश्चिंतामवापोच्चैर्दिग्भ्रांतिमपि चाप्तवान् ॥अहो बालिशबुद्धित्वात्कुतस्त्यक्तं गृहं मया ॥७१॥क्व यामि क्व स्थिते शंभो मम श्रेयो भविष्यति ॥पित्रा निर्वासितश्चाहं न च वेद्म्यथ किंचन ॥७२॥इति श्रुतं मया पूर्वं पितुरुत्संगवर्तिना ॥गदतस्तातपुरतः कस्यचिद्वचनं स्फुटम् ॥७३॥मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७४॥जरया परिभूता ये ये व्याधिविकलीकृताः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७५॥पदे पदे समाक्रांता ये विपद्भिरहर्निशम् ॥येषां क्वापि गतिर्नास्ति तेषांवाराणसी गतिः ॥७६॥पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७७॥संसार भयभीताय ये ये बद्धाः कर्मबंधनैः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७८॥श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७९॥ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः ॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥८०॥मध्ये बंधुजने येषामपमानं पदे पदे ॥तेषामानंददं चैकं शंभोरानंदकाननम् ॥८१॥आनंदकानने येषां रुचिर्वै वसतां सताम् ॥विश्वेशानुगृहीतानां तेषामानंदजोदयः ॥८२॥भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना ॥अतो महाश्मशानं तदगतीनां परा गतिः ॥८३॥हरिकेशो विचार्येति यातो वाराणसीं पुरीम् ॥यत्राविमुक्ते जंतूनां त्यजतां पार्थिवीं तनुम् ॥८४॥पुनर्नो तनुसंबंधस्तनुद्वेषिप्रसादतः ॥आनंदवनमासाद्य स तपः शरणं गतः ॥८५॥अथ कालांतरे शंभुः प्रविश्यानंदकानमम् ॥पार्वत्यै दर्शयामास निजमाक्रीडकाननम् ॥८६॥अमंदामोदमंदारं कोविदारपरिष्कृतम् ॥चारुचंपकचूताढ्यं प्रोत्फुल्लनवमल्लिकम् ॥८७॥विकसन्मालतीजालं करवीरविराजितम् ॥प्रस्फुटत्केतकिवनं प्रोद्यत्कुरबकोर्जितम् ॥८८॥जृंभद्विचकिलामोदं लसत्कंकेलिपल्लवम्॥नवमल्लीपरिमलाकृष्टषट्पदनादितम् ॥८९॥पुष्प्यपुन्नागनिकरं बकुलामोदमोदितम् ॥मेदस्विपाटलामोद सदामोदित दिङ्मुखम् ॥९०॥बहुशोलंबिरोलंब मालामालितभूतलम् ॥चलच्चंदनशाखाग्र रममाणपि काकुलम् ॥९१॥गुरुणाऽगुरुणामत्त भद्रजातिविहंगमम् ॥नागकेसरशाखास्थ शालभंजि विनोदितम् ॥९२॥मेरुतुंग नमेरुस्थच्छायाक्रीडितकिंनरम् ॥किंनरीमिथुनोद्गीतं गानवच्छुककिंशुकम् ॥९३॥कदंबानां कदंबेषु गुंजद्रोलंबयुग्मकम् ॥जितसौवर्णवर्णोच्च कर्णिकारविराजितम् ॥९४॥शालतालतमालाली हिंताली लकुचावृतम् ॥लसत्सप्तच्छदामोदं खर्जूरीराजिराजितम् ॥नारिकेल तरुच्छन्न नारंगीरागरंजितम् ॥९५॥फलिजंबीरनिकरं मधूकमधुपाकुलम् ॥शाल्मली शीतलच्छायं पिचुमंद महावनम् ॥९६॥मधुरामोद दमनच्छन्नं मरुबनोदितम् ॥लवलीलोललीलाभृन्मंदमारुतलोलितम् ॥९७॥भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम् ॥क्वचित्सरः परिसरक्रीडत्क्रोडकदंबकम् ॥९८॥मरालीगलनालीस्थ बिसासक्तसितच्छदम् ॥विशोककोकमिथुनक्रीडाक्रेंकारसुंदरम् ॥९९॥बकशावकसंचारं लक्ष्मणासक्त सारसम् ॥मत्तबर्हिणसंघुष्टं कपिंजलकुलाकुलम् ॥१००॥जीवंजीवलसज्जीवं क्वणत्कारंडवोत्कटम् ॥दीर्घिकावारिसंचारि शीतमारुत वीजितम्॥ १॥मदांदोलितकह्लार परागपरिपिंगलम् ॥उल्लसत्पंकजमुखं नीलेंदीवरलोचनम् ॥२॥तमालकबरीभारं विलसद्दाडिमीरदम् ॥भ्रमरालीलसद्भ्रूकं शुकनासाविराजितम् ॥३॥महांधुश्रवणं दूर्वा श्मश्रुभिः परिशोभितम् ॥कमलामोदनिःश्वासं बिंबीफल रदच्छदम् ॥४॥सुपद्मपत्रवसनं कर्णिकारविभूषणम् ॥कम्रकंबु लसत्कंठं शंकरस्कंध बंधुरम् ॥५॥गंधसारसमासक्ता हीन दोर्दंडमंडितम् ॥अशोकपल्लवांगुष्ठं केतकीनखरोज्ज्वलम् ॥६॥लसत्कंठीरवोरस्कं गंडशैलपृथूदरम् ॥जलावर्तलसन्नाभि तरुजंघा युगान्वितम् ॥७॥स्थलभाक्पद्मचरणं मत्तमातंगगामिनम् ॥लसत्कदलिकेदारदलच्चीनांशुकावृतम् ॥८॥नानासुकुममालाभिर्मालितं च समंततः ॥अकंटकितरुच्छन्नं महिष श्वापदावृतम् ॥९॥चंद्रकांतशिलासुप्तकृष्णैणहरितोडुपम् ॥तरुप्रकीर्णकुसुम जितस्वर्लोकतारकम् ॥दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम् ॥११०॥॥ देवदेव उवाच ॥यथाप्रियतमा देवि मम त्वं सर्वसुंदरि ॥तथा प्रियतरं चैतन्मे सदानंदकाननम् ॥११॥अत्रानंदवने देवि मृतानां मदनुग्रहात् ॥वपुस्त्वमृततां प्राप्तमपुनर्भविनस्तु ते ॥१२॥भविनो ये विपद्यंते वाराणस्यां ममाज्ञया ॥तेषां बीजानि दग्धानि श्मशानज्वलदग्निना ॥१३॥महाश्मशाने ये प्राप्ता दीर्घनिद्रां गिरींद्रजे ॥न पुनर्गर्भशयने ते स्वपंति कदाचन ॥१४॥ब्रह्मज्ञानेन मुच्यंते नान्यथा जंतवः क्वचित् ॥ब्रह्मज्ञानमये क्षेत्रे प्रयागे वा तनुत्यजः ॥१५॥ब्रह्मज्ञानं तदेवाहं काशीसंस्थितिभागिनाम् ॥दिशामि तारकं प्रांते मुच्यंते ते तु तत्क्षणात् ॥१६॥गृह्णीयुः पापकर्माणि काशीमृतविनिंदकाः ॥सुकृतानि स्तुतिकृतो मुच्यंते तेऽत्र जंतवः ॥१७॥ब्रह्मज्ञानं कुतो देवि कलिनोपहतात्मनाम् ॥स्वभावचंचलाक्षाणां तद्ब्रह्मेह दिशाम्यहम् ॥१८॥योगिनो योगविभ्रष्टाः पतंत्यैश्वर्यमोहिताः ॥काश्यां पतित्वा न पुनः पतंत्यपि महालये ॥१९॥ब्रह्मज्ञानं न विंदंति योगैरेकेन जन्मना ॥जन्मनैकेन मुच्यंते काश्यामंतकृतो जनाः ॥१२०॥यथेह मुच्यते जंतुर्गिरिजे मदनुग्रहात् ॥अविमुक्ते महाक्षेत्रे न तथान्यत्र कुत्रचित् ॥२१॥बहुजन्मसमभ्यासाद्योगी मुच्येत वा न वा ॥मृतमात्रो विमुच्येत काश्यामेकेन जन्मना ॥२२॥न सिध्यति कलौ योगो न सिध्यति कलौ तपः ॥न्यायार्जितधनोत्सर्गः सद्यः सिध्येत्कलौ नरः ॥२३॥न व्रतं न तपो नेज्या न जपो न सुरार्चनम् ॥दानमेव कलौ मुक्त्यै काशीदानैरवाप्यते ॥२४॥कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी ॥कलौ भागीरथी गंगा कलौ दानं विशिष्यते ॥२५॥गंगोत्तरवहाकाश्यां लिंगं विश्वेश्वरं मम ॥उभे विमुक्तिदे पुंसां प्राप्ये दानबलात्कलौ ॥२६॥पुण्यवानितरो वापि मम क्षेत्रस्य सेवया ॥मुक्तो भवति देवेशि नात्र कार्या विचारणा ॥२७॥अविमुक्तस्य माहात्म्यात्पुण्यपापेन कर्मणा ॥देवि प्रभवतः पुंसामपिजन्मशतार्जिते ॥२८॥अविमुक्तं न मोक्तव्यं तस्माद्देवि मुमुक्षुणा ॥हन्यमानेन बहुधा ह्युपसर्गशतैरपि ॥२९॥विधाय क्षेत्रसंन्यासं ये वसंतीह मानवाः ॥जीवन्मुक्तास्तु ते देवि तेषां विघ्नं हराम्यहम् ॥१३०॥न योगिनां हृदाकाशे न कैलासे न मंदरे ॥तथा वासरतिर्मेऽस्ति यथा काश्यां रतिर्मम ॥३१॥काशीवासि जनो देवि मम गर्भे वसेत्सदा ॥अतस्तं मोचयाम्यंते प्रतिज्ञेयं यतो मम ॥३२॥तामसीं प्रकृतिं प्राप्य कालो भूत्वा चराचरम् ॥ग्रसामि लीलया देवि काशीं रक्षामि यत्नतः ॥३३॥प्रेमपात्रद्वयं देवि नितरां नेतरन्मम ॥त्वं वा तपोधने गौरि काशी वानंदभूमिका ॥३४॥विना काशी न मे स्थानं विना काशी न मे रतिः ॥विना काशी न निर्वाणं सत्यं सत्यं वदाम्यहम् ॥३५॥ब्रह्मांडगोलके यद्वन्मुक्तिः काश्यां व्यवस्थिता ॥अष्टांगयोगयुक्त्या वा न तथा हेलयाऽन्यतः ॥३६॥इति ब्रुवाणो देवेशो हरिकेशमवैक्षत ॥मध्ये वनं तपस्यंतमशोकतरुमूलगम् ॥३७॥शुष्कस्नायुपिनद्धास्थि संचयं निश्चलाकृतिम् ॥वल्मीककीटकाकोटिशोषितासृगसृग्धरम् ॥३८॥निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥शंखकुंदेंदुतुहिन महाशंखलसच्छ्रियम् ॥३९॥सत्वावलंबितप्राणमायुःशेषेणरक्षितम् ॥निःश्वासोच्छासपवनवृत्तिसूचितजीवितम् ॥१४०॥निमेषोन्मेषसंचार पिशुनीकृतजंतुकम् ॥पिंगतारस्फुरद्रश्मि नेत्रदीपित दिङ्मुखम् ॥४१॥तत्तपोग्निशिखादाव चुंबितम्लानकाननम्॥तत्सौम्यदृक्सुधावर्ष संसिक्ताऽखिलभूरुहम् ॥४२॥साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ॥निराकृतिं निराकांक्षं कृत्वा भक्तिं च कांचन ॥४३॥कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ॥नितांतभीषणास्यैश्च पंचास्यैः परिरक्षितम् ॥४४॥तं तथाभूतमालोक्य देवी देवं व्यजिज्ञपत् ॥वरेणच्छंदयेशामुं निजभक्तं तपस्विनम् ॥४५॥त्वदेकचित्तं त्वदधीनजीवितं त्वदेककर्माणममुं त्वदाश्रयम् ॥तीव्रैस्तपोभिः परिशुष्कविग्रहं कुरुष्व यक्षस्य वरैरनुग्रहम् ॥४६॥देवो वृषेंद्रादवरुह्य देव्या शैलादिना दत्तकरावलंबः ॥समाधिसंकोचितनेत्रपत्रं पस्पर्श हस्तेन दयार्द्रचेताः ॥४७॥ततः स यक्षो विनिमील्य चक्षुषी त्र्यक्षं पुरो वीक्ष्य समक्षमात्मनः ॥उद्यत्सहस्रांशु सहस्रतेजसं जगाद हर्षाकुल गद्गदाक्षरम् ॥४८॥जयेश शंभो गिरिजेश शंकर त्रिशूलपाणे शशिखंडशेखर ॥स्पर्शत्कृपालो तव पाणिपंकजं प्राप्यामृतीभूततनूलतोऽभवम् ॥४९॥श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु ॥भक्तस्य धीरस्य महातपोनिधे ददौ वराणां निकर तदा मुदा ॥१५०॥क्षेत्रस्य यक्षास्य मम प्रियस्य मे भवाधुना दंडधरो वरान्मम ॥स्थिरस्त्वमद्यादि दुरात्मदंडकः सुपालकः पुण्यकृतां च मत्प्रियः ॥५१॥त्वं दंडपाणिर्भव नामतोऽधुना सर्वान्गणाञ्छाधि ममाज्ञयोत्कटान् ॥गणाविमौ त्वामनुयायिनौ सदा नाम्ना यथार्थौ नृषु संभ्रमोद्भ्रमौ ॥५२॥त्वमंत्यभूषां कुरु काशिवासिनां गले सुनीलां भुजगेंद्र कंकणाम् ॥भालेसु नेत्रां करिकृत्तिवाससं वामेक्षणालक्षित वामभागाम् ॥५३॥मौलौ लसत्पिंगकपर्दभारिणी विभूतिसंक्षालित पुण्यविग्रहाम् ॥अहोहिमांशोः कलया लसच्छ्रियं वृषेंद्रलीला गतिमंदगामिनीम् ॥५४॥त्वमन्नदः काशिनिवासिनां सदा त्वं प्राणदो ज्ञानद एक एव हि ॥त्वं मोक्षदो मन्मुखसूपदेशतस्त्वं निश्चलां सद्वसतिं विधास्यसि ॥५५॥त्वं विघ्नपूगैः परिपीड्य पापिनः संभ्रातिमुत्पाद्य विनेष्यसे बहिः ॥आनीय भक्तान्क्षणतोपिदूरतो मुक्तिं परां दापयितासि पिंगल ॥५६॥त्वत्सात्कृते क्षेत्रवरे हि यक्षराट्कस्त्वामनाराध्य विमुक्तिभाजनम् ॥सभाजनं पूर्वत एव ते चरेत्ततः समर्चां मम भक्त आचरेत् ॥५७॥त्वं ग्रामवासप्रद एव मे पुरेऽध्यक्षस्त्वमेधीह च दंडनायकः ॥दुष्टान्समुद्घाटय काशिवैरिणः काशीं पुरीं रक्ष सदा मुदान्वितः ॥५८॥पूर्णभद्रसुतदंडनायक त्र्यक्षयक्षहरिकेश पिंगल ॥काशिवास वसतां सदान्नदज्ञानमोक्षदगणाग्रणीर्भव ॥५९॥मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत ॥गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दंडपाणे ॥१६०॥ज्ञानोदतीर्थे विहितोदकक्रियो यस्त्वां समाराधयिता गणेशम् ॥स एव लोके कृतकृत्यतामगान्ममातुलानुग्रहतोऽत्र पुण्यवान् ॥६१॥त्वं दक्षिणस्यां दिशि दंडपाणे सदैव मे नेत्रसमक्षमत्र ॥त्वं दंडयन्प्राणभृतो दुरीहानिहास्वनॄन्स्वानभयं दिशन्वै ॥६२॥॥ स्कंद उवाच ॥इति दत्त्वा वरान्विप्र गिरीशो दंडपाणये ॥वृषेंद्रमधिरुह्याथ विवेशानंदकाननम् ॥६३॥कुंभोद्भव तदारभ्य यक्षराड्दंडनायकः ॥पुरीं वाराणसीं सम्यगनुशास्ति निदेशतः ॥६४॥अहमप्यत्र वसतिं चक्रे तदनुसूयया ॥वसन्नपि मया काश्यां यतः संभावितो न सः ॥६९॥मुने क्षेत्रं यदत्याक्षीस्त्वमप्येवंविधो वशी ॥शंके तत्राहमेवाद्धा कामं तस्यैव विक्रियाम् ॥६६॥मनाग्विरुद्धाचरणं यदि द्विज विलक्षयेत् ॥हरिकेशस्तदा काश्यां क्व स्थितिः क्व च निर्वृतिः ॥६७॥दंडपाणिमनाराध्य कः काश्यां सुखमाप्नुयात् ॥प्रविविक्षुरहं काशीं दूरगोपि भजामि तम् ॥६८॥रत्नभद्रांगजोद्भूतं पूर्णभद्रसुतोत्तम ॥निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ॥६९॥धन्यो यक्षः पूर्णभद्रो धन्या कांचनकुंडला ॥ययोर्जठरपीठेभूर्दंडपाणे महामते ॥१७०॥जय यक्षपते धीर जय पिंगललोचन ॥जय पिंगजटाभार जय दंड महायुध ॥७१॥अविमुक्त महाक्षेत्र सूत्रधारोग्रतापस ॥दंडनायक भीमास्य जय विश्वेश्वरप्रिय ॥७२॥सौम्यानां सौम्यवदन भीषणानां भयानक ॥क्षेत्रपापधियां काल महाकालमहाप्रिय ॥७३॥जयप्राणद यक्षेंद्र काशीवासान्नमोक्षद ॥महारत्नस्फुरद्रश्मि चयचर्चित विग्रह ॥७४॥महासंभ्रातिजनक महोद्भ्रांति प्रदायक ॥अभक्तानां च भक्तानां संभ्रात्युद्भ्रांति नाशक ॥७५॥प्रांतनेपथ्यचतुर जयज्ञाननिधिप्रद ॥जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ॥७६॥यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ॥जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ॥७७॥दंडपाण्यष्टकं धीमाञ्जपन्विघ्नैर्न जातुचित् ॥श्रद्धया परिभूयेत काशीवासफलं लभेत ॥७८॥प्रादुर्भावं दंडपाणेः शृण्वन्तोत्रमिदं गृणन् ॥विपत्तिमन्यतः प्राप्य काशीं जन्मांतरे लभेत् ॥७९॥श्रुत्वाध्यायमिमं पुण्यं दंडपाणिसमुद्भवम् ॥पठित्वा पाठयित्वापि न र्विघ्रैरभिभूयतै ॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दंडपाणिप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : November 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP