संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय १६ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय १६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६ Translation - भाषांतर ॥ गणावूचतुः ॥शिवशर्मन्महाबुद्धे शुक्रलोकोयमद्भुतः ॥दानवानां च दैत्यानां गुरुरत्र वसेत्कविः ॥१॥पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥यः प्राप्तवान्महाविद्यां मृत्युसंजीविनीं हरात् ॥२॥इमां विद्यां न जानाति देवाचार्योति दुप्कराम् ॥ऋते मृत्युंजयात्स्कंदात्पार्वत्या गजवक्त्रतः ॥३॥शिवशर्मोवाच ॥कोसौ शुक्र इति ख्यातो यस्यायं लोक उत्तमः ॥कथं तेन च विद्याप्ता मृत्युसंजीवनी हरात् ॥४ ।आचक्षाथामिदं देवौ यदि प्रीतिर्मयि प्रभू ॥ततस्तौ स्माहतुर्देवौ शुक्रस्य परमां कथाम् ॥५॥यां श्रुत्वा चापमृत्युभ्यो हीयंते श्रद्धयायुताः ॥भूतप्रेतपिशाचेभ्यो न भयं चापि जायते ॥६॥आजौ प्रवर्तमानायामंधकांधकवैरिणोः ॥अनिर्भेद्य गिरिव्यूह वज्रव्यूहाधिनाथयोः ॥७॥अपसृत्य ततो युद्धादंधकः शुक्रसंनिधिम् ॥अधिगम्य बभाषेदमवरुह्य रथात्ततः ॥८॥भगवंस्त्वामुपाश्रित्य वयं देवांश्च सानुगान् ॥मन्यामहे तृणैस्तुल्यान्रुद्रोपेंद्रादिकानपि ॥९॥कुंजरा इव सिंहेभ्यो गरुडेभ्य इवोरगाः ॥अस्मत्तो बिभ्यति सुरा गुरो युष्मदनुग्रहात् ॥१०॥वज्रव्यूहमनिर्भेद्यं विविशुर्देत्यदानवाः ॥विधूय प्रमथानीकं ह्रदं तापार्दिता इव ॥११॥वयं त्वच्छरणं भूत्वा पर्वता इव निश्चलाः ॥स्थित्वा चराम निःशंका ब्राह्मणेंद्र महाहवे ॥१२॥आप्तभावेन च वयं पादौ तव सुखप्रदौ ॥सदाराः ससुताश्चैव शुश्रूषामो दिवानिशम् ॥१३॥अभिरक्षाभितो विप्र प्रसन्नः शरणागतान् ॥पश्य हुंडं तुहुंडं च कुजंभं जंभमेव च ॥१४॥पाकं कार्तस्वनं चैव विपाकं पाकहारिणम् ॥तं चन्द्रदमनं शूरं शूरामरविदारणम् ॥१५॥प्रमथैर्भीमविक्रांतैः क्रांतं मृत्युप्रमाथिभिः ॥सूदितान्पतितांश्चैव द्राविडैरिव चंदनान्॥ १६॥या पीत्वा कणधूमं वै सहस्रं शरदां पुरा ॥वरा विद्या त्वया प्राप्ता तस्याः कालोयमागतः ॥१७॥अथ विद्याफलं तत्ते दैत्यान्संजीवयिष्यतः ॥पश्यंतु प्रमथाः सर्वे त्वया संजीवितानिमान्॥१८॥इत्यंधकवचः श्रुत्वा स्थिरधीर्भार्गवोमुनिः ॥किंचित्स्मितं तदा कृत्वा दानवाधिपमब्रवीत् ॥१९॥दानवाधिपते सर्वं तथ्यं यद्भाषितं त्वया ॥विद्योपार्जनमेतद्धि दानवार्थं मया कृतम् ॥२०॥पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥एषा प्राप्तेश्वराद्विद्या बांधवानां सुखावहा ॥२१॥एतया विद्यया सोहं प्रमयैर्मथितान्रणे ॥उत्थापयिष्ये ग्लानानि धान्यन्यंबुधरो यथा ॥२२॥निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुनरुत्थितान्॥अस्मिन्मुहूर्ते द्रष्टासि दानवानुत्थितान्नृप ॥२३॥इत्युक्त्वा दानवपतिं विद्यामावर्तयत्कविः ॥एकैकं दैत्यमुद्दिश्य त उत्तस्थुर्धृतायुधाः ॥२४॥वेदा इव सदभ्यस्ताः समये वा यथांबुदाः ॥ब्राह्मणेभ्यो यथा दत्ताः श्रद्धयार्था महापदि ॥२५॥उज्जीवितांस्तु तान्दृष्ट्वा तुहुंडाद्यान्महासुरान् ॥विनेदुः पूर्वदेवास्ते जलपूर्णा इवांबुदाः ॥२६॥शुक्रेणोजीवितान्दृष्ट्वा दानवांस्तान्गणेश्वराः ॥विज्ञाप्यमेव देवेशे ह्येवं तेऽन्योन्यमब्रुवन् ॥२७॥आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ॥अमर्षितो भार्गवकर्मदृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम् ॥२८॥जयेति चोक्त्वा जय योनिमुग्रमुवाच नंदी कनकावदातम्॥गणेश्वराणां रणकर्म देव देवैश्च सेंद्रैरपि दुष्करं यत् ॥२९॥तद्भार्गवेणाद्य कृतं वृथा नः संजीव्य तानाजिमृतान्विपक्षान् ॥आवर्त्य विद्यां मृतजीवदात्रीमेकैकमुद्दिश्य सहेलमीश ॥३०॥तुहुंडहुंडादिकजंभजंभविपाकपाकादि महासुरेंद्राः ॥यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथाश्चरंति ॥३१॥यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनःपुनस्तान् ॥जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः ॥३२॥इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ॥उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम् ॥३३॥नंदिन्प्रयाहि त्वरितोतिमात्रं द्विजेंद्रवर्यं दितिनंदनानाम् ॥मध्यात्समुद्धृत्य तथानयाशु श्येनो यथा लावकमंडजातम् ॥३४॥स एव मुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ॥जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ॥३५॥तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः ॥विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नंदी शरभो यथेभम् ॥३६॥स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ॥विमोचयिष्यंत इवानुजग्मुः सुरारयः सिंहरवान्सृजंतः ॥३७॥दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपल कंपनानाम् ॥नंदीश्वरस्योपरि दानवेद्रा वर्षं ववर्षुर्जलदा इवोग्रम् ॥३८॥तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ॥आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिसैन्यः ॥३९॥अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ॥जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ॥४०॥न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवींद्रम् ॥हाहारवस्तैरसुरैः समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ॥४१॥काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशा रहिता बभूवुः ॥हस्तैर्विमुक्ता इव वारणेंद्राः शृंगैर्विहीना इव गोवृषाश्च ॥४२॥शरीर हीना इव जीवसंघा द्विजा यथा चाध्ययनेन हीनाः ॥निरुद्यमाः सत्त्वगुणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥४३॥पत्या विहीनाश्च यथैव योषा यथा विपक्षा इव मार्गणौघाः ॥आयूंषि हीनानि यथैव पुण्यैर्वृत्तेन हीनानि यथा श्रुतानि ॥४४॥विना यथा वैभवशक्तिमेकां भवंति हीनाः स्वफलैः क्रियौघाः ॥तथा विना तं द्विजवर्यमेकं दैत्या जयाशा विमुखा बभूवुः ॥४५॥नंदिनापहृते शुक्रे गिलिते च विषादिना ॥विषादमगमन्दैत्या हीयमानरणोत्सवाः ॥४६॥तान्वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ॥कविं विक्रम्य नयता नंदिना वंचिता वयम् ॥४७॥तनूर्विना हृताः प्राणाः सर्वेषामद्य तेन नः ॥धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः ॥४८॥युगपन्नो हृतं सर्वमेकस्मिन्भार्गवे हृते ॥धिगस्मान्कुलपूज्यो यैरेकोपि कुलसत्तमः ॥गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि ॥४९॥तद्धैर्यमवलंब्येह युध्यध्वमरिभिः सह ॥सूदयिष्याम्यहं सर्वान्प्रमथान्सह नंदिना ॥५०॥अद्यैतान्विवशान्हत्वा सह देवैः सवासवैः ॥भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥५१॥स चापि योगी योगेन यदि नाम स्वयं प्रभुः ॥शरीरात्तस्य निर्गच्छेदस्माकं रोषपालिता ॥५२॥इत्यंधकवचः श्रुत्वा दानवा मेघनिःस्वनाः ॥प्रमथा नर्दयामासुर्मर्तव्ये कृत निश्चयाः ॥५३॥सत्यायुपि न नो जातु शक्ताः स्युः प्रमथाबलात् ॥असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥५४॥ ये स्वामिनं विहायाजौ बहुमानधना जनाः ॥यांति ते यांति नियतमंधतामिस्रमालयम् ॥५५॥अयशस्तमसा ख्यातिं मलिनीकृत्यभूरिशः ॥इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरात् ॥५६॥किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः ॥धरातीर्थे यदि स्नातं पुनर्भव मलापहे ॥५७॥संप्रधार्येति तेऽन्योन्यं दैत्यास्ते दनुजास्तथा ॥ममंथुः प्रमथानाजौ रणभेरीर्निनाद्य च ॥५८॥तत्र वाणासिवज्रौघैः कटंकटशिलामयैः ॥भुशुंडीभिंदिपालैश्च शक्तिभल्ल परश्वधैः ॥५९॥खट्वांगैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् ॥परस्परमभिघ्नंतः प्रचक्रुः कदनं महत् ॥६०॥कार्मुकाणां विकृष्टानां पततां च पतत्रिणाम् ॥भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ॥६१॥रणतूर्यनिनादैश्च गजानां बहुबृंहितैः ॥हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ॥६२॥प्रतिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ॥अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥६३॥गजवाजिमहाराव स्फुटच्छब्दग्रहाणि च ॥भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥६४॥रुधिरोद्गार चित्राणि व्यश्वहस्तिरथानि च ॥पिपासितानि सैन्यानि मुमूर्छुरुभयत्र वै ॥६५॥दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः ॥दुद्राव रथमास्थाय स्वयमेवांधको गणान् ॥६६॥शरवज्रप्रहारैस्तैर्वज्राघातैर्नगा इव ॥प्रमथानेशिरे वातैर्निस्तोया इव तोयदाः ॥६७॥यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ॥प्रत्येकं रोमसंख्याभिर्व्यधाद्बाणैस्तदांधकः ॥६८॥विनायकेन स्कंदेन नंदिना सोमनंदिना ॥नैगमेयेन शाखेन विशाखेन बलीयसा ॥६९॥इत्याद्यैस्तु गणैरुग्रैरंधकोप्यंधकीकृतः ॥त्रिशूल शक्तिबाणौघ धारासंपातपातिभिः ॥७०॥ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ॥तेन शब्देन महता शुक्रः शंभूदरे स्थितः ॥७१॥छिद्रान्वेषी भ्रमन्सोथ विनिःकेतो यथानिलः ॥सप्तलोकान् सपालान्स रुद्रदेहे व्यलोकयत् ॥७२॥ब्रह्मनारायणेंद्राणामादित्याप्यरसां तथा ॥भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥७३॥सवर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ॥न तस्य ददृशे रंध्रं शुचे रंध्रं खलो यथा ॥७४॥शांभवेनाथयोगेन शुक्ररूपेण भार्गवः ॥चस्कंदाथ ननामापि ततो देवेन भाषितः ॥७५॥शुक्रवन्निःसृतोयस्मात्तस्मात्त्वं भृगुनंदन ॥कर्मणानेन शुक्रस्त्वं मम पुत्रोसि गम्यताम् ॥७६॥जठरान्निर्गते शुक्रे देवोपि मुमुदेतराम् ॥भ्रमञ्छ्रेयोभवद्यन्मे न मृतो जठरे द्विजः ॥७७॥इत्येवमुक्तो देवेन शुक्रोर्कसदृश द्युतिः ॥विवेश दानवानीकं मेघमालां यथा शशी ॥७८॥शुक्रोदयान्मुदं लेभे स दानव महार्णवः ॥यथा चंद्रोदये हर्षमूर्मिमाली महोदधिः ॥७९॥अंधकांधकहंत्रोर्वै वर्तमाने महाहवे ॥इत्थं नाम्नाभवच्छुक्रः स वै भार्गवनंदनः ॥८०॥यथा च विद्यां तां प्राप मृतसंजीवनीं पराम् ॥शंभोरनुग्रहात्काव्यस्तन्निशामय सुव्रत ॥८१॥॥ गणावूचतुः ॥पुराऽसौ भृगुदायादो गत्वा वाराणसीं पुरीम् ॥अंडजस्वेदजोद्भिज्जजरायुज गतिप्रदाम् ॥८२॥संस्थाप्य लिंगं श्रीशंभोः कूपं कृत्वा तदग्रतः ॥बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम् ॥८३॥राजचंपकधत्तूर करवीरकुशेशयैः ॥मालती कर्णिकारैश्च कदंबैर्बकुलोत्पलैः ॥८४॥मल्लिकाशतपत्रीभिः सिंदुवारैः सकिंशुकैः ॥अशोकैः करुणैः पुष्पैः पुन्नागैर्नागकेसरैः ॥८५॥क्षुद्राभिर्माधवीभिश्च पाटला बिल्वचंपकैः ॥नवमल्लीविचिकिलैः कुंदैः समुचुकुंदकैः ॥८६॥मंदारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बकैः ॥ग्रंथिपर्णैर्दमनकैः सुरभूचूतपल्लवैः ॥८७॥तुलसी देवगंधारी बृहत्पत्री कुशांकुरैः ॥नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ॥८८॥कांचनारैः कुरबकैर्दूर्वांकुर कुरंटकैः ॥प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ॥८९॥पत्रैः शतसहस्रैश्च स समानर्च शंकरम्॥पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ॥९०॥स्नपयामास देवेशं सुगंधस्नपनैर्बहु ॥सहस्रकृत्वो देवेशं चंदनैर्यक्षकर्दमैः ॥९१॥समालिलिंप देवेशं सुगंधोद्वर्तनान्यनु ॥गीतनृत्योपहारैश्च श्रुत्युक्तस्तुतिभिर्बहुः ॥९२॥नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ॥सहस्रं पंचशरदामित्थं शुक्रः समर्चयन् ॥९३॥यदा देवं नालुलोके मनागपि वरोन्मुखम्॥तदान्यं नियमं घोरं जग्राहातीवदुःसहम् ॥९४॥प्रक्षाल्य चेतसो त्यंतं चांचल्याख्यं महामलम् ॥भावनावार्भि रसकृदिंद्रियैः सहितस्य च ॥९५॥निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ॥प्रपपौ कणधूमौघं सहस्रं शरदां कविः ॥९६॥प्रससाद तदा देवो भार्गवाय महात्मने ॥तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ॥९७॥उवाच च विरूपाक्षः साक्षाद्दाक्षायणीपतिः ॥तपोनिधे प्रसन्नोस्मि वरं वरय भार्गव ॥९८॥निशम्येति वचः शंभोरंभोजनयनो द्विजः ॥उद्यदानंदसंदोह रोमांचांचित विग्रहः ॥९९॥तुष्टावाष्टतनुं तुष्टः प्रफु ल्ल नयनांचलः ॥मौलावंजलिमाधाय वदञ्जयजयेति च ॥१००॥भार्गव उवाच ॥त्वं भाभिराभिरभिभूय तमः समस्तमस्तं नयस्यभिमतानि निशाचराणाम् ॥देदीप्यसे मणेगगनेहिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥१०१॥लोकेतिवेलमतिवेलमहामहोभिर्निर्मासि कौमुदमुदं च समुत्समुद्रम् ॥विद्राविताखिलतमाः सुतमोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥२॥त्वं पावने पथि सदागतिरस्युपास्यः कस्त्वां विना भुवनजीवनजीवतीह ॥स्तब्धप्रभंजन विवर्धित सर्वजंतोसंतोषिताहि कुलसर्वगतन्नमस्ते ॥३॥विश्वैकपावकनतावकपावकैक शक्तेर्ऋतेऽमृतवतामृतदिव्यकार्यम् ॥प्राणित्यदो जगदहो जगदंतरात्मंस्तत्पावक प्रतिपदं शमदं नमस्ते ॥४॥पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्र करोषि नूनम् ॥विश्वपवित्रममलं किल विश्वनाथ पानावगाहनत एतदतो नतोस्मि ॥५॥आकाशरूप बहिरंतरुतावकाश दानाद्विकस्वरमिहेश्वर विश्वमैतत् ॥त्वत्तः सदा सदयसंश्वसिति स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥६॥विश्वंभरात्मक बिभर्ति विभोऽत्रविश्वं को विश्वनाथ भवतोन्य तमस्तमोरे ॥तत्त्वां विना न शमिनां हिमजाहिभूषस्तव्योऽपरः परपरप्रणतस्ततस्त्वाम् ॥७॥आत्मस्वरूप तव रूप परंपराभिराभिस्ततं हर चराचर रूपमेतत् ॥सर्वांतरात्मनिलयप्रतिरूपरूपनित्यंनतोस्मि परमात्मतनोऽष्टमूर्ते ॥८॥इत्यष्टमूर्तिभि रिमाभिरुमाभिवंद्यवंद्यातिवंद्य भव विश्वजनीनमूर्ते ॥एतत्ततं सुविततं प्रणतप्रणीत सर्वाथर्सार्थपरमार्थ ततो नतोस्मि ॥९॥अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः ॥भर्गभूमिमिलन्मौलिः प्रणनाम पुनःपुनः ॥११०॥इति स्तुतो महादेवो भार्गवेणातितेजसा ॥उत्थाप्य भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम् ॥११॥उवाच दशनज्योत्स्ना प्रद्योतित दिगंतरः ॥अनेनात्युग्रतपसा ह्यनन्याचरितेन च ॥१२॥लिंगस्थापनपुण्येन लिंगस्याराधनेन च ॥चित्तरत्नोपहारेण शुचिना निश्चलेन च ॥१३॥अविमुक्त महाक्षेत्रे पवित्राचरणेन च ॥त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन ॥१४॥अनेनैव शरीरेण ममोदरदरीं गतः ॥मद्वरेंद्रियमार्गेण पुत्र जन्मत्वमेष्यसि ॥।५॥अन्यं वरं प्रयच्छामि दुष्प्रापं पार्षदैरपि ॥हरौ हिरण्यगर्भेपि प्रायशोऽहं जुगोपयाम् ॥१६॥मृतसंजीवनी नाम विद्या या मम निर्मला ॥तपोबलेन महता मयैव परिनिर्मिता ॥१७॥त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे ॥योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे ॥१८॥यंयमुद्दिश्यनियतमेतामावर्तयिष्यसि ॥विद्यां विद्येश्वरश्रेष्ठ स स प्राणिष्यति धुवम् ॥१९॥अत्यर्कमत्यग्निं(?) च ते तेजो व्योम्न्यतितारकम् ॥देदीप्यमानं भविता ग्रहाणां प्रवरो भव ॥१२०॥अभि त्वां ये करिष्यंति यात्रां नार्यो नरोपि वा ॥तेषां त्वदृष्टिपातेन सर्वं कार्यं प्रणंक्ष्यति ॥२१॥तवोदये भविष्यंति विवाहादीनि सुव्रत ॥सर्वाणि धर्मकार्याणि फलवंति नृणामिह ॥२२॥सर्वाश्च तिथयो मंदास्तव संयोगतः शुभाः ॥तव भक्ता भविष्यंति बहुशुक्रा बहुप्रजाः ॥२३॥त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ॥येऽर्चयिष्यंति मनुजास्तेषां सिद्धिर्भविष्यति ॥२४॥आवर्षं प्रतिशुक्रं ये नक्तव्रतपरा नराः ॥त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ॥२५॥शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ॥अवंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः ॥२६॥पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ॥व्यपेतविघ्नास्ते सर्वे जनाः स्युः सुखवासिनः ॥इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ॥२७॥गणावूचतुः ॥शुक्रेश्वरस्य ये भक्ताः शुक्रलोके वसंति ते ॥विश्वेश्वराद्दक्षिणतः शुक्रेशोस्ति परंतप ॥२८॥तस्य दर्शनमात्रेण शुक्रलोके महीयते ॥इत्येषा शुक्रलोकस्य स्थितिरुक्ता महामते ॥२९॥अगस्त्य उवाच ॥इत्थं सधर्मिणि कथां शुक्रलोकस्य सुव्रते ॥शृण्वन्नांगारकं लोकमालुलोकेऽथ स द्विजः ॥१३०॥इति श्रीस्कांदे महापुराणे चतुर्थे काशीखंडे पूर्वार्धे शुक्रलोकवर्णनं नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : November 24, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP