संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ३३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ३३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।स्वपौरुषेण स्वधिया सत्संगमविकासया ।यदि ना नीयते ज्ञत्वं तदुपायोऽस्ति नेतरः ॥१॥स्वं कल्पितं कल्पितं च प्रतिकल्पनया स्वया ।तदेवान्यत्वमादत्ते विषत्वममृतं यथा ॥२॥कल्पना चाकल्पनान्ता मुक्तता यदकल्पनम् ।एतच्च भोगसंत्यागपूर्वं सिध्यति नान्यथा ॥३॥वचसा मनसा चान्तः शब्दार्थावविभावयन् ।य आस्ते वर्धते तस्य कल्पनोपशमः शनैः ॥४॥वर्जयित्वाहमित्येव नाविद्यास्तीतरात्मिका ।शान्ते त्वभावनादस्मिन्नान्यो मोक्षोऽस्ति कश्चन ॥५॥ अहंभावमथादेहं किंचिच्छ्रयसि नश्यसि ।जगदादिरुचिस्तस्मिंस्त्यक्ते शाम्यसि सिध्यसि ॥६॥अचेतनादिदं सर्वं सदेवासदिव स्थितम् ।शान्तं यस्योपलस्येव नमस्तस्मै महात्मने ॥७॥अचेतनादिदं सर्वमुपलस्येव शाम्यति ।शून्याख्यातः परालीनचित्तस्य चित्त्वभावनात् ॥८॥इदमस्त्वथवा मास्तु चेतितं दुःखवृद्धये ।अचेतितं सुखायान्तरचेतनमचेतनात् ॥९॥द्वौ व्याधी देहिनो घोरावयं लोकस्तथा परः ।याभ्यां घोराणि दुःखानि भुङ्क्ते सर्वैर्हि पीडितः ॥१०॥इहलोके यतन्ते ज्ञा व्याधौ भोगैर्दुरौषधैः ।आजीवितं यथाशक्ति चिकित्सा नापरामये ॥११॥परलोकमहाव्याधौ प्रयतन्ते चिकित्सनम् ।शमसत्सङ्गबोधाख्यैरमृतैः पुरुषोत्तमाः ॥१२॥परलोकचिकित्सायां सावधाना भवन्ति ये ।मोक्षमार्गमहेच्छायां शमशक्त्या जयन्ति ते ॥१३॥इहैव नरकव्याधेश्चिकित्सां न करोति यः ।गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥१४॥इहलोकचिकित्साभिर्जीवितं यातु मा क्षयम् ।आत्मज्ञानौषधैरज्ञाः परलोकश्चिकित्स्यताम् ॥१५॥आयुर्वायुचलत्पत्रलवाम्बुकणभङ्गुरम् ।परलोकमहाव्याधिर्यत्नेनाशु चिकित्स्यताम् ॥१६॥परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते ।इहलोकमयो व्याधिः स्वयमाशूपशाम्यति ॥१७॥संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।परमाणूदरेऽप्यस्ति तच्छैलशतविस्तरम् ॥१८॥यत्संविदः प्रसरणं रूपालोकमनांसि तत् ।व्योमन्येवानुभूयन्ते नातः सत्यो जगद्भ्रमः ॥१९॥प्रलयेष्वपि दृष्टेषु जगद्दृश्याख्यविभ्रमः ।न नश्यति न जायेत भ्रान्तिमात्रैकरूपिणः ॥२०॥भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि ।स्वपौरुषचमत्कृत्या तदुपायोऽस्ति नेतरः ॥२१॥अजितात्मा जनो मूढो रूढो भोगैककर्दमे ।आपदां पात्रतामेति पयसामिव सागरः ॥२२॥जीवितस्य यथा बाल्यं दृष्टं प्राथमकल्पिकम् ।निर्वाणस्य तथा भोगसंत्यागो रागशान्तिदः ॥२३॥तज्ज्ञस्य जीवितनदी सकल्लोलाप्यसंभ्रमा ।समं वहति सौम्यैव चित्रसंस्थेव नीरसा ॥२४॥अज्ञजीवितनद्यास्तु रसनात्यन्तभीषणाः ।आवर्ता वृत्तिविक्षोभकल्लोलाः सहवाहिनः ॥२५॥सर्गवर्गाः प्रवल्गन्ति संवित्प्रसरलेशकाः ।द्विचन्द्रबालवेतालमृगाम्बुस्वप्नमोहवत् ॥२६॥संविद्वारितरङ्गौघा भान्ति सर्गाः सहस्रशः ।विचारितास्त्वसत्यास्ते सत्यास्त्वनुभवभ्रमात् ॥२७॥जगन्त्याकाशकोशेऽपि संवित्प्रसरणभ्रमात् ।सन्तीवाप्यनुभूयन्ते न तु सत्यानि तानि तु ॥२८॥संविद्विकासपयसो बुद्बुदः सर्गविभ्रमः ।अहमित्यादिसद्भावविकाराकाररूपवान् ॥२९॥संविन्निर्वाणमजगत्संविदुन्मीलनं जगत् ।नान्तर्न बाह्यं नासत्यं न सत्यं सर्वमेव तत् ॥३०॥चिद्रूपमजमव्यक्तमेकमव्ययमीश्वरः ।स्वत्वभावत्वरहितं ब्रह्म शान्तात्मखादपि ॥३१॥ब्रह्मणो निःस्वभावस्य सर्गसंवेदने स्वतः ।स्पन्दने पवनस्येव कारणं नोपयुज्यते ॥३२॥स्वप्नानुभववद्भ्रान्तिर्ब्रह्माब्धौ ब्रह्मवीचयः ।सर्गता वस्तुतस्त्वत्र न स्वप्नो न च सर्गता ॥३३॥एकमेव निराभासमचित्त्वमजडं समम् ।न सन्नासन्न सदसदिदमव्ययमद्वयम् ॥३४॥यथास्थितस्यैव सतो यस्यासंवेदनात्मकम् ।संवित्प्रशमनं जातं तमाहुर्मुनिसत्तमम् ॥३५॥सतोऽपि मृन्मयस्येव यस्यासंवेदनात्मकम् ।साहं जगद्विगलितं तमाहुर्मुनिसत्तमम् ॥३६॥यथा शाम्यत्यसंकल्पात्संकल्पनगरं तथा ।वेदनोत्थं जगदहं चिति शाम्यत्यवेदनात् ॥३७॥स्वभाववर्जं शब्दार्थाः सर्व एव सहेतुकाः ।स्वभावस्य तु यो हेतुर्मुक्तिस्तदनुभावनम् ॥३८॥न कस्यचित्पदार्थस्य स्वभावोऽस्तीह कश्चन ।महाचिदम्बुद्रवताः सर्वा एवानुभूतयः ॥३९॥महाचिदनिलस्पन्दा एता एवानुभूतयः ।एतास्ता ब्रह्मगगनशून्यता इति बुध्यताम् ॥४०॥वातस्पन्दाविवाभिन्नौ ब्रह्मसर्गौ विभिन्नता ।तयोस्त्वसत्या स्वभ्रान्तौ स्वप्ने स्वमरणोपमा ॥४१॥भ्रान्तिस्तु तावत्तत्त्वार्थविचारो यावदस्फुटः ।विचारे तु स्फुटे भ्रान्तिर्ब्रह्मतामेव गच्छति ॥४२॥भ्रान्तिस्त्वसत्या वस्त्वेव प्रेक्षयातो न लभ्यते ।शशश्रृङ्गवदत्यच्छमतो ब्रह्मैव शिष्यते ॥४३॥अनादिमध्यान्तमनन्तमच्छंसमं शिवं शाश्वतमेकमेव ।सर्वां जरामोहविकारभार-भ्रान्तिं विमुच्याम्बरभावमेहि ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० सत्यार्थोपन्यासयोगो नाम त्रयस्त्रिंशः सर्गः ॥३३॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP