संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ३६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ३६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चमत्कुर्वन्त्यथानर्था आवर्ता इव वारिणि ।एकस्वभावाः सकला यथा वारितरङ्गकाः ॥१॥सर्वस्यैवास्य विश्वस्य निर्ज्ञेयज्ञेयरूपिणी ।परमाकाशतारूपं परोपशमसंश्रया ॥२॥बालचिन्ता पुरोव्योम्नि न किंचिदपि मे यथा ।तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि ॥३॥अरूपालोकमननं शिलापुत्रकसैन्यवत् ।रूपालोकमनस्कारा भान्ति केवात्र विश्वता ॥४॥रूपालोकमनस्कारा सारश्चिन्मात्रतां विना ।न लभ्यतेऽसावपरं व्योमेवात्र क्व विश्वता ॥५॥विदो वित्त्वं जगद्भ्रान्तिरवित्त्वं तु न विभ्रमः ।वित्त्वावित्त्वे त्वदायत्ते चित्ताचित्ते यथा तव ॥६॥परमाकाशरूपत्वाच्चिद्व्योम्नो वितताकृतेः ।न स्वभावविपर्यासः कश्चित्संभवति क्वचित् ॥७॥तन्मयस्यास्य विश्वस्य न स्वभावविकारिता ।विद्यते प्रेक्ष्यमाणापि किमु सास्य भविष्यति ॥८॥सर्वं चिद्व्योम चैवेदं न सत्त्वमहमित्यपि ।विकाराद्यस्ति न ज्ञप्तावज्ञप्तिं न लभेत्क्वचित् ॥९॥सर्वं शान्तं शिवं शुद्धं त्वमहंतादिविभ्रमम् ।न किंचिदपि पश्यामि व्योमजं काननं यथा ॥१०॥संविदाकाशशून्यत्वं यत्तद्विद्धि वचो मम ।इदं त्वत्संविदाकाशे स्वयमात्मनि तिष्ठति ॥११॥पदमाहुः परं सद्यदनिच्छोदयमासितम् ।पाषाणपुरुषस्येव चित्रस्थस्येव चासनम् ॥१२॥स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु ।स्पन्दो दारुनरस्येव विगतेच्छमनाकुलम् ॥१३॥अन्तःशून्यं बहिःशून्यं विरसं गतवासनम् ।जगद्वेणोरिव ज्ञस्य जीवतो भाति जीवनम् ॥१४॥यस्य न स्वदते दृश्यमदृश्यं स्वदते हृदि ।सबाह्याभ्यन्तरं शान्तः स वितीर्णो भवार्णवात् ॥१५॥उच्यन्तां शब्दजालानि वंशवद्गतवासनम् ।रसेनानङ्गलग्नेन प्रकृतानन्यचोदनैः ॥१६॥स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्यवासनम् ।कूटागारवदक्षुब्धमनिच्छममनोदयम् ॥१७॥स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् ।अपरागाभिलषणं यथाप्राप्तानि दर्विवत् ॥१८॥दृश्यन्तां रूपजालानि पुनः प्राप्तान्यवासनम् ।अरसं निर्मनोमानमगर्वं चित्रनेत्रवत् ॥१९॥जिघ्र्यन्तां गन्धपुष्पाणि विगतेच्छमवासनम् ।स्पन्दबन्धोपलग्नानि त्यागाय वनवातवत् ॥२०॥इति चेद्विरसत्वेन बोधयित्वा चिकित्सिताः ।न भोगरोगास्तद्वच्च शान्त्यै नास्ति कथैव च ॥२१॥यः स्वादयन्भोगविषं रतिमेति दिने दिने ।सोऽग्नौ स्वमूर्ति ज्वलिते कक्षमक्षयमुज्झति ॥२२॥निरिच्छत्वं समाधानमाहुरागमभूषणाः ।यथा शाम्येन्मनोऽनिच्छं नोपदेशशतैस्तथा ॥२३॥इच्छोदयो यथा दुःखमिच्छाशान्तिर्यथा सुखम् ।तथा न नरके नापि ब्रह्मलोकेऽनुभूयते ॥२४॥इच्छामात्रं विदुश्चित्तं तच्छान्तिर्मोक्ष उच्यते ।एतावन्त्येव शास्त्राणि तपांसि नियमा यमाः ॥२५॥यावती यावती जन्तोरिच्छोदेति यथा यथा ।तावती तावती दुःखबीजमुष्टिः प्ररोहति ॥२६॥यथा यथेच्छा तनुतां याति जन्तोर्विवेकतः ।तथा तथोपशाम्यन्ति दुःखचिन्ताविषूचिकाः ॥२७॥यथा यथेच्छा घनतां याति लोकस्य रागतः ।तथा तथा विवर्धन्ते दुःखचिन्ताविषोर्मयः ॥२८॥इच्छा चिकित्स्यते व्याधिर्न स्वयत्नौषधेन चेत् ।तदत्र बलवन्मन्ये विद्यते नौषधान्तरम् ॥२९॥इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते ।स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥३०॥यस्त्विच्छातानवे यत्नं न करोति नराधमः ।सोऽन्धकूपे स्वमात्मानं दिनानुदिनमुज्झति ॥३१॥दुःखप्रसवशालिन्या बीजमिच्छैव संसृतेः ।सम्यग्ज्ञानाग्निदग्धा सा न भूयः परिरोहति ॥३२॥इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् ।इच्छानुत्पादने यत्नः क्रियतां किं वृथाभ्रमैः ॥३३॥शास्त्रोपदेशगुरवः प्रेक्ष्यन्ते किमनर्थकम् ।किमिच्छाननुसंधानसमाधिर्नाधिगम्यते ॥३४॥यस्येच्छाननुसंधानमात्रे दुःसाध्यता मतेः ।गुरूपदेशशास्त्रादि तस्य नूनं निरर्थकम् ॥३५॥इच्छाविषविकारिण्यामन्त एव नृणामलम् ।दुःखप्रसरकारिण्या हरिण्या जन्म जङ्गले ॥३६॥न बालीक्रियते त्वीषदात्मज्ञानाय चेदसौ ।इच्छोपशान्तिः क्रियतां तयालं तदवाप्यते ॥३७॥निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् ।यथाशक्ति जयेदिच्छां किमेतावति दुष्करम् ॥३८॥जरामरणजन्मादि करञ्जखदिरावलेः ।बीजमिच्छा सदैवान्तर्दह्यतां शमवह्निना ॥३९॥यतो यतो निरिच्छत्वं मुक्ततैव ततस्ततः ।यावद्गति यथाप्राणं हन्यादिच्छां समुत्थिताम् ॥४०॥यतो यतश्च सेच्छत्वं बन्धपाशास्ततस्ततः ।पुण्यपापमया दुःखराशयो विततार्तयः ॥४१॥इच्छानिरासरहिते गते साधोः क्षणेऽपि च ।दस्युभिर्मुषितस्येव युक्तमाक्रन्दितुं चिरम् ॥४२॥यथा यथास्य पुंसोऽन्तरिच्छा समुपशाम्यति ।तथा तथास्य कल्याणं मोक्षाय परिवर्धते ॥४३॥आत्मनो निर्विवेकस्य यदिच्छापरिपूरणम् ।संसारविषवृक्षस्य तदेव परिषेचनम् ॥४४॥हृद्वृक्षजाः स्वसुखदुःखकुबीजकोशौवैरादिवाश्रयकृतादशुभाच्छुभाच्च ।आसाद्य दुष्कृतकृशानुशिखाः शितान्ताइच्छाश्छमच्छमिति पुंस्पशुमादहन्ति ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे संसारबीजकथनं नाम षट्त्रिंशः सर्गः ॥३६॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP