काशीखण्डः - अध्याय ९४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
अन्यान्यपि च लिंगानि कथयामि महामुने ॥
अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम् ॥१॥
पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी ॥
ब्रह्मयज्ञरतो नित्यं नित्यं चातिथिदैवतः ॥२॥
लिंगपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही ॥
तस्यर्षेरभवत्पुत्रः सनारोरुपजंघनिः ॥३॥
स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना ॥
अथ तत्स वयोभिश्च स आनीतः स्वमाश्रमम् ॥४॥
सनारुणा समुच्छ्वस्य नीतः स उपजंघनिः ॥
महाश्मशानभूभागं स्वर्गद्वारसमीपतः ॥५॥
तत्रासीच्छ्रीफलाकारं लिंगमेकं सुगुप्तवत् ॥
निधाय तत्र तं यावच्छवं संचिंतयेत्सुधीः ॥६॥
सर्पदष्टस्य संस्कारः कथं भवति चेति वै ॥
तावत्स जीवन्नुत्तस्थौ सुप्तवच्चौपजंघनिः ॥७॥
अथ तं वीक्ष्य स मुनिः सनारुरुपजंघनिम् ॥
पुनः प्राणितसंपन्नं विस्मयं प्राप्तवान्परम् ॥८॥
प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजंघनेः ॥
क्षेत्राद्बहिरहिर्यं हि दष्टा नैषीत्परासु ताम् ॥९॥
इति यावत्स संधत्ते धियं तज्जीवितैकिकाम्॥
तावत्पिपीलिका त्वेका मृतं क्वापि पिपीलिकम् ॥१०॥
आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः ॥
अथ विज्ञाय स मुनिस्तत्त्वं जीवितसूचितम्॥ ११॥
मृदु हस्ततलेनैव यावत्खनति वै मुनिः ॥
तावच्छ्रीफलमात्रं हि लिंगं तेन समीक्षितम् ॥१२॥
सनारुणाथ तल्लिंगं तेन तत्र समर्चितम् ॥
चिरकालीन लिंगस्य कृतं नामापि सान्वयम् ॥१३॥
अमृतेश्वरनामेदं लिंगमानंदकानने ॥
एतल्लिंगस्य संस्पर्शादमृतत्वं लभेद्ध्रुवम् ॥१४॥
अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः॥
स्वास्पदं समनुप्राप्तो दृष्टआश्चर्यवज्जनैः ॥१५॥
तदाप्रभृति तल्लिंगममृतेशं मुनीश्वर ॥
काश्यां सिद्धिप्रदं नृणां कलौ गुप्तं भवेत्पुनः ॥१६॥
अमृतेश्वर संस्पर्शान्मृता जीवंति तत्क्षणात् ॥
अमृतत्वं भजंतेऽत्र जीवंतः स्पर्शमात्रतः ॥३७॥
अमृतेश समं लिंगं नास्ति क्वापि महीतले॥
तल्लिंगं शंभुना तिष्ये कृतं गुप्तं प्रयत्नतः ॥१८॥
अमृतेश्वर नामापि ये काश्यां परिगृह्णते ॥
न तेषामुपसर्गोत्थं भयं क्वापि भविष्यति॥१९॥
मुनेऽन्यच्च महालिंगं करुणेश्वरसंज्ञितम्॥
मोक्षद्वार समीपे तु मोक्षद्वारेश्वराग्रतः ॥२०॥
दर्शनात्तस्य लिंगस्य महाकारुणिकस्य वै ॥
न क्षेत्रान्निर्गमो जातु बहिर्भवति कस्यचित् ॥२१॥
स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः ॥
क्षेत्रोपसर्गजा भीतिर्हातव्या परया मुदा ॥२२॥
सोमवासरमासाद्य एकभक्तव्रतं चरेत् ॥
यष्टव्यः करुणापुष्पैर्व्रतिना करुणेश्वरः ॥२३॥
तेन व्रतेन संतुष्टः करुणेशः कदाचन ॥
न तं क्षेत्राद्बहिः कुर्यात्तस्मात्कार्यं व्रतं त्विदम् ॥२४॥
तत्पत्रैस्तत्फलैर्वापि संपूज्यः करुणेश्वरः ॥
यो न जानाति तल्लिंगं सम्यग्ज्ञानविवर्जितः ॥२५॥
तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति ॥
यो वर्षं सोमवारस्य व्रतं कुर्यादिति द्विजः ॥२६॥
प्रसन्नः करुणेशोत्र तस्य दास्यति वांछितम् ॥
द्रष्टव्यः करुणेशोत्र काश्यां यत्नेन मानवैः ॥२७॥
इति ते करुणेशस्य महिमोक्तो महत्तरः ॥
यं श्रुत्वा नोपसर्गोत्थं भयं काश्यां भविष्यति ॥२८॥
मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा ॥
उभौ काश्यां नरो दृष्ट्वा स्वर्गं मोक्षं च विंदति ॥२९॥
ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते ॥
तस्य संपूजनाद्भक्ता ज्योतीरूपा भवंति हि ॥३०॥
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम् ॥
समभ्यर्च्याप्नुयान्मर्त्यो ज्योतीरूपं न संशयः ॥३१॥
यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा ॥
तदारभ्यार्चयेन्नित्यं तल्लिंगं स्वर्धुनी मुदा ॥३२॥
पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि ॥
तत्राविरासीत्तेजस्वि तेन क्षेत्रमिदं शुभम् ॥३३॥
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा ॥
दूरस्थोपीह यो ध्यायेत्तस्य सिद्धिरदूरतः॥३४॥
एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम॥
लिंगाष्टकं महावीर्यं कर्मबीजदवानलम् ॥३५॥
ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश ॥
तथा दक्षेश्वरादीनि लिंगान्यष्टौ महांति च ॥३६॥
शैलैशादीनि लिंगानि तथा यानि चतुर्दश ॥
पुनः षट्त्रिंशदेतानि क्षेत्रसंसिद्धि हेतवे ॥३७॥
षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः ॥
अस्मिन्क्षेत्रे वसन्नित्यं तारकं ज्ञानमादिशेत् ॥३८॥
क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो ॥
एतेषां भजनात्पुंसां न भवेद्दुर्गतिः क्वचित् ॥३९॥
मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम्॥
एतल्लिंगप्रभावाच्च मुक्तिरत्र सुनिश्चिता ॥४०॥
मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते ॥
एतान्यन्यानि सिद्धानि संभवंति युगेयुगे ॥४१॥
आनंदकाननं शंभोः क्षेत्रमेतदनादिमत्॥
अत्र संस्थितिमापन्ना मुक्ता एव न संशयः ॥४२॥
योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि ॥
व्रतसिद्धिर्मंत्रसिद्धिस्तीर्थसिद्धिः सुनिश्चितम् ॥४३॥
सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम् ॥
तज्जन्मभूमिरेषैव शंभोरानंदवाटिका ॥४४॥
निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम् ॥
एतत्प्राप्य न मोक्तव्यं पुण्यैः संसारभीरुणा ॥४५॥
अयमेव महालाभ इदमेव परं तपः ॥
एतदेव महत्पुण्यं लब्धा वाराणसीह यत् ॥४६॥
अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति ॥
कर्मानुसारिणी लभ्या गतिः पश्चाच्छुभाशुभा ॥४७॥
मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम् ॥
अवश्यं काशिका सेव्या सर्वकर्मनिवारिणी ॥४८॥
मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम् ॥
न सेवंते पुरीं काशीं ते मुष्टा मंदबुद्धयः ॥४९॥
दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी ॥
उभयोः संगमासाद्य मुक्ता एव न संशयः ॥५०॥
क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः ॥
यादृग्भिः प्राप्यते मुक्तिः काश्यां मोक्षोत्तमोत्तमः ॥५१॥
सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः ॥
न काशी सदृशी मुक्त्यै भूमिरन्या महीतले॥ ५२॥
विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी ॥
आनंदकानने मुक्तिर्मुक्तिर्नान्यत्र कुत्रचित् ॥५३॥
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥
स एव काशीं प्रापय्य मुक्तिं यच्छति नान्यतः ॥५४॥
सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः ॥
सुलभा सापि नो नूनं काश्यां मोक्षोस्ति हेलया ॥५५॥
॥ स्कंद उवाच ॥
शृण्वगस्त्य महाभाग भविष्यं कथयाम्यहम् ॥
कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः ॥
निश्चिकेतुमनाः पश्चाद्यत्करिष्यति तच्छृणु ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽमृतेशादिलिंगप्रादुर्भावोनाम चतुर्नवतितमोऽध्यायः ॥९४॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP