संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततस्तत्कुवलोल्लासिमालतीमाल्यलोचना ।ललना ललितालोक्य लीलयाऽऽलपिता मया ॥१॥का त्वं कमलगर्भाभे किमर्थं मामुपागता ।कस्यासि किं प्रार्थयसे क्व गतासि किमास्पदा ॥२॥विद्याधर्युवाच ।मुने शृणु यथावत्त्वमात्मोदन्तं वदाम्यहम् ।प्रष्टुमर्हसि विस्रब्धमार्तां करुणयार्थिनीम् ॥३॥परमाकाशकोशस्य कस्मिंश्चित्कोणकोटरे ।युष्माकं संस्थितं किंचिदिदं तावज्जगद्गृहम् ॥४॥पातालभूतलस्वर्गा इहापवरकास्त्रयः ।कल्पनैका कुमार्यत्र कृता धातृत्वमायया ॥५॥ तत्र द्वीपैः समुद्रैश्च वलितं वलयैरिव ।पाटलोत्थं जगल्लक्ष्म्याः प्रकोष्ठमिव भूतलम् ॥६॥अन्ते द्वीपसमुद्राणां सर्वदिक्कमवस्थिता ।योजनानां सहस्त्राणि दश हेममयी मही ॥७॥स्वयंप्रकाशसंकल्पफलदाम्बरनिर्मला ।चिन्तामणिमयी स्वच्छा स्वच्छायाजितविष्टपा ॥८॥साप्सरोमरसिद्धानां लीलाविहरणावनिः ।संकल्पमात्रसंपन्नसर्वसंभोगसुन्दरी ॥९॥अन्ते तस्या भुवः शैलो लोकालोकोऽस्ति विश्रुतः ।भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत् ॥१०॥क्वचिन्नित्यं तमोव्याप्तो मूढबुद्धेरिवाशयः ।क्वचिन्नित्यं प्रकाशात्मा मनः सत्त्ववतामिव ॥११॥क्वचिदाह्लादजनकः साधूनामिव संगमः ।क्वचिदुद्वेगजनको मूर्खैरिव समागमः ॥१२॥क्वचित्प्रकटसर्वार्थो मनो मतिमतामिव ।क्वचिदत्यन्तगहनो मूर्खश्रोत्रियचित्तवत् ॥१३॥क्वचिदप्राप्तसोमांशुः क्वचिदप्राप्तसूर्यभाः ।क्वचिल्लोकमयस्तेन क्वचिदाशून्यदिक्तटः ॥१४॥क्वचिद्देवपुरव्याप्तः क्वचिद्दैत्यपुरान्वितः ।क्वचित्पातालगहनः क्वचिच्छृङ्गोर्ध्वकन्धरः ॥१५॥क्वचिच्छ्वभ्रभ्रमद्गृध्रः क्वचित्सानुमनोहरः ।क्वचिच्छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः ॥१५॥क्वचिच्छून्यमहारण्यवहत्कल्पान्तमारुतः ।क्वचित्पुष्पवनोद्यानगायद्विद्याधरीगणः ॥१७॥क्वचित्पातालगम्भीरगुहाकुम्भाण्डभीषणः ।क्वचिन्नन्दनसोदर्यमुन्याश्रममनोरमः ॥१८॥क्वचिदक्षयमत्ताभ्रः क्वचिद्दुर्लभवारिदः ।क्वचिद्गर्भगुहाश्वभ्रगहनोपान्तमण्डलः ॥१९॥क्वचित्क्षुब्धजनाक्षेपसमुत्सादितभूतभूः ।क्वचिद्वास्तव्यजनतासौजन्यजितविष्टपः ॥२०॥क्वचिन्नित्यं वहद्वाताजातस्थावरजङ्गमः ।क्वचित्सर्वक्षयोन्मुक्तस्थिरस्थावरजङ्गमः ॥२१॥क्वचिन्महामरुमरुन्मुक्तभांकारभीषणः ।क्वचित्कणत्कमलिनीमत्तसारसभूषणः ॥२२॥क्वचित्सलिलकल्लोलजलदोल्लासघर्घरः ।क्वचिन्मत्ताप्सरोदोलाविलासजनितस्मरः ॥२३॥क्वचित्पिशाचकुम्भाण्डवेष्टिताचेष्टदिक्तटः ।क्वचिद्विद्याधरीसिद्धनृत्यगीतसरित्तटः ॥२४॥क्वचिदुद्वर्षदम्भोदसरिद्बाहुलुठत्तटः ।क्वचित्सततगानीतनीतनानाभ्रसत्पटः ॥२५॥क्वचित्कमलिनीकोशवक्त्रस्थाध्यानमण्डलः ।क्वचित्स्वर्गाङ्गनासिद्धसुन्दरीदन्तमण्डनः ॥२६॥क्वचित्तपद्दिनकरजनताचारसुन्दरः ।क्वचिन्नैशतमोगेहनृत्यन्मत्तनिशाचरः ॥२७॥क्वचिदुत्पतदुत्पाततया नश्यज्जनावनिः ।क्वचित्सौराज्यसंपत्त्या प्रोद्भवत्पुरमण्डलः ॥२८॥क्वचिदत्यन्तनिःशून्यः क्वचिज्जनपदावृतः ।क्वचिच्छ्वभ्रान्तगम्भीरः क्वचित्पातालभीषणः ॥२९॥क्वचिद्बृहत्कल्पतरुः क्वचिन्निर्जलजङ्गमः ।क्वचिन्महाकरिकुलः क्वचिन्मत्तहरिव्रजः ॥३०॥क्वचिन्निर्भूतमुद्यातः क्वचिदुन्मत्तराक्षसः ।क्वचित्करञ्जगहनः क्वचित्तालमहावनः ॥३१॥क्वचिद्व्योमोपमसराः क्वचिद्दीर्घमरुस्थलः ।क्वचिन्नित्यभ्रमत्पांसुः क्वचित्सर्वर्तुकाननः ॥३२॥शिखरेषु शिलास्तस्य सामान्याचलसंनिभाः ।सन्ति सुस्थितकल्पाभ्रा रत्नमय्योऽम्बरामलाः ॥३३॥क्षीरोदकार्कगौरीणां वनस्कन्धौकसामिव ।विश्राम्यन्त्यनिशं यासु हरयो हरियोनयः ॥३४॥तासामुत्तरदिग्भागे पूर्वशृङ्गशिलोदरे ।निवसाम्यहमक्षीणवज्रसारसमत्वचि ॥३५॥विधिना तत्र बद्धास्मि वसाम्युपलयन्त्रके ।अत्रासंख्या मुने याता मन्ये युगगणा मम ॥३६॥न केवलमहं बद्धा यावद्भर्तापि तत्र मे ।बद्धः सायंतने पद्मकुङ्मले षट्पदो यथा ॥३७॥तेन सार्धं मया भर्त्रा शिलाकोटरसंकटे ।अनुभूताश्चिरं कालमत्र वर्षगणा गताः ॥३८॥अद्याप्यात्मैकदोषेण न हि मोक्षं लभावहे ।चिरं तत्रैव तिष्ठावस्तथैवाबद्धभावनौ ॥३९॥पाषाणसंकटे तस्मिन्बद्धावावां न केवलम् ।बद्धो यावदशेषेण परिवारोऽपि तत्र नौ ॥४०॥पुराणपुरुषो बद्धो द्विजस्तत्रास्ति मे पतिः ।एकस्थानान्न चलति जीवन्युगशतान्यसौ ॥४१॥आबाल्याद्ब्रह्मचारी च श्रोत्रियः पाठकोऽलसः ।एकान्त एक एवास्तेऽजिह्मवृत्तिरचापलः ॥४२॥अहं व्यसनिनी भार्या तस्य वेदविदां वर ।न निमेषं समर्थास्मि तं विना देहधारणे ॥४३॥शृणु तेन कथं ब्रह्मन्भार्याहं समुपार्जिता ।कथं वृद्धिमयं यातः स्नेहोऽस्माकमकृत्रिमः ॥४४॥तेन जातेन मद्भर्त्रा बालेनैव सता पुरा ।किंचिज्ज्ञेन सतैकेन तिष्ठतात्मालयेऽमले ॥४५॥श्रोत्रियत्वानुरूपेण जाया मे जन्मशालिनी ।कुतः संभवतीत्येव निर्णीय चिरचिन्तया ॥४६॥स्वयमेवानवद्याङ्गी तेन तामरसेक्षण ।उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनाऽमला ॥४७॥मनसा मानसीभार्या मन्दरोत्तमसुन्दरी ।ततो वृद्धिं प्रयातास्मि वसन्त इव मञ्जरी ॥४८॥सहजाम्बरसंछन्ना भूतानां चित्तहारिणी ।पूर्णेन्दुबिम्बवदना द्यौरिवामलतारका ॥४९॥कोरकोच्चस्तनभरा समग्ररसशालिनी ।लतावरवनेनेव करपल्लवशालिनी ॥५०॥सर्वस्य जन्तुजातस्य नित्यं हृदयहारिणी ।हरिणीतारनयना मदनोन्माददायिनी ॥५१॥लीलाविलासैकरता हेलावलितलोचना ।गेयवाद्यप्रिया नित्यं न च तृप्तानुरागिणी ॥५२॥सौभाग्यभोगपरमा लक्ष्म्यलक्ष्म्योः प्रिया सखी ।अनन्या मोहजालानामखिन्ना संपदापदोः ॥५३॥न केवलमहं गेहं धारयामि द्विजन्मनः ।यावत्त्रैलोक्यसदनमिदमङ्ग बिभर्म्यहम् ॥५४॥अहं कुलकरी भार्या कलत्रभरणक्षमा ।त्रैलोक्यगृहसंभारधारणैकभरोद्वहा ॥५५॥अथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनी ।लतोल्ललद्गुलुच्छेव विलासरसशालिनी ॥५६॥पतिर्मा दीर्घसूत्रत्वाच्छ्रोत्रियत्वात्तपोरतः ।कयाप्यपेक्षयाद्यापि न विवाहितवानिमाम् ॥५७॥तेन यौवनसंपन्नविलासरसशालिनी ।तं विना व्यसनेनाहं दह्येऽग्नाविव पद्मिनी ॥५८॥शीतानिलविलोलासु नलिनीषु निरन्तरम् ।अङ्गदाहमवाप्नोमि पूताङ्गारस्थलीष्विव ॥५९॥उद्यानावनयः सर्वाः पूर्णाः कुसुमवर्षणैः ।संपन्नास्तप्तसिकताः शून्या मे मरुभूमयः ॥६० ॥जलकल्लोलकह्लारकमलोत्करकोमलाः ।सरस्यः सारसारावसरसा मम नीरसाः ॥६१॥अहं पुष्करमन्दारकुमुदोत्करमालिता ।भृशं दाहमवाप्नोमि कण्टकेष्विव दोलिता ॥६२॥कुमुदोत्पलकह्लारकदलीतल्पपालयः ।मदङ्गसङ्गमाद्ग्रीष्ममर्मरा याति भस्मताम् ॥६३॥यत्कान्तमुचितं स्वादु विचित्रं चित्तहारि च ।तदालोक्य भवाम्यन्तर्बाष्पपूर्णायतेक्षणा ॥६४॥व्यसनानलसंतप्ताः पतन्तो बाष्पबिन्दवः ।छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु ॥६५॥कदलीकन्दलीस्कन्धदोलान्दोलनलीलया ।लालितोद्यानखण्डेषु मुखमाच्छाद्य रोदिमि ॥६६॥तुषारनिकराकीर्णं कदलीदलमण्डपम् ।पश्याम्यूष्माणमुज्झन्तं खदिराङ्गारभीषणम् ॥६७॥नलिनीनालदोलासु सारसीं सारसाश्रिताम् ।दीनानना विलोक्यान्तर्निन्दामि निजयौवनम् ॥६८॥रम्ये रोदिमि मध्यस्थे पदार्थे यामि सौम्यताम् ।हृष्याम्यशोभने दीना न जाने किमहं स्थिता ॥६९॥दृष्टानि कुन्दमन्दारकुमुदानि हिमानि च ।मया कामाग्निदग्धानां भस्मानीव दिशं प्रति ॥७०॥ आनीलपल्लवमृणाललतोत्पलानांकह्लारकुन्दकदलीदलमालतीनाम् ।शय्या ममाङ्गचलनेन विशोषयन्त्याव्यर्थं गतानि नवयौवनवासराणि ॥७१॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उ० पा० विद्याधरीव्यसनवर्णनं नाम चतुःषष्टितमः सर्गः ॥६४॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP