संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २१४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २१४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २१४ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ नभसो ननादवर्षामृताभ्रमिव दुन्दुभिरामरो द्राक् ।शुक्लीकृताखिलककुब्वदना तुषार-वर्षोपमा भुवि पपात च पुष्पवृष्टिः ॥१॥किंजल्कजालदिवसान्तघनाङ्गरागावातावधूतसितकेसरगौरहारा ।पुष्पोदरोत्थमृदुसीकरशीतलाङ्गाप्राप्ता स्वयं सुरपुरादिव पुण्यलक्ष्मीः ॥२॥कल्पान्तकालकपिकम्पितशुष्कशाखा-त्स्वर्गद्रुमात्पतितमाशु विडम्बयन्ती ।तारागणं प्रथितभासमनल्पहास-माशामुखप्रसृतभैरवमम्बरस्था ॥३॥सा पुष्पवृष्टिरथ दुन्दुभिनादगर्ज-त्किंजल्कपुञ्जजलदा शममाजगाम ।आपूरिताखिलसभा हिमहारिपुष्प-पूरेण कौतुकविकासकरीक्षणेन ॥४॥तानि दिव्यानि पुष्पाणि यथास्थानमधःस्थिताः ।वसिष्ठाय नमस्कृत्वा सभ्याः संशोकितां जहुः ॥५॥दशरथ उवाच ।अहोऽनुसुविशात्मानः संसारवितताकृतेः ।विश्रान्ताः स्मश्चिरं श्रान्ताः शुद्धा मेघा इवाचले ॥६॥कर्मणामवधिः पूर्णो दृष्टः सीमान्त आपदाम् ।ज्ञातं ज्ञेयमशेषेण विश्रान्ताः स्मः परे पदे ॥७॥ध्यानलब्धपरव्योमचिरानुभवनभ्रमैः ।धारणाधारविश्रान्त्या देहसंत्यजनक्रमैः ॥८॥संकल्पनवनिर्माणैः स्वप्नदृष्टिजगज्ज्वरैः ।शुक्तिरूप्यानुभवनैः स्वप्नात्ममृतिदर्शनैः ॥९॥अनन्यैः पवनस्पन्दैरनन्यैः सलिलद्रवैः ।इन्द्रजालपुरापूरैर्गन्धर्वनगरोत्करैः ॥१०॥मायापूर्णपुराभोगैर्मृगतृष्णानदीरयैः।आयतौ पवनस्पर्शैर्द्विचन्द्रानुभवोदयैः ॥११॥मदभ्रंशपुरस्पन्दैर्मुधा त्ववनिकम्पनैः ।बालयक्षाद्यनुभवैः खकेशोण्ड्रकदर्शनैः ॥१२॥एवमादिभिरन्यैश्च दृष्टान्तैः स्वानुभूतिदैः ।अहो नु मार्जिता दृश्यदृष्टिर्भगवता मम ॥१३॥श्रीराम उवाच ।नष्टो मोहः पदं प्राप्तं त्वत्प्रसादान्मुनीश्वर ।संपन्नोऽहमहं सत्यमत्यन्तमवदातधीः ॥१४॥स्थितोऽस्मि गतसंदेहः स्वभावे ब्रह्मरूपिणि ।निरावरणविज्ञानः करिष्ये वचनं तव ॥१५॥स्मृत्वा स्मृत्वाऽमृतासेकसौख्यदं वचनं तव ।अर्हितोऽपि च शान्तोपि हृष्यामीव मुहुर्मुहुः ॥१६॥नैव मेऽद्य कृतेनार्थो नाकृतेनेह कश्चन ।यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरः ॥१७॥उपायस्तु तथा तेन दृष्टिर्वास्तीह कीदृशी ।अहो नु वितता भूमिः कष्टमेतादृशी दशा ॥१८॥न शत्रुर्न च मित्रं मे न क्षेत्रं दुर्जनो जनः ।दुर्बोधैषा जगत्क्षुब्धा शान्ता सर्वार्थसुन्दरी ॥१९॥कथमेतां जनो वेत्ति विना भवदनुग्रहम् ।विनैव सेतुं पोतं वा बालोऽब्धिं लङ्घयेत्कथम् ॥२०॥लक्ष्मण उवाच ।जन्मान्तरोपचितसंशयनाशनेनजन्मान्तरोपचितपुण्यशतोदितेन ।जातोऽद्य मे मुनिवचःपरिबोधनेनजातोऽद्य मे मनसि चन्द्र इव प्रकाशः ॥२१॥ईदृश्यां दृश्यमानायां दृशि दोषदशाशतैः ।काष्ठवद्दह्यते लोकः स्वदुर्भगतया तया ॥२२॥विश्वामित्र उवाच ।अहो बत महत्पुण्यं श्रुतं ज्ञानं मुनेर्मुखात्।येन गङ्गासहस्रेण स्नाता इव वयं स्थिताः ॥२३॥श्रीराम उवाच ।संपदामथ दृष्टीनां शास्त्राणामापदां गिराम् ।देशानामथ दृष्टानां दृष्टः सीमान्त उत्तमः ॥२४॥नारद उवाच ।यन्न श्रुतं ब्रह्मलोके स्वर्गे भूमितले तथा ।कर्णौ तज्ज्ञानमाकर्ण्य यातौ मेऽद्य पवित्रताम् ॥२५॥लक्ष्मण उवाच ।हार्दं बाह्यं च तिमिरमपमृष्टवता त्वया ।मुने परमभानुत्वं नूनं नः संप्रदर्शितम् ॥२६॥शत्रुघ्न उवाच ।निर्वृतोऽस्मि प्रशान्तोऽस्मि प्राप्तोस्मि परमं पदम् ।चिराय परिपूर्णोऽस्मि सुखमासे च केवलम् ॥२७॥दशरथ उवाच ।बहुजन्मोपलब्धेन पुण्येनायं मुनीश्वरः ।धीरः कथितवान्नस्तद्येन पावनतां गताः ॥२८॥श्रीवाल्मीकिरुवाच ।इति तेषु वदत्स्वत्र सभ्येषु सह भूभृता ।वसिष्ठः स उवाचेदं ज्ञानपावनया गिरा ॥२९॥राजन्रघुकुलैकेन्दो यदहं वच्मि तत्कुरु ।इतिहासकथान्ते हि पूजनीया द्विजातयः ॥३०॥तदद्य ब्राह्मणौघांस्त्वं सर्वकामैः प्रपूरय ।वेदार्थसमनुष्ठानफलं प्राप्स्यसि शाश्वतम् ॥३१॥मोक्षोपायकथावस्तुसमाप्तौ द्विजपूजनम् ।शक्तितः कीटकेनापि कार्यं किमु महीभृता ॥३२॥इति मौनं वचः श्रुत्वा सहस्राणि नृपो दश ।दूतैराकारयामास द्विजानां वेदवादिनाम् ॥३३॥मथुरायां सुराष्ट्रेषु गौडेषु च वसन्ति ये ।तेभ्यः कुलेभ्यःसोऽभ्यर्च्य समानीय द्विजन्मनाम् ॥३४॥अधिकात्यधिकज्ञानप्रकृतद्विजभोजनः ।तदा दशसहस्राणि भोजयामास भूपतिः ॥३५॥यथाभिमतभोज्यान्नदानदक्षिणया तया ।एवं संपूज्य तान्विप्रान्पितृन्देवान्नृपांस्तथा ॥३६॥पौरामात्यांस्तथा भृत्यान्दीनान्धकृपणांश्च तान् ।तस्मिन्दशरथो राजा दिने सह सुहृज्जनैः ॥३७॥लब्धसंसृतिसीमान्तश्चकारोत्सवमुत्तमम् ।तथा नृपगृहे तस्मिन्कौशेयमणिकाञ्चने ॥३८॥भूषिते नगरे चैव गीर्वाणनगसुन्दरे ।ननृतुर्मत्तकामिन्यो विलासिन्यो गृहे गृहे ॥३९॥लसद्वंशलताकांस्यवीणामुरजमर्दलम् ।ताण्डवेनोद्धतारावमन्योन्येतरशेखराः ॥४०॥क्षुब्धीकृतापणकरभ्रान्तिपल्लविताम्बराः ।मुग्धाट्टहासविक्षिप्तदन्तेन्दुकिरणच्छटाः ॥४१॥मदाकुलितहुंकारा लीलासु तरलस्वराः ।एकपादतलाघातहेलाहतधरातलाः ॥४२॥स्रग्दामतारविगलत्कुसुमासारपाण्डुराः ।धारापातितविच्छिन्नहारमुक्तास्खलत्पदाः ॥४३॥लोलाभरणसाकारं कामं ननृतुरङ्गनाः ।पेठुः स्फुटपदं विप्रा बन्दिनोऽप्यङ्गनाश्च ताः ॥४४॥पपुरुत्ताण्डवं पानं पानपा मदशालिनः ।भोज्यं बुभुजिरे चित्रं भूषिता भोजनार्थिनः ॥४५॥सुधादिपरिलेपेन रञ्जिता गृहभित्तयः ।रेजू रामेन्दुभानेन पुष्पधूपविलेपनैः ॥४६॥वासांसि वसिताश्चित्राण्युत्तमस्रग्विभूषणाः ।चेरुः परिचराश्चेट्यश्चारुगन्धा नृपाध्वरे ॥४७॥देहयष्टिषु संयोज्य वनिता यक्षकर्दमम् ।जग्मुस्ताण्डवनर्तक्यः श्रृङ्गारात्माङ्गणान्तरम् ॥४८॥भवबहुलनिशावसानहर्षा-दिति घनमुत्सवमेव सप्तरात्रम्।दशरथनृपतिः सदानभोग-श्रियमकरोत्पदमक्षयं समेतः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महोत्सववर्णनं नाम चतुर्दशाधिकद्विशततमः सर्गः ॥२१४॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP