काशीखण्डः - अध्याय ८६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पार्वत्युवाच ॥
विश्वकर्मेश्वरं लिंगं यत्काश्यां प्रथितं परम् ॥
तस्य लिंगस्य कथय देवदेव समुद्भवम् ॥१॥
॥ देवदेव उवाच ॥
शृणु देवि प्रवक्ष्यामि कथां पातकनाशिनीम् ॥
विश्वकर्मेश लिंगस्य प्रादुर्भावं मनोहरम् ॥२॥
विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः ॥
त्वष्टुः प्रजापतेः पुत्रो निपुणः सर्वकर्मसु ॥३॥
कृतोपनयनः सोथ बालो गुरुकुले वसन् ॥
चकार गुरुशुश्रूषां भिक्षान्नकृतभोजनः ॥४॥
एकदा तद्गुरुः प्राह प्रावृट्काले समागते ॥
कुरूटजं मदर्थं त्वं यथा प्रावृण्न बाधते ॥५॥
यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत्॥
गुरुपत्न्यात्वभिहितो रे त्वाष्ट्र कुरु कंचुकम् ॥६॥
ममांगयोग्यं नो गाढं न श्लथं च प्रयत्नतः ॥
विनैव वाससा चारु वाल्कलं च सदोज्ज्वलम् ॥७॥
गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु ॥
यदारूढस्य मे पादौ न पंकः संस्पृशेत्क्वचित् ॥८॥
चर्मादिबंधनिर्मुक्ते धावतो मे सुखप्रदे ॥
याभ्यां च संचरे वारि स्थल भूमाविव द्रुतम् ॥९॥
गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते ॥
भूषणे स्वेन हस्तेन कुरु कांचननिर्मिते ॥१०॥
कुमारी क्रीडनीयानि कौतुकानि च देहि मे ॥
दंतिदंतमयान्येव स्वहस्तरचितानि च ॥११॥
गृहोपकरणं द्रव्यं मुसलोलूखलादिकम् ॥
तथा घटय मेधाविन्यथा त्रुट्यति न क्वचित् ॥१२॥
अक्षालितान्यपि यथा नित्यं पीठानि सत्तम ॥
उज्ज्वलानि भवंत्येव स्थालिकाश्च तथा कुरु ॥१३॥
सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनंदन ॥
यथांगुल्यो न दह्यंते पाकः स्याच्च यथा शुभः ॥१४॥
एकस्तंभमयं गेहमेकदारुविनिर्मितम् ॥
तथा कुरु वरं त्वाष्ट्र यत्रेच्छा तत्र धारये ॥१५॥
ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि ॥
सर्वेसर्वे समीहंते कर्म तत्कृतमेव हि॥१६॥
तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे ॥
मध्ये वनं प्राविशच्च महाचिंताभयार्दितः ॥१७॥
किंचित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै॥
सर्वेषां पुरतः सर्वं करिष्यामीति निश्चितम्॥ १८॥
किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत् ॥
बुद्धेरपि वनस्थस्य शरणं कं व्रजामि च ॥१९॥
अंगीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः ॥
यो न निष्पादयेन्मूढः स भवेन्निरयी नरः ॥२०॥
गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम् ॥
अनिष्पाद्य तु तद्वाक्यं कथं मे निष्कृतिर्भवेत् ॥२१॥
गुरूणां वाक्यकरणात्सर्व एव मनोरथाः ॥
सिद्ध्यंतीतरथा नैव तस्मात्कार्यं हि तद्वचः ॥२२॥
कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः ॥
कश्च मेत्र सहायी स्याद्धिषणादुर्बलस्य वै ॥२३॥
आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि ॥
ओमित्युक्त्वा न कुरुते कार्यं सोथ व्रजत्यधः ॥२४॥
कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान् ॥
अंगीकृतानि तद्भीत्या नमस्ते भवितव्यते ॥२५॥
यावदित्थं चिंतयति स त्वाष्ट्रो वनमध्यगः ॥
तावत्तदेव संप्राप्तस्तेनैकोऽदर्शि तापसः ॥२६॥
अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम् ॥
को भवान्मानसं मे यो नितरां सुखयत्यहो ॥२७॥
त्वद्दर्शनेन मे गात्रं चिंतासंतापतापितम् ॥
हिमानी गाहनेनेव शीतलं भवति क्षणम् ॥२८॥
किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक् ॥
अथवा करुणावार्धिराविर्भूतः शिवो भवान् ॥२९॥
योसि सोसि नमस्तुभ्यमुपदेशेन युंक्ष्व माम् ॥
गुरूक्तं गुरुपत्न्युक्तं गुर्वपत्योक्तमेव च ॥३०॥
कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम् ॥
कुरु मे बुद्धिसाहाय्यं निर्जने बंधुतां गतः ॥३१॥
इत्युक्तस्तेन स वने तापसो ब्रह्मचारिणा ॥
कारुण्यपूर्णहृदयो यथोक्तमुपदिष्टवान् ॥३२॥
य आप्तत्वेन संपृष्टो दुर्बुद्धिं संप्रयच्छति ॥
स याति नरकं घोरं यावदाभूतसंप्लवम् ॥३३॥
तापस उवाच ॥
ब्रह्मचारिञ्शृणु ब्रूयां किमद्भुततरं त्विदम्॥
विश्वेशानुग्रहाद्ब्रह्माप्यभवत्सृष्टिकोविदः ॥३४॥
यदि त्वं त्वाष्ट्र सर्वज्ञं काश्यामाराधयिष्यसि ॥
ततस्ते विश्वकर्मेति नाम सत्यं भविष्यति ॥३५॥
विश्वेशानुग्रहात्काश्यामभिलाषा न दुर्लभाः ॥
सुलभो दुर्लभो वै यद्यत्र मोक्षस्तनुत्यजाम् ॥३६॥
सृष्टेःकरण सामर्थ्यं सृष्टिरक्षाप्रवीणता ॥
विधिना विष्णुना प्रापि विश्वेशानुग्रहात्परात् ॥३७॥
याहि वैश्वेश्वरं सद्म पद्मया समधिष्ठितम् ॥
निर्वाणसंज्ञया बाला यदीच्छेः स्वान्मनोरथान् ॥३८॥
स हि सर्वप्रदः शंभुर्याचितश्चोपमन्युना ॥
पयोमात्रं ददौ तस्मै सर्वं क्षीराब्धिमेव च ॥३९॥
आनंदकानने शंभोः किं किं केन न लभ्यते ॥
यत्र वासकृतां पुंसां धर्मराशिः पदेपदे ॥४०॥
स्वर्धुनी स्पर्शमात्रेण महापातकसंततिः ॥
यत्र संक्षयति क्षिप्रं तां काशीं को न संश्रयेत् ॥४१॥
न तादृग्धर्मसंभारो लभ्यते क्रतुकोटिभिः ॥
यादृग्वाराणसी वीथी संचारेण पदेपदे ॥४२॥
धर्मार्थकाममोक्षाणां यद्यत्रास्ति मनोरथः ॥
तदा वाराणसीं याहि याहि त्रैलोक्यपावनीम् ॥४३॥
सर्वकामफलप्राप्तिस्तदैव स्याद्ध्रुवं नृणाम् ॥
यदैव सर्वदः सर्वः काश्यां विश्वेश्वरः श्रितः ॥४४॥
स तापसोक्तमाकर्ण्य त्वाष्ट्र इत्थं सुहृष्टवान् ॥
काशीसंप्रात्युपायं च तमेव समपृच्छत ॥४५॥
॥ त्वाष्ट्र उवाच ॥
तदानंदवनं शंभोः क्वास्ति तापससत्तम ॥
यत्र नो दुर्लभं किंचित्साधकानां त्रयीस्थितम् ॥४६॥
स्वर्गे वा मर्त्यलोके वा बलिसद्मनि वा मुने ॥
क्व तदानंदगहनं यत्रानंदपयोब्धिजा ॥४७॥
यत्र विश्वेश्वरो देवो विश्वेषां कर्णधारकः ॥
व्याचष्टे तारकं ज्ञानं येन तन्मयतां ययुः ॥४८॥
सुलभा यत्र नियतमानंदवनचारिणः ॥
अपि नैःश्रेयसी लक्ष्मीः किमन्येल्प मनोरथाः ॥४९॥
कस्तां मां प्रापयेच्छंभोः कथं यामि तथा वद ॥
स तपस्वीति तद्वाक्यमाकर्ण्य श्रद्धयान्वितम् ॥५०॥
प्राहागच्छ नयामि त्वां यियासुरहमप्यहो॥
दुर्लभं प्राप्य मानुष्यं यदि काशी न सेविता ॥५१॥
पुनःक्व नृत्वं श्रेयोभूः क्व काशीकर्मबंधहृत् ॥
वृथागते हि मानुष्ये काशीप्राप्तिविवर्जनात् ॥५२॥
आयुष्यं च भविष्यं च सर्वमेव वृथागतम्॥
अतोहं सफलीकर्तुं मानुष्यं चातिचंचलम् ॥५३॥
यास्यामि काशीमायाहि मायां हित्वा त्वमप्यहो ॥
इति तेन सह त्वाष्ट्रो मुनिनातिकृपालुना ॥५४॥
पुरीं वैश्वेश्वरीं प्राप्तो मनःस्वास्थ्यमवाप च ॥
ततः प्रापय्य तां काशीं तापसः क्वाप्यतर्कितम् ॥५५॥
जगाम कुंभसंभूत स त्वाष्ट्रोपीत्यमन्यत ॥
अवश्यं स हि विश्वेशः सर्वेषां चिंतितप्रदः॥ ५६॥
सत्पथस्थिरवृतीनां दूरस्थोपि समीपगः ॥
यस्मिन्प्रसन्नदृक्त्र्यक्षस्तं दविष्ठमपि ध्रुवम् ॥५७॥।
सुनेदिष्ठं करोत्येव स्वयंवर्त्मोपदेशयन् ॥
क्वाहं तत्र वने बालश्चिंताकुलितमानसः ॥
क्व तापसः स यो मां वै सूदिश्येह चानयत् ॥५८॥
खेलोयमस्य त्र्यक्षस्य यस्य भक्तस्य कुत्रचित् ॥
न दुर्लभतरं किंचिदहो क्वाहं क्व काशिका ॥५९॥
नाराधितो मया शंभुः प्राक्तने जन्मनि क्वचित् ॥
शरीरित्वानुमानेन ज्ञातमेतदसंशयम् ॥६०॥
अस्मिञ्जन्मनि बालत्वान्न चैवाराधितः स्फुटम् ॥
प्रत्यक्षमेव मे वैतत्कुतोनुग्रहधीर्मयि ॥६१॥
आज्ञातं गुरुभक्तिर्मे हेतुः शंभुप्रसादने ॥
ययेहानुगृहीतोस्मि विश्वेशेन कृपालुना ॥६२॥
अथवा कारणापेक्षस्त्र्यक्षस्त्वितरदेववत् ॥
रंकमप्यनुगृह्णाति केवलं कारणं कृपा॥ ६३॥
यदि नो मय्यनुक्रोशः कथं तापससंगतिः ॥
तद्रूपेण स्वयं शंभुरानिनायेह मां ध्रुवम् ॥६४॥
न दानानि न वै यज्ञा न तपांसि व्रतानि च ॥।
शंभोः प्रसादहेतूनि कारणं तत्कृपैव हि ॥६५॥
दयामपि तदा कुर्यादसौ विश्वेश्वरः पराम् ॥
यदाश्रुत्युक्तमध्वानं सद्भिः क्षुण्णं न संत्यजेत् ॥६६॥
अनुक्रोशं समर्थ्येति स त्वाष्ट्रः र्शाभवं शुचिः॥
संस्थाप्य लिंगमीशस्याराधयत्स्वस्थमानसः ॥६७॥
आनीय पुष्पसंभारमार्तवं काननाद्बहु ॥
स्नात्वाभ्यर्चयतीशानं कंदमूलफलाशनः ॥६८॥
इत्थं त्वष्टृतनूजस्य लिंगाराधनचेतसः ॥
त्रिहायनात्प्रसन्नोभूत्तस्येशः करुणानिधिः ॥६९॥
तस्मादेव हि लिंगाच्च प्रादुर्भूय भवोऽब्रवीत् ॥
वरं वरय रे त्वाष्ट्र दृढभक्त्यानया तव ॥७०॥
प्रसन्नोस्मि भृशं बाल गुर्वर्थकृतचेतसः ॥
गुरुणा गुरुपत्न्या च गुर्वपत्यद्वयेन च ॥७१॥
यथार्थितं तथा कर्तुं ते सामर्थ्यं भविष्यति ॥७२॥
अन्यान्वरांश्च ते दद्यां त्वाष्ट्र तुष्टस्त्वदर्चया ॥
ताञ्शृणुष्व महाभाग लिंगस्यास्याद्भुतश्रियः ॥७३॥
त्वं सुवर्णादिधातूनां दारूणां दृषदामपि ॥
मणीनामपिरत्नानां पुष्पाणामपि वाससाम् ॥७४॥
कर्पूरादिसुगंधीनां द्रव्याणामप्यपामपि ॥
कंदमूलफलानां च द्रव्याणामपि च त्वचाम् ॥७५॥
सर्वेषां वस्तुजातानां कर्तुं कर्म प्रवेत्स्यसि ॥
यस्य यस्य रुचिर्यत्र सद्म देवालयादिषु ॥७६॥
तस्य तस्येह तुष्ट्यै त्वं तथा कर्तुं प्रवेत्स्यसि ॥
सर्वनेपथ्यरचनाः सर्वाः सूपस्य संस्कृतीः ॥७७॥
सर्वाणि शिल्पकार्याणि तौर्यत्रिकमथापि च ॥
सर्वं ज्ञास्यसि कर्तुं त्वं द्वितीय इव पद्मभूः ॥७८॥
नानाविधानि यंत्राणि नानायुधविधानकम् ॥
जलाशयानां रचनाः सुदुर्गरचनास्तथा ॥७९॥
तादृक्कर्तुं पुरा वेत्सि यादृङ्नान्योऽधियास्यति ॥
कलाजातं हि सर्वं त्वमवयास्यसि मे वरात् ॥८०॥
सर्वेंद्रजालिकी विद्या त्वदधीना भविष्यति ॥
सर्वकर्मसु कौशल्यं सर्वबुद्धिवरिष्ठताम् ॥८१॥
सर्वेषां च मनोवृत्तिं त्वं ज्ञास्यसि वरान्मम ॥
किं बहूक्तेन यत्स्वर्गे यत्पाताले यदत्र च॥ ८२॥
अतिलोकोत्तरं कर्म तत्सर्वं वेत्स्यसि स्वयम् ॥८३॥
विश्वेषां विश्वकर्माणि विश्वेषु भुवनेषु च ॥
यतो ज्ञास्यसि तन्नाम विश्वकर्मेति तेऽनघ ॥८४॥
अपरः को वरो देयस्तव तं प्रार्थयाश्वहो ॥
तवादेयं न मे किंचिल्लिंगार्चनरतस्य हि ॥८५॥
अन्यत्रापि हि यो लिंगं समर्चयति सन्मतिः ॥
तस्यापि वांछितं देयं किंपुनर्योविकाशिकम् ॥८६॥
येन काश्यां समभ्यर्चि येन काश्यां प्रतिष्ठितम् ॥
येन काश्यां स्तुतं लिंगं स मे रूपाय दर्पणः॥ ८७॥
तत्त्वं स्वच्छोसि मुकुरो मम नेत्रत्रयस्य हि ॥
काश्यां लिंगार्चनात्त्वाष्ट्र वरं वरय सुव्रत ॥८८॥
काश्यां यो राजधान्यां मे हित्वा मामन्यमर्चयेत् ॥
स वराकोल्पधीर्मुष्टोऽल्पतुष्टिर्मुक्तिवर्जितः ॥८९॥
तदानंदवनेह्यत्र समर्च्योहं मुमुक्षुभिः ॥
द्रुहिणोपेंद्रचंद्रेंद्रैरिहान्यो न समर्च्यते ॥९०॥
यथानंदवनं प्राप्य त्वं मामर्चितवानसि ॥
तथान्ये पुण्यकर्माणो मामभ्यर्च्यैव मामिताः ॥९१॥
अनुग्राह्योऽसि नितरां ततो वरय दुर्लभम् ॥
श्राणितं तदवैहि त्वं वद मा चिरयस्व भोः ॥९२॥
॥ विश्वकर्मोवाच ॥
इदं यत्स्थापितं लिंगं मयाज्ञेनापि शंकर ॥
तल्लिंगमन्येप्याराध्य संतु समृद्धिभाजनम् ॥९३॥
अन्यच्च नाथ प्रार्थ्योसि तच्च विश्राणयिष्यसि ॥
मया विनिर्मापयिता स्वं प्रासादं कदा भवान् ॥९४॥
देवदेव उवाच ॥
एवमस्तु यदुक्तं ते तव लिंगसमर्चकाः ॥
समृद्धिभाजनं वै स्युः स्युश्च निर्वाणदीक्षिताः ॥९५॥
यदा च राजा भविता दिवोदासो विधेर्वरात्॥
तदा मे वचनात्तात प्रासादं मे विधास्यति ॥९६॥
नवीकृत्य पुनः काशी निर्विष्टा तेन भूभुजा ॥
गणेशमायया राज्यात्परिनिर्विण्णचेतसा ॥९७॥
विष्णोः सदुपदेशाच्च मामेव शरणं गतः ॥
निर्वाणलक्ष्मीः प्राप्तेह हित्वा राज्यश्रियं चलाम् ॥९८॥
विश्वकर्मन्व्रज गुरोः शासनाय यतस्व च ॥
गुरुभक्तिकृतो यस्मान्मद्भक्ता नात्र संशयः ॥९९॥
ये गुरुं चावमन्यंते तेवमान्या मयाप्यहो ॥
तस्माद्गुरूपदिष्टं हि कुरु शिष्यसमीहितम् ॥१००॥
तत आगत्य मे पार्श्वं यावन्निर्वाणमेष्यसि ॥
तावत्स्थास्यसि शुद्धात्मा देवानां हितमाचरन् ॥१॥
तवात्र लिंगे सततं स्थास्याम्यहमभीष्टदः ॥
अस्य लिंगस्य भक्तानां निर्वाणश्रीरदूरतः ॥२॥
अंगारेशादुदीच्यां ये त्वल्लिंगस्यसमर्चकाः ॥
तेषां मनोरथावाप्तिर्भविष्यति पदेपदे ॥३॥
इत्युक्त्वांतर्दधे देवस्त्वाष्ट्रोपि गुरुमाप्तवान् ॥
गुरोः समीहितं भूरि विधाय स गृहान्ययौ ॥४॥
गृहेपि मातापितरौ संतोष्य निजकर्मणा ॥
तदुक्ताज्ञां समाधाय पुनः काशीं समाययौ ॥५॥
स्वलिंगाराधनासक्तो नाद्यापि त्वष्टृनंदनः ॥
काशीं त्यजति मेधावी सर्वदेव प्रियं चरन् ॥६॥
॥ ईश्वर उवाच ॥
पृष्टानि यानि र्लिगानि त्वया देवि गिरींद्रजे ॥
काशी मुक्तौ समर्थानि तान्युक्तानि मया तव ॥७॥
लिंगमोंकारसंज्ञं च तथा देवं त्रिविष्टपम् ॥
महादेवः कृत्तिवासा रत्नेशश्चंद्रसंज्ञकः ॥८॥
केदारश्चापि धर्मेशस्तथा वीरेश्वराभिधः ॥
कामेशविश्वकर्मेशौ मणिकर्णीश्वरस्तथा ॥९॥
ममार्च्यमविमुक्ताख्यं ततो देवि ममा ख्यकम् ॥
विश्वनाथेति विश्वस्मिन्प्रथितं विश्वसौख्यदम्॥११०॥
अविमुक्तं समासाद्य येन विश्वेश्वरोर्चितः ॥
न तस्यास्ति पुनर्जन्म कल्पकोटिशतेष्वपि ॥११॥
अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥
एकत्र चतुरोमासानब्दं नावास इष्यते ॥१२॥
अविमुक्ते प्रविष्टानां विहारो नैव युज्यते ॥
मोक्षोप्यसंशयश्चात्र तस्मात्त्याज्या न काशिका ॥१३॥
आनंदकाननं हित्वा नान्यद्गच्छेत्तपोवनम् ॥
तपोयोगश्च मोक्षश्च यतोत्रैव मदाश्रयात् ॥१४॥
कृपया सर्वजंतूनां क्षेत्रमेतन्मया कृतम् ॥
अवश्यमेव सिद्ध्यंति क्षेत्रेस्मिन्सिद्धिकांक्षिणः ॥२५॥
अतीतं वर्तमानं च जानतोऽज्ञानतः कृतम् ॥
यदेनस्तल्लयं यायादानंदवनवीक्षणात् ॥१६॥
अत्युग्रैश्च तपोभिर्यन्महादानैर्महाव्रतैः ॥
नियमैश्च यमैः सम्यक्त्वयोगेन महामखैः ॥१७॥
वेदांतशास्त्राभ्यसनैः सर्वोपनिषदाश्रयात् ॥
एभिर्वै यदवाप्येत तत्काश्यां हेलयाप्यते ॥१८॥
कर्मसूत्रेण बद्धा वै भ्राम्यंते तावदेव हि ॥
यावद्वैश्वेश्वरे धाम्नि मम नैव तनुत्यजः ॥१९॥
काश्यां स्वलीलया देवि तिर्यग्योनिजुषामपि॥
ददामि चांते तत्स्थानं यत्र यांति न याज्ञिकाः ॥१२०॥
भूतग्रामोऽखिलोप्यत्र मुक्तिक्षेत्रे कृतालयः ॥
कालेन निधनं यातो यात्येव परमां गतिम् ॥२१॥
विषयासक्तचित्तोपि त्यक्तधर्मरतिस्त्वपि ॥
कालेनोज्झितदेहोऽत्र न संसारं पुनर्विशेत् ॥२२॥
प्रयागे यत्फलं देवि माघे चोपनिमज्जनात् ॥
तत्फलं कोटिगुणितं वाराणस्यां क्षणेक्षणे ॥२३॥
अस्य क्षेत्रस्य महिमा कोपि वाचामगोचरः ॥
उद्देशमात्रमाख्यायि मया ते प्रीतिकाम्यया ॥२४॥
चतुर्दशानां लिंगानां श्रुत्वाख्यानानि सत्तमः ॥
चतुर्दश सुलोकेषु पूजां प्राप्स्यत्यनुत्तमाम् ॥१२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वकर्मेश प्रादुर्भावो नाम षडशीतितमोऽध्यायः ॥८६॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP