संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।न सुखाय सुखं यस्य दुःखं दुःखाय यस्य नो ।अन्तर्मुखमतेर्नित्यं स मुक्त इति कथ्यते ॥१॥यस्य न स्फुरति प्रज्ञा चिद्व्योमन्यचलस्थितेः ।प्रसृतेष्विव भोगेषु स मुक्त इति कथ्यते ॥२॥चिन्मात्रात्मनि विश्रान्तं यस्य चित्तमचञ्चलम् ।तत्रैव रतिमायातं स जीवन्मुक्त उच्यते ॥३॥परमात्मनि विश्रान्तं यस्य व्यावृत्त्य नो मनः ।रमतेऽस्मिन्पुनर्दृश्ये स जीवन्मुक्त उच्यते ॥४॥श्रीराम उवाच ।न सुखाय सुखं यस्य दुःखं दुखाय यस्य नो ।जडमेव मुने मन्ये मानवं तमचेतनम् ॥५॥श्रीवसिष्ठ उवाच ।चिद्व्योमैकान्तनिष्ठत्वात्प्रयत्नेन विना सुखम् ।न वेत्ति शुद्धबोधात्मा यः स विश्रान्त उच्यते ॥६॥सर्व एव परिक्षीणाः संदेहा यस्य वस्तुतः ।सर्वार्थेषु विवेकेन स विश्रान्तः परे पदे ॥७॥यस्य कस्मिंश्चिदप्यर्थे क्वचिद्रसिकतास्ति नो ।व्यवहारवतोऽप्यन्तः स विश्रान्त उदाहृतः ॥८॥यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।यथाप्राप्तं विहरतः स विश्रान्त इति स्मृतः ॥९अविश्रामे निरालम्बे दीर्घे संसारवर्त्मनि ।चित्त्वादात्मनि विश्रान्तिः प्राप्ता येन जयत्यसौ ॥१०॥धावित्वा ये चिरं कालं प्राप्तविश्रान्तयः स्थिताः ।ते सुप्ता इव लक्ष्यन्ते व्यवहारपरा अपि ॥११॥ते हि चेत्यचिदाभासनभस्याभान्ति भामयाः ।भास्करा उदिता नित्यं नेह तिष्ठन्ति ते क्वचित्॥१२॥सदेहा व्यवहारस्था अपि सुप्ता इवोत्तमाः ।प्रक्षीणा इव लक्ष्यन्ते जडाभा न तु ते जडाः ॥१३॥सुप्ता इवेह शय्यासु ये स्वप्ननगरे स्थिताः ।सुप्ता इति त उच्यन्ते न तु ते जडतां गताः ॥१४॥दीर्घाध्वपरिविश्रान्तो विश्रान्तो न ददाति यः ।वाक्यं स सुखमौनस्थः प्रोच्यते न जडाकृतिः ॥१५॥या निशा सर्वभूतानामविद्यास्तमयात्मिका ।परो बोधः परा शान्तिस्तत्रासौ सममास्थितः ॥१६॥यस्मिञ्जाग्रति भूतानि दृश्येऽस्मिन्दुःखदायिनि ।तत्रासौ सततं सुप्तस्तन्न पश्यत्यसौ सुखी ॥१७॥यः कर्मौघमनादृत्य स्वात्मन्येवावतिष्ठते ।स आत्माराम इत्युक्तो न जडोऽसौ रघूद्वह ॥१८॥दुःखादतिगतः सोऽस्मात्प्राप्तः पारं भवाम्बुधेः ।तिष्ठत्यनुभवन्भव्यो विश्रान्तिसुखमात्मनि ॥१९॥दीर्घाध्वनि परिश्रान्तो विषयैश्चतुरैश्चिरम् ।भोगभावातुरः क्रूरैः प्रोत्थितः पथि डामरैः ॥२०॥जरातुषाराशनिभिर्भूयोभूयो जडीकृतः ।जन्मजङ्गलसारङ्गो व्यर्थव्यग्रविहारवान् ॥२१॥परमात्मपरिक्रान्तो दुःखकण्टकसंकटे ।सुदुष्प्रापसुखच्छाये पान्थः संसारवर्त्मनि ॥२२॥दुष्कृतैः कृतपाथेयो लुठन्क्षीणः पदे पदे ।अर्थानर्थमयैर्मार्गैः संकटैर्विवशीकृतः ॥२३॥संसारजलधेः पारं प्राप्य भूतविवर्जितम् ।अशय्योऽतिप्रमाबुद्धः स शेते सुखमात्मवान् ॥२४॥अपसर्पं निरस्तेहमस्वप्नमसुषुप्तकम् ।प्रबुद्धमबहिर्निद्रं हा शेते सुखमात्मवान् ॥२५॥जात्यश्ववदिहाजातिरश्नन्गच्छन्श्वसन्वदन् ।लोकमध्ये महारण्ये हा शेते सुखमात्मवान् ॥२६॥अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।या न शाम्यति कल्पाभ्ररवैर्नाङ्गविकर्तनैः ॥२७॥अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।प्रबुद्धानामपि हि या निमीलयति दृग्दृशौ ॥२८॥अनिमीलितनेत्रस्य यस्य विश्वं प्रलीयते ।स क्षीवः परमार्थेन हा शेते सुखमात्मवान् ॥२९॥विनिगीर्य जगत्सर्वं परमां पूर्णतां गतः ।आतृप्तेरमृतं पीत्वा हा शेते सुखमात्मवान् ॥३०॥निरानन्दमहानन्दी सुखमद्वैतमक्षयम् ।निरालोकमहालोको हा शेते सुखमात्मवान् ॥३१॥लोभान्धकारोपरमो लोकलम्पटतां गतः ।अघनत्वघनाभोगो हा शेते सुखमात्मवान् ॥३२॥अनन्तदुःखमाशान्तमशान्तं जनतास्थितौ ।अबहिर्मुखमत्योगि हा शेते सुखमात्मवान् ॥३३॥अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।कृत्वात्मानं नभःशय्यं हा शेते सुखमात्मवान् ॥३४॥परमाणौ परमाणौ जगत्कोटिशतान्यपि ।अणौ स्थूले दधद्देहे हा शेते सुखमात्मवान् ॥३५॥कुर्वन्संहारसर्गौघानकुर्वंश्च कथंचन ।परमालोकशय्यायां हा शेते सुखमात्मवान् ॥३६॥संसारनिचयस्वप्नं परिज्ञाय सुषुप्तताम् ।नयन्प्रकटदिग्दीर्घां हा शेते सुखमात्मवान् ॥३७॥सर्वेषां जगदर्थानां सत्तासामान्यतां गतः ।आकाशादधिको व्यापी हा शेतेसुखमात्मवान् ॥३८॥अच्छाच्छमम्बरं कृत्वा जगदप्यम्बरीकृतम् ।शान्तशब्दपरश्वासं हा शेते सुखमात्मवान् ॥३९॥इदमस्मज्जगत्पश्यन्स्वयमाकाशकोणके ।विशदाकाशकोशात्मा हा शेते सुखमात्मवान् ॥४०॥यथा प्रवाहसंप्राप्तव्यवहारमनोरमे ।तृण्यास्तरणविश्रान्तो हा शेते सुखमात्मवान् ॥४१॥परमेण स्वयत्नेन परिज्ञानात्स्वरूपिणा ।स्वप्नसंदर्शनेनैव जीवन् खमिव खेन खे ॥४२॥ज्ञानेनाकाशकल्पेन धर्मान् गगनसंनिभान् ।ज्ञेन यत्नेन संबुद्धः परमाम्बरतां गतः ॥४३॥प्रबुद्धः सुप्तः सुप्तोपि प्रबुद्धो रमतेनिशम् ।सुषुप्तोभूत्ततो जाग्रत्स्वप्नार्थसुहृदा सह ॥४४॥जन्मान्तरैकसहवाससमाशयेनचित्रानुवृत्तिमधुरेण चिरंतनेन ।मित्रेण सार्धमखिलानि दिनानि नीत्वाविश्रान्तिमेष्यति पदे परमे चिरं सः ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० श० विश्रान्तचित्तवर्णनं नामैकोनसप्तत्यधिकशततमः सर्गः ॥१६९॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP