संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ७२

काशीखण्डः - अध्याय ७२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन ॥
काः कास्तु शक्तयस्ता वै तासां नामानि मे वद ॥१॥
स्कंद उवाच ॥
तासां परमशक्तीनामुमावयवसंभुवाम् ॥
आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः ॥२॥
त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी ॥
त्रिपुरा त्रिजगन्माता भीमा त्रिपुरभैरवी ॥३॥
कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ॥
जया जयंती विजया जलेशी चापराजिता ।४॥
शंखिनी गजवक्त्रा च महिषघ्नी रणप्रिया ॥
शुभानंदा कोटराक्षी विद्युज्जिह्वा शिवारवा ॥५॥
त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमंगला ॥
हुंकारहेतिस्तालेशी सर्पास्या सर्वसुंदरी ॥६॥
सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना ॥
पाशपाणिः खरमुखी वज्रतारा षडानना ॥७॥
मयूरवदना काकी शुकी भासी गरुत्मती ॥
पद्मावती पद्मकेशी पद्मास्या पद्मवासिनी ॥८॥
अक्षरा त्र्यक्षरा तंतुः प्रणवेशी स्वरात्मिका ॥
त्रिवर्गा गर्वरहिता अजपा जपहारिणी ॥९॥
जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता ॥
मैत्रीकृन्मित्रनेत्रा च रक्षोघ्नी दैत्यतापनी ॥१०॥
स्तंभनी मोहनीमाया बहुमाया बलोत्कटा ॥
उच्चाटनी महोल्कास्या दनुजेंद्रक्षयंकरी ॥११॥
क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना ॥
शाकंभरी मोक्षलक्ष्मीस्त्रिवर्गफलदायिनी ॥१२॥
वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी ॥
ज्वालामुखी प्रभृतयो नवकोट्यौ महाबलाः ॥१३॥
बलानि बलिनां ताभिर्दानवानां स्वलीलया ॥
संक्षिप्ता निजगंतीव प्रलयानलहेतेभिः ॥१४॥
तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली ॥
चकार करकावृष्टिं वात्या वेगवतीं बहु ॥१५॥
ततो भगवती देवी शोषणास्त्र प्रयोगतः ॥
वृष्टिं निवारयामास सवर्षोपलमयी क्षणात् ॥१६॥
योषिन्मनोरथवती षंढं प्राप्य यथाऽफला ॥
सा दैत्यकरकावृष्टिर्देवीं प्राप्य तथाभवत् ॥१७॥
अथ दैतेयराजेन बाहुसंकर्षकोपतः ॥
उत्पाट्य शैलशिखरं परिक्षिप्तं नभोंगणात् ॥१८॥
अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा ॥
शतकोटिप्रहारेण कोटिशः सकलं व्यधात् ॥१९॥
आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम्॥
गजीभूयाशु दुद्राव तां देवीं समरेऽसुरः ॥२०॥
शैलाकारं तमायांतं दृष्ट्वा भगवती गजम् ॥
बद्ध्वा पाशेन जवतः खङ्गेन करमच्छिनत् ॥२१॥
ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी ॥
अकिंचित्करतां प्राप्य माहिषं वपुराददे ॥२२॥
अचलां सचलां सर्वां स चक्रे सुरघाततः ॥
शिलोच्चयांश्च बहुशः शृंगाभ्यां सोक्षिपद्बली ॥२३॥
निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः ॥
उद्वेलिताः समभवन्सप्तापि जलराशयः ॥५४॥
महामहिषरूपेण तेन त्रैलोक्यमंडपः ॥
आंदोलितोति बलिना युगांते वात्यया यथा ॥२५॥
ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम् ॥
दृष्ट्वा भगवती क्रुद्धा त्रिशूलेन जघान तम् ॥२६॥
त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः ॥
तं त्यक्त्वा माहिषं वेषमभूद्बाहुसहस्रभृत् ॥२७॥
स दुर्गो नितरां दुर्गो विबभौ समराजिरे॥
आयुधानां सहस्राणि बिभ्रत्कालांतकोपमः ॥२८॥
अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम् ॥
महाबलः प्रगृह्याशु नीतवानान्गगनांगणम् ॥२९॥
ततो नभोंगणाद्दूरात्क्षिप्त्वा स जगदंबिकाम् ॥
क्षणात्कलंबजालेन च्छादयामास वेगवान् ॥३०॥
अथांतरिक्षगा देवी तस्य मार्गणमध्यगा ॥
विद्युन्मालेव विबभौ महाभ्रपटलीधृता ॥३१॥
तं विधूय शरत्रातं निजेषु निकरैरलम् ॥
महेषुणाथ विव्याध सा तं दैत्यजनेश्वरम् ॥३२॥
हृदि विद्धस्तया देव्या स च तेन महेषुणा ॥
व्याघूर्णमाननयनः क्षितिमापाति विह्वलः ॥३३॥
महारुधिरधाराभिः स्रवंतीं च प्रवर्तयन् ॥
तस्मिन्निपतिते दुर्गे महादुर्गपराक्रमे॥३४॥
देवदुंदुभयो नेदुः प्रहृष्टानि जगंति च ॥
सूर्याचंद्रमसौ साग्नी तेजो निजमवापतुः ॥३५॥
पुष्पवृष्टिं प्रकुर्वंतः प्राप्ता देवा महर्षिभिः ॥
तुष्टुवुश्च महादेवीं महास्तुतिभिरादरात् ॥३६॥
देवा ऊचुः ॥
नमो देवि जगद्धात्रि जगत्रयमहारणे ॥
महेश्वर महाशक्ते दैत्यद्रुमकुठारके ॥३७॥
त्रैलोक्यव्यापिनि शिवे शंखचक्रगदाधरि ॥
स्वशार्ङ्गव्यग्रहस्ताग्रे नमो विष्णुस्वरूपिणि ॥३८॥
हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि॥
प्राचां वाचां जन्मभूमे चतुराननरूपिणि ॥३९॥
त्वमैंद्री त्वं च कौबेरी वायवी त्वं त्वमंबुपा ॥
त्वं यामी नैर्ऋती त्वं च त्वमैशी त्वं च पावकी ॥४०॥
शशांककौमुदी त्वं च सौरी शक्तिस्त्वमेव च ॥
सर्वदेवमयी शक्तिस्त्वमेव परमेश्वरी ॥४१॥
त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती ॥
प्रकृतिस्त्वं मतिस्त्वं च त्वमहंकृतिरूपिणी ॥४२॥
चेतः स्वरूपिणी त्वं वै त्वं सर्वेंद्रियरूपिणी ॥
पंचतन्मात्ररूपा त्वं महाभूतात्मिकेंबिके ॥४३॥
शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु ॥
ब्रह्मांडकर्त्री त्वं देवि ब्रह्मांडांतस्त्वमेव हि ॥४४॥
त्वं परासि महादेवि त्वं च देवि परापरा ॥
परापराणां परमा परमात्मस्वरूपिणी ॥४५॥
सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे ॥
त्वं चिच्छक्तिर्महामाये त्वं स्वाहा त्वं स्वधामृते ॥४६॥
वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका ॥
सर्वमंत्रमयी त्वं वै ब्रह्माद्यास्त्वत्समुद्भवाः ॥४७॥
चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये ॥
त्वत्तः सर्वमिदं विश्वं त्वयि सर्वं जगन्निधे ॥४८॥
यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः ॥
तत्र त्वं शक्तिरूपेण किंचिन्न त्वदृते क्वचित् ॥४९॥
मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् ॥
त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः ॥५०॥
लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः ॥
तेषां यशः प्रसरचंद्रकरावदातं विश्वं भवेद्भवसि येषु सुदृक्त्वमीशे ॥५१॥
त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु ॥
त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपत्नि ॥५२॥
चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्॥
मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोपि ते दृशिगतः कुगतिं न याति ॥५३॥
त्वच्छस्त्रवह्निशलभत्वमिता अपीह दैत्याः पतंगरुचिमाप्य दिवं व्रजंति ॥
संतः खलेष्वपि न दुष्टधियो यतः स्युः साधुष्विव प्रणयिनः स्वपथं दिशंति ॥५४॥
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि ॥
प्रत्यग्दिशि त्रिपुरतापन पत्नि रक्ष त्वं पाह्युदीचि निजभक्तजनान्महेशि ॥५५॥
ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः ॥
रुद्राग्नि नैर्ऋति सदागति दिक्षु पांतु मृत्युंजया त्रिनयना त्रिपुरा त्रिशक्त्यः ॥५६॥
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ॥
नेत्रे त्रिलोचनवधूर्गिरिजा च नासामोष्ठं जया च विजयात्वधरप्रदेशम् ॥५७॥
श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी ॥
पायात्सदैव चिबुकं जयमंगला नः कात्यायनी वदनमंडलमेव सर्वम् ॥५८॥
कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम् ॥
कौर्म्यं सदेशमनिशं भुजदंडमैंद्री पद्मा च पाणिफलकं नतिकारिणां नः ॥५९॥
हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी ॥
वक्षःस्थलं स्थलचरी हृदयं धरित्री कुशिद्वयं त्ववतु नः क्षणदाचरघ्नी ॥६०॥
अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम् ॥
पायात्कटिं च विकटा परमास्फिचौ नो गुह्यं गुहारणिरपानमपाय हंत्री ॥६१॥
ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ॥
पादौ रसातलचरांगुलिदेशमुग्रा चांद्री नखान्त्पदतलं तलवासिनी च ॥६२॥
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ॥
पातु पुत्रान्प्रियकरी पायादायुः सनातनी ॥६३॥
यशः पातु महादेवी धर्मं पातु धनुर्धरी ॥
कुलदेवी कुलं पातु सद्गतिं सद्गतिप्रदा ॥६४॥
रणे राजकुले द्यूते संग्रामे शत्रुसंकटे ॥
गृहे वने जलादौ च शर्वाणी सर्वतोऽवतु ॥६५॥
इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः ॥
सर्वे सवासवा देवाः सर्षिगंधर्वचारणाः ॥६६॥
ततस्तुष्टा जगन्माता तानाह सुरसत्तमान् ॥
स्वाधिकारान्सुराः सर्वे शासतु प्राग्यथायथा ॥६७॥
तुष्टाहमनया स्तुत्या नितरां तु यथार्थया ॥
वरमन्यं प्रदास्यामि तच्छृणुध्वं सुरोत्तमाः ॥६८॥
दुर्गोवाच ॥
यः स्तोष्यति तु मां भक्त्या नरः स्तुत्यानया शुचिः ॥
तस्याहं नाशयिष्यामि विपदं च पदे पदे ॥६९॥
एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः ॥
तस्य क्वचिद्भयं नास्ति वज्रपंजरगस्य हि ॥७०॥
अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ॥
दुर्गदैत्यस्य समरे पातनादति दुर्गमात् ॥७१॥
ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित् ॥
दुर्गास्तुतिरियं पुण्या वज्रपंजरसंज्ञिका ॥७२॥
अनया कवचं कृत्वा मा बिभेतु यमादपि ॥
भूतप्रेतपिशाचाश्च शाकिनीडाकिनी गणाः ॥७३॥
झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः ॥
वेतालाश्चापि कंकाल ग्रहा बालग्रहा अपि ॥७४॥
वातपित्तादि जनितास्तथा च विषमज्वराः ॥
दूरादेव पलायंते श्रुत्वा स्तुतिमिमां शुभाम् ॥७५॥
वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम् ॥
एतत्स्तोत्रकृतत्राणे वज्रादपि भयं नहि ॥७६॥
अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत् ॥
तस्योदरगतापीडा क्वापि नो संभविष्यति ॥७७॥
गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात् ॥
बालानां परमा शांतिरेतत्स्तोत्रांबुपानतः ॥७८॥
यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति ॥
एतास्तु शक्तयः सर्वा सर्वत्र सहिता मया ॥७९॥
रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया ॥
इति दत्त्वा वरान्देवी देवेभ्यो तर्हि ता तदा ॥८०॥
तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा ॥
स्कंद उवाच ॥
इत्थं दुर्गाभवन्नाम तया देव्या महामुने ॥
काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते ॥८१॥
अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ॥
संपूज्या सततं काश्यां दुर्गा दुर्गतिनाशिनी ॥८२॥
नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता ॥
नाशयिष्यति विघ्नौघान्सुमतिं च प्रदास्यति ॥८३॥
महापूजोपहारैश्च महाबलिनिवेदनैः ॥
दास्यत्यभीष्टदा सिद्धिं दुर्गा काश्यां न संशयः ॥८४॥
प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः ॥
शारदं नवरात्रं च सकुटुंबैः शुभार्थिभिः ॥८५॥
यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः ॥
काश्यां विघ्न सहस्राणि तस्य स्युश्च पदेपदे ॥८६॥
दुर्गाकुंडे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम् ॥
दुर्गां संपूज्य विधिवन्नवजन्माघमुत्सृजेत् ॥८७॥
सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः ॥
ताः प्रयत्नेन संपूज्या कालरात्रिमुखा नरैः ॥८८॥
रक्षंति क्षेत्रमेतद्वै तथान्या नवशक्तयः ॥
उपसर्गसहस्रेभ्यस्ता वैदिग्देवताक्रमात् ॥८९॥
शतनेत्रा सहस्रास्या तथायुतभुजापरा ॥
अश्वारूढा गजास्या च त्वरिता शववाहिनी ॥९०॥
विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः ॥
एता यत्नेन संपूज्याः क्षेत्ररक्षणदेवताः ॥९१॥
तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः ॥
रक्षंति सततं काशीं निर्वाणश्रीनिकेतनम् ॥९२॥
रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा ॥
उन्मत्तभैरवस्तद्वत्क्रमात्संहारभीषणौ ॥९३॥
चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः ॥
रुंडमुंडस्रजः सर्वे कर्त्रीखर्परपाणयः ॥९४॥
श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः ॥
नग्ना विमुक्तकेशाश्च प्रमत्ता रुधिरासवैः ॥९५॥
नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः ॥
तदाकारैश्च तद्भृत्यैः कोटिशः परिवारिताः ॥९६॥
विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः॥
उग्रो विकटदंष्ट्रश्च वक्रास्यो वक्रनासिकः ॥९७॥
जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः ॥
गर्तनेत्रो महानेत्रस्तुच्छनेत्रोंऽत्रमण्डनः ॥९८॥
ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः ॥
महानासो लंबकर्णः कर्णप्रावरणोनसः ॥९९॥
इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः ॥
त्रासयंतो दुराचारान्रक्षंति परितः सदा ॥१००॥
त्रैलोक्यविजयाद्याश्च ज्वालामुख्यंतगाश्च याः ॥
शक्तयोऽत्र मया ख्याता मुने कलशसंभव ॥१॥
ताः काशीं परिरक्षंति चतुर्दिक्षूद्यतायुधाः ॥
ताः समर्च्याः प्रयत्नेन महाविघ्न प्रशांतये ॥२॥
भैरवा रुरुमुख्याश्च महाभयनिवारकाः ॥
संपूज्याः सर्वदा काश्यां सर्वसंपत्तिहेतवः ॥३॥
विद्युज्जिह्वप्रभृतयो वेताला उग्ररूपिणः ॥
अत्युग्रानपि विघ्नौघान्हरिष्यंत्यर्चिता इह ॥४॥
तथा भूतावली चात्र नानाभीषणरूपिणी ॥
उदायुधाऽवति पुरीं शतकोटिमिता मुने ॥५॥
निर्वाणलक्ष्मीक्षेत्रस्य पालयित्री पदेपदे ॥
एता वै देवताः पूज्याः काश्यां निर्वाणकांक्षिभिः ॥६॥
श्रुत्वाध्यायमिमं पुण्यं नरो दुर्गजयाभिधम् ॥
नानाशक्तिसमायुक्तं दुर्गमाशु तरिष्यति ॥७॥
य एते भैरवाः प्रोक्ता ये वेताला उदाहृताः ॥
तेषां नामानि चाकर्ण्य नरो विप्रैर्न दूयते ॥८॥
अदृष्टा अपि ते भूता एतदाख्यानपाठकम् ॥
रक्षिष्यंति प्रयत्नेन सह श्रोतृजनेन च ॥९॥
तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ॥
श्रोतव्यमिदमाख्यानं महाविघ्ननिवारणम् ॥११०॥
गृहेपि यस्य लिखितमेतत्स्थास्यति पूजितम् ।
तस्यापदां सहस्राणि नाशयिष्यंति देवताः ॥११॥
काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम् ॥
श्रोतव्यमिदमाख्यानं वज्रपंजरसन्निभम् ॥११२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गाविजयो नाम द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP