संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १५५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १५५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५५ Translation - भाषांतर अग्निरुवाच ।इत्याकर्ण्याथ स व्याधस्तदा तस्मिन्वनान्तरे ।आसीच्चित्रकृताकार इव विस्मयमन्थरः ॥१॥न विशश्राम चेतोऽस्य स्वाभ्यासेन विना पदे ।आसीदुद्भ्रान्त इव स प्रोह्यमान इवार्णवे ॥२॥आरूढ इव वा चक्रे चक्रेण तपसा हृतः ।नक्रेणेव समाक्रान्तः पराक्रमविवर्जितः ॥३॥किमेतत्स्यादुतान्यत्स्यान्निर्वाणमिति संशयात् ।नाध्यगच्छदसौ शान्तिं मूर्खो यौवनवानिव ॥४॥अविद्याकृतमेवेदं दृश्यमित्येव चिन्तयन् ।अविद्या जगदित्येषा नायाति निपुणं हृदि ॥५॥कियदन्तमिदं दृश्यं स्यात्पश्याम्येतदादितः ।दूरतोर्ध्वप्रमाणेन तपोलब्धशरीरकः ॥६॥भावाभावात्मनो नित्यमस्यान्ते स्थीयते सुखम् ।तस्मादाकाशमप्यस्ति यत्र नो तत्र याम्यहम् ॥७॥इति निर्णीय हृदये मूर्ख एव बभूव सः ।गतं तादृशमप्युक्तं विनाभ्यासेन भस्मनि ॥८॥ततस्ततः प्रभृत्येव तेनैव मुनिभिः सह ।लुब्धकत्वं परित्यज्य तपश्चरितुमुद्यतः ॥९॥तस्मिञ्जगति तैर्भावैस्तैः समं निवसन्सदा ।बहून्यब्दसहस्राणि चकार सुमहत्तपः ॥१०॥तपः कुर्वन्कदाचित्स पुनः पप्रच्छ तं मुनिम् ।कदा स्यादात्मविश्रान्तिर्ममेत्याह मुनिस्ततः ॥११॥मुनिरुवाच ।ज्ञानं तदुपदिष्टं ते जीर्णदार्वल्पकाग्निवत् ।संस्थितं हृदये किंतु दाह्यमाक्रम्य नोचितम् ॥१२॥नाभ्यासेन विना ज्ञाने शिवे विश्रान्तवानसि ।अभ्यासेन तु कालेन भृशं विश्रान्तिमेष्यसि ॥१३॥भविष्यदिदमात्मीयमथाकर्णय निर्णयम् ।मम वर्णयतः कर्णभूषणं भूतलाद्भुतम् ॥१४॥संस्तुतानवबुद्धात्मा ज्ञानसारतयानया ।दोलायमानसंवित्त्वं न मूर्खो न च पण्डितः ॥१५॥अविद्यारूपमाभोगि किंप्रमाणमिदं जगत् ।स्यादित्यात्मविकल्पेन तपस्त्वं कर्तुमुद्यतः ॥१६॥इत्थं तपस्त्वया घोरं कार्यं युगशतं पृथु ।परमेष्ठी ततस्तुष्टस्त्वामुपैष्यति सामरः ॥१७॥मार्गयिष्यसि तस्य त्वं वरदस्य वरं वर ।इदमुद्दामदौरात्म्यान्निजं संदेहसंशयम् ॥१८॥देवायं दृश्यरूपेऽस्मिन्दृष्टेऽविद्याभ्रमे सति ।क्वचिदादर्शवन्नास्ति प्रतिबिम्बमलोज्झितः ॥१९॥चिद्व्योमदर्पणस्यास्य परमाण्वाकृतेरपि ।अन्तस्थस्यैव वा यत्र तत्रेदं प्रतिबिम्बति ॥२०॥तस्मात्कियदनन्तं स्यादिदं दृश्यमनर्थकृत् ।तस्य पारे कियद्वा स्यादाकाशं दृश्यमेव तत् ॥२१॥एवमर्थमहं ज्ञातुमिमं संप्रार्थये वरम् ।श्रृणु देवेश्वराविघ्नं तथैवाशु प्रयच्छ मे ॥२२॥इयं स्वच्छन्दमृत्युर्मे नीरोगाऽस्तु तनुश्चिरम् ।गारुडेन च वेगेन संयुता व्योमगामिनी ॥२३॥प्रतिनाडीकमेषा तु वृद्धिं गच्छतु योजनम् ।क्रमेण जगतो बाह्ये भवत्वाकाशरूपिणी ॥२४॥साकाशस्यास्य दृश्यस्य लभेय परमेश्वर ।अन्तमित्थमनन्तस्य परमोऽस्त्विति मे वरः ॥२५॥इति साधो त्वया प्रोक्ते देवदेवो वरं प्रभुः ।एवमस्तु तवेत्युक्त्वा यास्यत्यन्तर्धिमीश्वरः ॥२६॥गते तस्मिन्महादेवे देवैः सह दिवस्पतौ ।तपसा ते कृशो देहश्चन्द्रकान्तिर्भविष्यति ॥२७॥मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः ।प्लुतिमेष्यति स व्योम्नि चित्तस्थार्थदिदृक्षया ॥२८॥द्वितीय इव शीतांशुर्द्वितीय इव भास्करः ।द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः ॥२९॥ततो गरुडवेगेन दृश्यस्य नभसस्तथा ।अन्तं प्राप्तुं वहन्वेगाज्जगतः सरितामिव ॥३०॥जगतोन्ते ततोऽजस्रं ततो वर्धिष्यते वपुः ।कल्पान्तमत्तार्णववन्निष्पाराम्बरपूरणम् ॥३१॥द्रक्ष्यस्यथ महाव्योन्नि वर्धमानो बृहद्वपुः ।सर्गान्निरर्गलाधारनिरन्तगगनक्रमात् ॥३२॥परमार्थमहाकाशशून्यतावातचक्रकान् ।स्वभावद्रवतोद्देशाच्चिदर्णवतरङ्गकान् ॥३३॥संविद्धने यथा स्वप्ने पुराद्या भान्ति खात्मकाः ।तथा तदा तवैष्यन्ति सर्गवर्गा निरर्गलाः ॥३४॥विस्फुरन्ति महाव्योम्नि पर्णौघाः क्षुभितानिलैः ।तथा सर्गाननन्तांस्त्वं द्रक्ष्यस्यक्षीणनिश्चयः ॥३५॥सभासत्येक्षणरुचां यथा जालं सदप्यसत् ।जगदात्म तथाकाशसंविदां खे सदप्यसत् ॥३६॥सर्वोर्वीजनदृष्टानां लग्नानामिन्दुमण्डले ।यादृग्जालं जगत्तादृक्स्थितेऽनन्यत्वमात्मनः ॥३७॥पुनः सर्गः पुनर्व्योम पुनः सर्गः पुनर्नभः ।इत्येवं पश्यतस्तेऽत्र दीर्घकालः प्रयास्यति ॥३८॥अथ दीर्घेण कालेन प्रस्फुरन्सर्गपर्णके ।उद्वेगमेष्यसि व्योम्नि महामहिमनि स्वयम् ॥३९॥उद्वेगमेष्यसि ततस्तपसोऽनुभवत्फलम् ।निर्देक्ष्यसि तदा देहमनन्ताम्बरपूरकम् ॥४०॥किमिदं कुशरीरं मे भारभूतमिव स्थितम् ।मेर्वादिभूभृतां लक्षमपि यस्मिंस्तृणायते ॥४१॥देहो ममाप्रमाणोऽयं व्याप्तं व्योम मयाखिलम् ।पूरयामि खमद्यापि भावि नैवोपगम्यते ॥४२॥अविद्या बत घोरेयमनन्ता च प्रमीयते ।मीयते न च केनापि ब्रह्मज्ञानं समं विना ॥४३॥तमिमं संत्यजाम्येव देहमाविवृतान्तरम् ।नानेन किंचिदाप्नोमि साधुसच्छास्त्रसंगमम् ॥४४॥अनन्तापारपर्यन्तं निरालम्बाम्बरास्पदम् ।किं नामेदं शरीरं मे सुदुष्प्रापार्थसंगमम् ॥४५॥इति संचिन्त्य तं देहं धारणां प्राणरेचनीम् ।कृत्वा त्यक्ष्यसि संभुक्तात्फलाच्छुष्कं यथा खगः ॥४६॥कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः ।व्योम्नि स्थास्यति ते तस्मिन्वातात्सूक्ष्मोऽपि वातवत् ।छिन्नपक्षो महामेरुरिव देहः पतिष्यति ।तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति ॥४८॥शुष्का भगवती देहं तत्तदा भक्षयिष्यति ।समातृमण्डला तेन निर्दोषा भूर्भविष्यति ॥४९॥इत्यात्मोदन्तमखिलं श्रुतवानसि सुव्रत ।तपस्तालीवने कृत्वा यथेच्छसि तथा कुरु ॥५०॥व्याध उवाच ।अहो नु भगवन्दुःखं परिभोक्तव्यमक्षयम् ।मया व्यर्थमनर्थाय यदर्थेन दुरर्थितम् ॥५१॥विद्यते किं विभो काचिद्युक्तिः सैषा स्थितिर्वर ।अन्यथा भवितव्योऽर्थो यदि नास्ति तदुच्यताम् ॥५२॥मुनिरुवाच ।अवश्यंभवितव्योऽर्थो न कदाचन केनचित् ।विधातुमन्यथा शक्यस्तन्न क्षरति यत्नतः ॥५३॥वामावामशिरःपादविपर्ययविधौ यथा ।पुंसो न विद्यते शक्तिस्तथा भाव्यन्यथास्थितौ ॥५४॥ज्योतिःशास्त्रार्थविज्ञानैरिह भाव्यर्थवेदनम् ।भवत्यन्यदपूर्वं तु न किंचन कदाचन ॥५५॥जयन्ति कर्माणि हि वेदनानियैः प्राकृतैरद्यतनान्युपेत्य ।शरीरदाहैरपि निर्विकारसंविन्नयैर्ब्रह्मतयैव सुप्तम् ॥५६॥इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० भाविसंपत्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमः सर्गः ॥१५५॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP