संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ हेममयाकाशविस्तीर्णायां महाभुवि ।सौहार्दादेव सिद्धस्य तस्येदमहमुक्तवान् ॥१॥त्वया न केवलं तावन्मयापि न विचारितम् ।आव्याप्तिरहिता नाम न संभवति देहिनाम् ॥२॥कस्मान्मया तवोदन्तं विचार्यासौ स्थिरीकृता ।न कुटी व्योम्नि तेन त्वमभविष्यः स्थिरस्थितिः ॥३॥उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् ।स्वास्पदस्थितयः सौम्याः स्वात्मसिद्धौ सुसाधनम् ॥४॥इति निर्णीय तावुच्चैरुत्सृतौ तारकोपमौ ।सममेकपुटोड्डीनौ व्योम यन्त्रोपलाविव ॥५॥प्रणामपूर्वमन्योन्यमथ कृत्वा विसर्जनम् ।गतः सोऽभिमतं देशमहं चाभिमतं गतः ॥६॥इति वृत्तान्तमखिलमुक्तवानस्मि राघव ।तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम् ॥७॥श्रीराम उवाच ।भगवंस्तव देहोऽसौ पृथिव्यामणुतां गतः ।भ्रान्तः केन शरीरेण सिद्धलोकांस्ततो भवान् ॥८॥श्रीवसिष्ठ उवाच ।आ स्मृतं श्रृणु वृत्तान्तं ततो मम जगद्गृहे ।भ्रमतः सिद्धसेनासु लोकपालपुरीषु च ॥९॥अहमिन्द्रपुरं प्राप्तो न कश्चित्तत्र दृष्टवान् ।मामिमं देहरहितमातिवाहिकदेहिनम् ॥१०॥अह किल तदा राम संपन्नो गगनाकृतिः ।न चाधारो न चाधेयश्चिदाकाशमयात्मकः ॥११॥न ग्रहीता न च ग्राह्यस्त्वादृशार्थावबोधिनाम् ।न चैव देशकालानां क्वचिदावृत्तिकारकः ॥१२॥मनोमननमात्रात्मा पृथ्व्यादिपरिवर्जितः ।संकल्पपुरुषाकारः पदार्थानामरोधकः ॥१३॥अरुद्धश्च पदार्थौघैः स्वयं स्वानुभवोन्मुखः ।व्यवहर्ता तथाभूतैरेवं पुंभिर्मनोमयैः ॥१४॥स्वप्नानुभूतयो राम दृष्टान्तोऽत्राविखण्डितः ।अनुभूत्यपलापं तु यः कुर्यात्तेन तेऽस्त्वलम् ॥१५॥यथा स्वप्नचरो गेहे व्यवहर्ता न दृश्यते ।तथा तदा न दृष्टोस्मि पुरस्थोऽपि नभोगतैः ॥१६॥अहमन्यान्प्रपश्यामि पार्थिवाकारभासुरान् ।मामातिवाहिकात्मानं न कश्चिदपि पश्यति ॥१७॥श्रीराम उवाच ।न दृश्यते विदेहत्वाद्भवान्व्योमवपुर्यदि ।तत्कथं तेन सिद्धेन दृष्टोऽसि कनकावनौ ॥१८॥श्रीवसिष्ठ उवाच ।अस्मदादिर्जनो नाम यथा संकल्पकल्पितान् ।नासंकल्पितमाप्नोति सत्यकामवपुर्यतः ॥१९॥व्यवहारेषु मग्नेन लौकिकेष्वमलात्मना ।क्षणाद्विस्मर्यते पुंसा आतिवाहिकमात्मनः ॥२०॥मया पश्यतु मामेष इति संकल्पितं तदा ।तेन मां दृष्टवानेष स्वसंकल्पार्थभाजनम् ॥२१॥जनो जरठभेदत्वान्न संकल्पार्थभाजनम् ।स एष जीर्णभेदत्वात्सत्यकामत्वभाजनम् ॥२२॥द्वयोस्तु सिद्धयोः सिद्धविरुद्धेप्सितयोर्मिथः ।अधिकैकावदातात्मा जयी पुरुषयत्नवान् ॥२३॥भ्रमतः सिद्धसेनासु लोकपालपुरीषु मे ।विस्मृता व्यवहारौघैः सातिवाहिकतात्मनः ॥२४॥यदा तदाहमपरैर्व्यवहर्तुं महाम्बरे ।प्रवृत्तो न च मां कश्चित्तत्र पश्यति चञ्चलम् ॥२५॥अत्यन्तमप्यारटतः शब्दो न श्रूयते मम ।केनचित्सुरलोकेषु स्वप्नपुंस इवानघ ॥२६॥अवष्टब्धं प्रवृत्तस्य नान्यावष्टब्धये मम ।संपद्यते किंचिदपि मनोमननदेहिनः ॥२७॥एवं व्योमपिशाचोऽहं संपन्नो रघुनन्दन ।मयानुभूता काप्येषा देवागारपिशाचता ॥२८॥श्रीराम उवाच ।पिशाचाः सन्तिलोकेस्मिन्किमाकाराःकिमास्पदाः ।किंजातीयाः किमाचाराः कीदृशाः कीदृशाशयाः ॥२९॥श्रीवसिष्ठ उवाच ।पिशाचाः सन्ति लोकेऽस्मिन्यादृशास्तादृशान्श्रृणु ।न सभ्योऽसौ न यो वक्ति प्रसङ्गापतितं वचः ॥३०॥पिशाचाः केचिदाकाशसदृशाः सूक्ष्मदेहकाः ।हस्तपादादिसंयुक्ताः पश्यन्ति त्वमिवाकृतिम् ॥३१॥छायया भयदायिन्या त्वन्यत्र भ्रमरूपया ।ते चित्ताक्रमणं कृत्वा बोधयन्ति नराशयम् ॥३२॥घ्नन्त्यदन्ति पिबन्त्याशु लघुसत्त्वबलं जनम् ।बलं सत्त्वमथो जीवान्हिंसन्त्याक्रम्य चित्तकम् ॥३३॥आकाशसदृशाः केचित्केचिन्नीहारसंनिभाः ।केचित्स्वप्ननराकाराः साकारा अपि स्वात्मकाः ॥३४॥केचिदभ्रदलप्रख्याः केचित्पवनदेहकाः ।केचिद्भ्रमात्मका एव सर्वे बुद्धिमनोमयाः ॥३५॥ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो ।आकाशशून्यवपुषः पश्यन्त्याकृतिमात्मनः ॥३६॥शीतातपादिविहितं सुखं दुःखं विदन्ति च ।पातुमत्तुमवष्टब्धुमीहितुं शक्नुवन्ति नो ॥३७॥इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः ।मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः ॥३८॥सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा ।दृश्यन्तेऽपि च गृह्यन्ते कदाचित्केनचित्क्वचित् ॥३९॥देवयोनिर्हि सा तेन केचिद्देवोपमादयः ।केचिन्नरसमश्रीकाः केचिन्नागसमन्वयाः ॥४०॥श्वशृगालोपमाः केचिद्ग्रामजङ्गलवासिनः ।कुल्यावकररथ्यासु वसन्ति निरयेषु च ॥४१॥एतदास्पदमेतेषामित्याकाराः प्रकीर्तिताः ।पिशाचा एवमाचारा जन्मैषां श्रूयतामिदम् ॥४२॥अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः ।यत्स्थितं बुद्धमेवान्तश्चेत्यं संकल्पयन्निव ॥४३॥तं जीवं विद्धि स प्रौढस्त्वहंकार इति स्मृतः ।सोऽहंकारः स्मृतः पुष्टो मन इत्युदितात्मभिः ॥४४॥स एव कथ्यते ब्रह्मा सकल्पाकाशरूपवान् ।असदेवासतो बीजं जगतो विगताकृतिः ॥४५॥एवं मनःस्थितो ब्रह्मा सदेहोऽप्यमलं नभः ।तत्स्वप्नपुरुषाकारः सन्नेवासद्वपुः सदा ॥४६॥पृथ्व्यादिमूर्तिरहितस्त्वातिवाहिकदेहवान् ।पृथ्व्यादयः किल कुतः संकल्पपुरुषस्य खे ॥४७॥भवन्मनो यथाकाशपुरं पश्यति कल्पितम् ।तथा मनोविरञ्चित्वं पश्यत्यात्मनि कल्पितम् ॥४८॥यद्वेत्ति कल्पितं तत्सत्पश्यत्यनुभवत्यपि ।यो यावन्मात्रकस्तत्स कस्मात्किल न पश्यति ॥४९॥स यत्पश्यति तत्तादृक् शून्यात्मा शून्यमम्बरे ।ब्रह्म ब्रह्मणि वा ब्रह्मा तदिदं जगदुच्यते ॥५०॥तथा संप्रति भासोऽस्य चिरकालैकभावनात् ।घनीभूतः स्थितः पुष्टः सुदीर्घस्वप्नसुन्दरः ॥५१॥आतिवाहिकदेहस्य तस्य तच्चिरभावनात् ।सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्यपि ॥५२॥गतं प्रकटतोत्कर्षादाधिभौतिकदेहताम् ।तेनैव सर्ग इत्युक्तो भेदसंततिभासुरः ॥५३॥स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस्तयोः ।अजातयोरेव सदा तदात्मजगतोर्द्वयोः ॥५४॥अभिन्नयोरेव भृशं शून्यत्वाम्बरयोरिव ।ऐकात्म्येनैव वसतोः पवनस्पन्दयोरिव ॥५५॥वेत्ति भूतमयत्वं तन्मिथ्यैव न तु वास्तवम् ।तथा यथा त्वं संकल्पपुरुषस्य सतोऽसतः ॥५६॥ततः शरीरधातूनां तेन पृथ्व्यादिकाः कृताः ।अभिधाः पञ्च चित्पुष्टा जगदित्येव ताः स्थिताः ॥५७॥यथा त्वसत्य एवायं संकल्पः सत्य एव ते ।तथासावात्मसंकल्पं सत्यमेवानुभूतवान् ॥५८॥स स्वयं चिन्मयाकाशः स संकल्पश्चिदम्बरम् ।अतः स्वप्नो जगत्सर्वं कृतौ नाशोद्भवौ स्थितौ ॥५९॥यथैवैतन्मनः सत्यं तदंशाः सत्यमेव ते ।तथैव तत्कृताश्चन्द्ररुद्रार्केन्दुमरीचयः ॥६०॥एवं स्थिते जगज्जालं तन्मनोराज्यमुच्यते ।तच्च शून्यं निरालम्बमाकाशकचनं चिति ॥६१॥यथा स्वप्नपुरं व्योम संकल्पाद्रिर्यथा नभः ।तथा ब्रह्म जगच्चैव खमेवाच्छमनाकृति ॥६२॥एवमाभासमात्रस्य कचतोऽनिशमव्ययम् ।सर्गादिमध्यान्तदृशो मुधैवात्रोदिताः स्थिताः ॥६३॥किंचिदाकाशकोशस्य तव वा मम वानघ ।जगतो वापि जायेत किं वा नश्यति मे वद ॥६४॥तत्किमर्थमनर्थाय निरर्थकमपार्थकाः ।कस्मादभ्युदिता ब्रूहि रागद्वेषभयादयः ॥६५॥वस्तुतोऽङ्ग न सर्गादिर्न सर्गो नाप्यसर्गता ।विद्यते सकृदाभातमिदमित्थं सदैव तत् ॥६६॥आशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।कलनापङ्ककलिले भविष्यति चिदम्बरे ॥६७॥अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका ।तस्माद्बीजादियं जाता भूरिभूतशिलावलिः ॥६८॥नास्ति किंचिदिह क्षेत्रं व्युप्तं नाम न किंचन ।न बीजमस्ति नो जातं किंचित्सर्वं च संस्थितम् ॥६९॥याः शिलावलयस्तत्र पुष्टास्ता विबुधादयः ।यास्तु वर्णोज्ज्वला एताः स्वास्थिता बुद्धबुद्धयः ॥७०॥यास्त्वर्धपक्वास्ता एता नरनागादिजातयः ।यास्त्वाश्याना रजोनष्टास्ताः कृमिस्थावरादयः ॥७१॥यास्तु गुर्व्यः फलैर्हीनाः शून्याकाराः क्षयक्षताः ।अशरीराः शरीरिण्यस्ताःपिशाचादिकाः स्मृताः ॥७२॥न हि संकल्पितुः स्वेच्छा क्वचित्पर्यनुयुज्यते ।तास्तथेच्छा विरिञ्चस्य तथा नाम तथोदिताः ॥७३॥सर्वा एव चिदाकाशरूपिण्यो भूतजातयः ।आतिवाहिकदेहिन्यः पृथ्व्यादिरहितात्मिकाः ॥७४॥ताश्चिराभ्यासवशतस्त्वाधिभौतिकसंविदम् ।प्राप्ता दीर्घानुभवनात्स्वप्नजाग्रद्दशामिव ॥७५॥पिशाचाद्यास्तथा एते तथाभूताधिभौतिकाः ।तिष्ठन्ति तुष्टमनसः स्वसंसारविहारिणः ॥७६॥पश्यन्ति काश्चिदन्योन्यं ग्राम्या ग्राम्येयकानिव ।स्वप्नैकलोकवास्तव्या इवैता भूतजातयः ॥७७॥काश्चिद्वहुनरप्राप्तस्वप्ननिर्माणलोकवत् ।नान्योन्यमपि पश्यन्ति नानासंस्थानसंस्थिताः ॥७८॥स्थिता यथैता जगति पिशाचाद्याः कुजातयः ।प्रायस्तथैताः कुम्भाण्डयक्षप्रेतादयः स्थिताः ॥७९॥यथा यत्रेह वै निम्ना जलं तत्रावतिष्ठते ।तथा यत्र पिशाचाद्यास्तमस्तत्रावतिष्ठते ॥८०॥मध्याह्नेपि पिशाचश्चेदजिरे तिष्ठति स्वयम् ।तत्तस्यान्धं तमस्तत्र संनिधानं करोत्यलम् ॥८१॥न निहन्ति च तद्भानुर्न चान्यस्तत्प्रपश्यति ।स एव चानुभवति पश्य मायाविजृम्भितम् ॥८२॥अग्नेरादित्यचन्द्रादेस्तैजसं मण्डलं यथा ।पिशाचादेरजन्यात्म तामसं मण्डलं तथा ॥८३॥याति तेजस्यनोजस्त्वं तमस्योजःप्रधानताम् ।उलूकवत्पिशाचाद्या आश्चर्यं तत्स्वभावतः ॥८४॥एषा पिशाचाजनितस्य जातिःप्रोक्ता मया ते समयानपेता ।पिशाचतुल्यः सुरलोकपाल-लोकेषु जातोऽहमिति प्रसङ्गात् ॥८५॥इत्यार्षे श्रीवा० वा० दे० मोक्षो० नि० उ० पा० पिशाचवर्णनप्रसङ्गेन जगद्ब्रह्मणोरैक्यप्रतिपादनं नाम चतुर्नवतितमः सर्गः ॥९४॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP