संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय २ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर व्यास उवाच ॥सूर्य आत्मास्य जगतस्तस्थुषस्तमसोरिपुः ॥उदियायोदयगिरौ शुचिप्रसृमरैः करैः ॥१॥संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम् ॥पद्मिनीं बोधयंस्त्विष्टां रात्रौ मुकुलिताननाम् ॥२॥हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन् ॥प्राह्णापराह्णमध्याह्न क्रियाकालं विजृंभयन् ॥३॥असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम् ॥यामिनीकालकलितं जगदुज्जीवयन्पुनः ॥४॥यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः ॥अहो परोपकरणं सद्यः फलति नेति चेत् ॥५॥सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः ॥सानुरागकरस्पर्शैः प्राचीमाश्वास्य खंडिताम् ॥६॥यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव ॥लवंगैलामृगमदचंद्रचंदनचर्चिताम ॥७॥तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम् ॥लवलीवल्लिदोर्वल्ली कंको ली पल्लवांगुलिम् ॥८॥मलयानिल निःश्वासां क्षीरोदकवरांबराम् ॥त्रिकूटस्वर्णरत्नांगीं सुवेलाद्रि नितंबिनीम ॥९॥कावेरीगौतमीजंघां चोलचोलां शुकावृताम् ॥सह्यदर्दुरवक्षोजां कांतीकांचीविभूषणाम ॥१०॥सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम् ॥अद्यापि न महालक्ष्मीर्या विमुंचति सद्गुणाम् ॥११॥सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान् ॥क्रमतः सर्वमर्वन्तो हेलया हेलिकस्य खम् ॥१२॥न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत् ॥१३॥अनूरुरुवाच ॥भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः ॥स्पर्धते मेरुणाप्रेप्सु स्त्वद्दत्तां तु प्रदक्षिणाम् ॥१४॥अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत् ॥अहो गगनमार्गोपि रुध्यते चातिविस्मयः ॥१५॥व्यास उवाच ॥सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः ॥त्वरावानपि को रुद्धं मागर्मेको विलंघयेत् ॥१६॥गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति ॥शून्यमार्गे निरुद्धः स किंकरोतु विधिर्बली ॥१७॥योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ॥योजनस्य निमेषार्धाद्याति सोपि चिरं स्थितः ॥१८॥गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः ॥चण्डरश्मेः करव्रातपातसन्तापतापिताः ॥१९॥पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः ॥शयिता एव वीक्षन्ते सतारग्रहमंबरम् ॥२०॥अहोनाहस्कराभावान्निशानैवाऽनिशाकरात्॥अस्तंगतर्क्षान्नभसः कः कालस्त्वेप नेक्ष्यते ॥२१॥ब्रह्मांडं किमकांडे वै लयमेष्यति तत्कथम् ॥परापतंति नाद्यापि पारावारा इतस्ततः ॥२२॥स्वाहास्वधावषट्कारवर्जिते जगतीतले ॥पंचयज्ञक्रियालोपाच्चकंपे भुवनत्रयम् ॥२३॥सूर्योदयात्प्रवर्तंते यज्ञाद्याः सकलाः क्रियाः ॥ताभिर्यज्ञभुजांतृप्तिः सविता तत्र कारणम् ॥२४॥चित्रगुप्तादयः सर्वे कालं जानंति सूर्यतः ॥स्थितिसर्गविसर्गाणां कारणं केवलं रविः ॥२५॥तत्सूर्यस्य गतिस्तंभात्स्तंभितं भुवनत्रयम् ॥यद्यत्रतत्स्थितं तत्र चित्रन्यस्तमिवा खिलम् ॥२६॥एकतस्तिमिरान्नैशादेकतस्तु दिवातपात् ॥बहूनां प्रलयो जातः कांदिशीकमभूज्जगत् ॥२७॥इति व्याकुलिते लोके सुरासुरनरोरगे ॥आःकिमेतदकांडेभूद्रुरुदुर्दुद्रुवुः प्रजाः ॥२८॥ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः ॥स्तुवंतो विविधैः स्तोत्रै रक्षरक्षेति चाब्रुवन् ॥२९॥॥ देवा ऊचुः॥नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे ॥अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥३०॥यन्न देवा विजानंति मनो यत्रापि कुंठितम्॥न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ॥३१॥योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ॥ज्योतीरूपं प्रपश्यंति तस्मै श्रीब्रह्मणे नमः ॥३२॥कालात्पराय कालाय स्वेच्छयापुरुषाय च ॥गुणत्रय स्वरूपाय नमः प्रकृतिरूपिणे ॥३३॥विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥तमसे रुद्ररूपाय स्थितिसर्गांतकारिणे ॥३४॥नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः ॥पंचतन्मात्र रूपाय पंचकर्मेद्रियात्मने ॥३५॥नमो मनःस्वरूपाय पंचबुद्धींद्रियात्मने ॥क्षित्यादि पंचरूपाय नमस्ते विषयात्मने ॥३५॥नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ॥अर्वाचीनपराची न विश्वरूपाय ते नमः ॥३७॥अनित्यनित्यरूपाय सदसत्पतये नमः ॥समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥३६॥तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत् ॥विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत ॥३९॥नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ॥चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ॥४०॥त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव ॥ईश त्वयाऽवास्यमिदं हि सर्वं नमोस्तु भूयोपि नमो नमस्ते ॥४१॥इति स्तुत्वा विधिं देवा निपेतुर्दंडवत्क्षितौ ॥परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥४२॥॥ ब्रह्मोवाच ॥यथार्थयाऽनया स्तुत्या तुष्टोस्मि प्रणताः सुराः ॥उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम् ॥४३॥यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः ॥मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम् ॥४४॥दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु ॥सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥४५॥ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम् ॥यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥४६॥तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ॥अभीष्टद इति ख्यातः स्तवोयं सर्वसिद्धिदः ॥४७॥पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान् ॥स्वस्थास्तिष्ठत भो यूयं किमत्रापि समाकुलाः ॥४८॥एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः ॥सदक्षिणा अमी यज्ञाः सत्यं धर्मस्तपो दमः ॥४९॥ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् ॥श्रुतिस्मृतीतिहासार्थ चरितार्था अमीजनाः ॥५०॥नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम् ॥हिंसा कुटिलता गर्वो निंदासूयाऽशुचिः क्वचित् ॥५१॥ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः ॥मासोपवासषण्मासचातुर्मास्यादि सद्व्रताः ॥५२॥पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः ॥ते चामीपश्यत सुरा ये षंढाः परयोषिति ॥५३॥मातापित्रोरमी भक्ता अमी गोग्रहणे हताः ॥व्रते दाने जपे यज्ञे स्वाध्याये द्विजतर्पणे ॥५४॥तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि ॥फलाभिलाषिणीबुद्धिर्न येषां ते जना अमी ॥५५॥गायत्री जाप्यनिरता अग्निहोत्र परायणाः ॥द्विमुखी गो प्रदातारः कपिलादान तत्पराः ॥५६॥निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये ॥मृताः सारस्वते तीर्थे द्विजशुश्रूषकाश्च ये ॥५७॥प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः ॥त एते मत्प्रिया विप्रास्त्यक्ततीर्थ प्रतिग्रहाः ॥५८॥प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः ॥मकरस्थे रवौ शुद्धास्त इमे सूर्यवर्चसः ॥५९॥वाराणस्यां पांचनदे त्र्यहं स्नातास्तु कार्तिके ॥अमी ते शुद्धवपुषः पुण्यभाजोतिनिर्मलाः ॥६०॥स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः ॥त एते सर्वभोगाढ्याः कल्पं स्थास्यंति मत्पुरे ॥६१॥ततः काशीं समासाद्य तेन पुण्येन नोदिताः ॥विश्वेश्वरप्रसादेन मोक्षमेष्यंत्यसंशयम् ॥६२॥अविमुक्ते कृतं कर्म यदल्पमपि मानवैः ॥श्रेयोरूपं तद्विपाको मोक्षो जन्मांतरेष्वपि ॥६३॥अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम् ॥यत्र सर्वे प्रतीक्षंते मृत्युं प्रियमिवाति थिम् ॥६४॥ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम् ॥निर्मलांगास्त एते वै तिष्ठंति मम संनिधा ॥६५॥पितामहं समासाद्य गयायां यैः पितामहाः ॥तर्पिता ब्राह्मणमुखे तेषामेते पितामहाः ॥६६॥न स्नानेन न दानेन न जपेन न पूजया ॥मल्लोकः प्राप्यते देवाः प्राप्यते द्विज तर्पणात् ॥६७॥सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः ॥यैर्दत्तानि सशय्यानि तेषां हर्म्याण्यमूनि वै ॥६८॥ब्रह्मशालां कारयंति वेदमध्यापयंति च ॥विद्यादानं च ये कुर्युः पुराणं श्रावयंति च ॥६९॥पुराणानि च ये दद्युः पुस्तकानि ददत्यपि ॥धर्मशास्त्राणि ये दद्युस्तेषां वासोत्र मे पुरे ॥७०॥यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै ॥अखंडं वसु ये दद्युस्तेत्र स्युर्वसुवर्चसः ॥७१॥आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः ॥आकल्पमत्र वसति सर्वभोग समन्वितः ॥७२॥मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः ॥ममावरोधे ते मान्या औरसास्तनया इव ॥७३॥विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः ॥तेषां मूर्त्या वयं साक्षाद्विचरामो महीतले ॥७४॥ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ॥एकत्र मंत्रास्तिष्ठंति हविरेकत्र तिष्ठति ॥७५॥ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम् ॥येषां वाक्योदकेनैव शुद्ध्यंति मलिना जनाः ॥७६॥गावः पवित्रमतुलं गावो मंगलमुत्तमम् ॥यासां खुरोत्थितो रेणुर्गंगावारिसमो भवेत् ॥७७॥शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः ॥शृंगयोरंतरे यस्याः साक्षाद्गौरीमहेश्वरी ॥७८॥दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः ॥प्रीयंते ऋषयः सर्वे तुष्यामो दैवतैः सह ॥७९॥रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह ॥धात्र्यः सर्वस्य लोकस्य गावो मातेव सर्वथा ॥८०॥गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम्॥प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥८१॥या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता ॥धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥८२॥विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः ॥स्वधा या पितृमुख्यानां सा धेनुर्वरदा सदा ॥८३॥गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा ॥गंगा क्षीरं तु यासां वै किं पवित्रमतः परम् ॥८४॥गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ॥यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥८५॥इति मंत्रं समुच्चार्य धेनूर्वाधेनुमेव वा ॥यो दद्याद्द्विजवर्याय स सर्वेभ्यो विशिष्यते ॥८६॥मया च विष्णुना सार्धं शिवेन च महर्षिभिः ।विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते ॥८७॥गावो मे पुरतः संतु गावो मे संतु पृष्ठतः ॥गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ॥८८॥नीराजयति योंगानि गवां पुच्छेन भाग्यवान् ॥अलक्ष्मीः कलहो रोगास्तस्यांगाद्यांति दूरतः ॥८९॥गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः॥अलुब्धैर्दा नशीलैश्च सप्तभिर्धार्यते मही ॥९०।मम लोकात्परोलोको वैकुंठ इति गीयते॥तस्योपरिष्टात्कौमार उमालोकस्ततः परम् ॥९१॥शिवलोकस्तदुपरि गोलो कस्तत्समीपतः ॥गोमातरः सुशीलाद्यास्तत्र संति शिवप्रियाः ॥९२॥गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः ॥एषामन्यतमे लोके ते स्युः सर्वसमृद्धयः ॥९३॥यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः ॥न जरा बाधते यत्र तत्र गच्छंति गोप्रदाः ॥९४॥श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः॥तदुक्ताचारचरणा इतरे नामधारकाः ॥९५॥श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् ॥श्रुतिस्मृतिभ्यां हीनोंधः काणः स्यादेकया विना॥पुराणहीनाद्धृच्छून्यात्काणांधावपि तौ वरौ ॥श्रुतिस्मृत्युदितोधर्मः पुराणे परिगीयते ॥९७॥तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता ॥न देया द्विजमात्राय दातारं सोप्यधो नयेत् ॥९८॥यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत्॥श्रोतव्यानि पुराणानि धमर्मूलानि तेन वै ॥९९॥चतुर्दशसु विद्यासु पुराणं दीप उत्तमः॥अंधोपि न तदा लोकात्संसाराब्धौ क्वचित्पतेत् ॥१००॥श्रोतव्यानि पुराणानि वस्तव्यं जाह्नवी तटे ॥तर्पणीया द्विजा नित्यं ममलोकेप्सुभिः सदा ॥१॥इत्युद्देशान्मयाख्याता सत्यलोकव्यवस्थितिः ॥अभयं यद्भयार्तानां न भेतव्यं च हे सुराः ॥२॥स्पर्धते मेरुणा विंध्यो ब्रध्नाध्व परिरोधकृत ॥तदर्थमागता यूयं तदुपायं दिशामि वः॥३॥अस्त्यगस्त्यस्तप्यमानस्तप उग्रं महातपाः ॥मैत्रावरुणिराधाय चित्तं विश्वेश्वरे विभौ ॥४॥अविमुक्तमहाक्षेत्रे सर्वेषां मुक्तिहेतुके ॥तारकस्योपदेशार्थं विश्वेशाऽधिष्ठिते स्वयम् ॥५॥याचध्वं तत्र गत्वा तं स वः कार्यं विधास्यति ॥तेनैकदाविता लोका वातापील्वलभक्षणात् ॥६॥अतिमित्रं तत्र तेजो मित्रावरुणजे मुनौ॥तदाप्रभृति लोकेषु कोगस्त्यान्नैव बिभ्यति ॥७॥इत्युक्त्वांतर्दधे वेधास्तेपि प्रमुदिताननाः ॥देवाः परस्परं प्रोचुरहोधन्य तमा वयम् ॥८॥प्रसंगतोपि द्रष्टव्यौ काशीकाशीपती शिवौ॥।अहो अहोभिर्बहुभिः फलितो नो मनोरथः ॥९॥उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः॥तावेव चरणौ धन्यौ काशीमभिप्रयायिनौ ॥११०॥येयं कथा श्रुतास्माभिर्वेधसा समुदीरिता ॥तस्याः श्रवणजात्पुण्यात्प्राप्नुमस्त्वद्य काशिकाम्॥ ११॥एका क्रिया द्व्यर्थकरी प्राप्यते पुण्यगौरवात् ॥एवं वदंतो हृष्टास्याः सुराः काशीं समाययुः ॥१२॥व्यास उवाच ॥इदं पुण्यतमाख्यानं ये श्रोष्यंतीह मानवाः ॥विधूय सर्वपापानि पुत्रदारसमन्विताः ॥१३॥इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च ॥सत्यलोके चिरं स्थित्वा ततो यास्यंति शाश्वतम् ॥११४॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे सत्यलोकवर्णनंनाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : November 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP