संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६० Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततोऽहमभितो भ्रान्तस्तादृशं प्रविचारयन् ।बहुकालमसंरुद्धसंविदाकाशतां गतः ॥१॥शब्दं पश्चात्तमश्रौषमहं वीणास्वनोपमम् ।क्रमात्स्फुटपदं जातं तत आर्यात्वमागतम् ॥२॥शब्ददेशपतद्वृष्टिर्दृष्टवान्वनितामहम् ।पार्श्वे कनकनिष्पन्दप्रभया भासिताम्बराम् ॥३॥आलोलमाल्यवसनामलकाकुललोचनाम् ।लोलद्धम्मिल्लवलनामन्यां श्रियमिवागताम् ॥४॥कान्तकाञ्चनगौराङ्गीं मार्गस्थनवयौवनाम् ।वनदेवीमिवामोदिसर्वावयवसुन्दरीम् ॥५॥सा पूर्णचन्द्रवदना पुष्पप्रकरहासिनी ।यौवनोद्दामवदना पक्ष्मलक्षणशालिनी ॥६॥आकाशकोशसदना शशाङ्ककरसुन्दरी ।मुक्ताकलापरचना कान्ता मदनुसारिणी ॥७॥स्वरेण मधुरेणैवमार्यामार्यविलासिनी ।पपाठाकठिनं वामा मत्पार्श्वे मृदुहासिनी ॥८॥असदुचितरिक्तचेतन-संसृतिसरिति प्रमुह्यमानानाम् ।अवलम्बनतटविटपिन-मभिनौमि भवन्तमेव मुने ॥९॥इत्याकर्ण्याहमालोक्य तां चारुवदनस्वनाम् ।ललनेयं किमनयेत्यनादृत्यैव तां गतः ॥१०॥ततो जगद्वृन्दमयीं मायां संप्रेक्ष्य विस्मितः ।अनादृत्यैव तां व्योम्नि विहर्तुमहमुद्यतः ॥११॥ततस्तां तत्कृतां चिन्तामलमुत्सृज्य खे स्थिताम् ।जगन्मायां कलयितुं व्योमात्माहं प्रवृत्तवान् ॥१२॥यावत्तानि तथोग्राणि जगन्ति सकलानि खम् ।शून्यमेव यथा स्वप्ने संकल्पे कथने तथा ॥१३॥न पश्यन्ति न शृण्वन्ति कदाचित्कानिचित्क्वचित् ।तानि कल्पमहाकल्पमहाजन्मैकतान्यथ ॥१४॥प्रमत्तपुष्करावर्तानुन्मत्तोत्पातमारुतान् ।स्फुटिताद्रीन्दृढाकारघटितब्रह्ममण्डपान् ॥१५॥ज्वलत्कल्पाग्निविस्फोटचटदैडविडास्पदान् ।प्रतपद्द्वादशाकारकन्दुमार्तण्डमण्डलान् ॥१६॥लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् ।रणसर्वाद्रिकटकश्रेणीनिगिरणोद्भटान् ॥१७॥कल्पाग्निज्वलनोल्लासपठत्पटपटारवान् ।आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान् ॥१८॥देवासुरनरागारघर्घराक्रन्दकर्कशान् ।सप्तार्णवमहापूरपूरितार्केन्दुमण्डलान् ॥१९॥न विचेतन्ति कल्पान्तान्सर्वाण्येवपरस्परम् ।एकमन्दिरसंसुप्ताः स्वप्ने रणरयानिव ॥२०॥तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च ।दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्यलं मया ॥२१॥तत्र क्वचिदनादित्ये निरहोरात्रभूतले ।आकल्पयुगवर्षान्ते जगत्यूहैः क्षयोदयः ॥२२॥चिति सर्वं चितः सर्वं चित्सर्वं सर्वतश्च चित् ।चित्सत्सर्वात्मिकेत्येतद्दृष्टं तत्र मयाखिलम् ॥२३॥त्वं किंचिदिति चेद्वक्षि तत्र किं चिदिवाङ्ग चित् ।सा हि शून्यतमा व्योम्नो न च नाम न किंचन ॥२४॥तदाकाशमिदं भाति जगदित्यभिशब्दितम् ।तेनैव शब्दनभसा सर्वे हि परमं नभः ॥२५॥दृश्यदृष्टिरियं भ्रान्तिराकाशतरुमञ्जरी ।चिद्व्योमाङ्ग कमेवेति तत्राहमनुभूतवान् ॥२६॥बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा ।तत्रानन्तेन संकल्पमनुभूतमिदं मया ॥२७॥ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश ।ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम् ॥२८॥तत्राहमिव संसारशते भाते मुनीश्वराः ।दृष्टा वसिष्ठनामानो ब्रह्मपुत्राः सदुत्तमाः ॥२९॥ब्रह्मन्द्वासप्ततिस्त्रेताः सर्वा एव सराघवाः ।तत्र दृष्टं कृतशतं द्वापराणां शतं तथा ॥३०॥भेदोदयेन वै दृष्टास्तास्ताः सर्गदशास्तथा ।बोधेन चेत्तदत्यच्छमेकं ब्रह्म नभस्ततम् ॥३१॥नेदं ब्रह्मणि नामास्ति जगद्ब्रह्मण्यथ त्विदम् ।ब्रह्मैवाजमनाद्यन्तं तत्सर्वं तत्पदादिकम् ॥३२॥पाषाणमौनप्रतिमं नकिंचिदभिशब्दितम् ।यत्तत्किंचिदिति द्योतरूपं ब्रह्म जगत्स्मृतम् ॥३३॥विभात्यचेत्यं चिद्व्योम्नि स्वसत्तैव जगत्तया ।निराकारे निराकारा स्वप्नानुभवसंनिभा ॥३४॥अनन्यमात्मनो ब्रह्म सर्वं भामात्ररूपकम् ।प्रकाशनमिवालोकः करोति न करोति च ॥३५॥तेषु नामानुभूयन्ते जगल्लक्षेषु तत्र वै ।उष्णानि चन्द्रबिम्बानि सूर्याः शीतलमूर्तयः ॥३६॥प्रजास्तमसि पश्यन्ति पश्यन्त्येव न तेजसि ।उलूकस्य समाचारास्तस्यैव सदृशस्वराः ॥३७॥इतः शुभेन नश्यन्ति यान्ति पापैस्तथा दिवम् ।विषाशनेन जीवन्ति म्रियन्तेऽमृतभोजनैः ॥३८॥यद्यथा बुध्यते बोधे यथोदेत्यथवा स्वतः ।तथाशु स्फुटतामेति सद्वासद्वा तदेव तत् ॥३९॥विटपाकारमूलौघदर्शनाद्वज्रशोभिभिः ।घूर्णते पत्रपुष्पाभैः पादपैर्व्योम्नि काननम् ॥४०॥सिकताः पीडिताः सत्यः स्रवन्ति स्नेहजं रसम् ।शिलाफलककेभ्यश्च जायन्ते कमलान्यलम् ॥४१॥दारुण्यश्मनि भित्तौ च चञ्चलाः शालभञ्जिकाः ।देवाङ्गनाभिः सहितं गायन्ति कथयन्ति च ॥४२॥मेघान्परिदधत्युच्चैर्भूतान्युच्चैः पटानिव ।प्रतिवर्षं विजातीयान्युत्पद्यन्ते फलान्यगे ॥४३॥संनिवेशैर्न नियतैरङ्गानां विविधाङ्गकैः ।शिरोभिः सर्वभूतानि परिक्रामन्ति भूमिगैः ॥४४॥शास्त्रवेदविहीनानि निर्धर्माण्येव कानिचित् ।यत्किंचनैककारीणि तिर्यग्वन्ति जगन्त्यधः ॥४५॥कामसंवित्तिहीनानि निःस्त्रीजातानि कानिचित् ।भूतैः संशुष्कहृदयैर्व्याप्तान्यश्ममयैरिव ॥४६॥पवनाशनभूतानि समरत्नाश्मकानि च ।अजातार्थान्यलुब्धानि निगर्वाणीव कानि च ॥४७॥क्वचित्प्रत्येकमात्मानं पश्यत्याप्नोति नेतरत् ।बहुभूतकमप्यस्ति जगदित्येकभूतकम् ॥४८॥नखकेशादिके यद्वत्तद्वदन्यत्र संस्थितः ।आत्मवत्सर्वभूतानामेकीभूतात्मभावना ॥४९॥अनन्तापारपर्यन्त शून्यमेव बहु क्वचित् ।यत्नतः संविदाप्नोति तस्यान्ते न जगत्पुनः ॥५०॥अत्यन्ताबुद्धबुद्धानि मोक्षशब्दार्थदृष्टिषु ।दारुयन्त्रमयाशेषभूतौघानीव कानिचित् ॥५१॥ऋक्षचक्रविहीनानि निष्कालकलनानि च ।मूकसंकेतसाराणि भूतजालानि कानिचित् ॥५२॥कानिचिद्वर्जितान्येव नेत्रशब्दार्थसंविदा ।व्यर्थदीप्तात्मतेजांसि भूतानीत्येकचिन्तया ॥५३॥प्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् ।मूकानि शब्दवैयर्थ्याच्छ्रुतिहीनानि कानिचित् ॥५४॥वाक्यसंविद्विहीनत्वान्मूकान्यन्यानि कानिचित् ।स्पर्शसंविद्विहीनत्वादश्माङ्गानीव कानिचित् ॥५५॥संविन्मात्रमयान्येव दृष्टान्यपि च कानिचित् ।व्यवहारीण्यप्यग्राह्याण्येव नित्यं पिशाचवत् ॥५६॥भूमयान्येकनिष्ठानि निष्पिण्डान्येव कानिचित् ।कानिचिद्वारिपूर्णानि वह्निपूर्णानि कानिचित् ॥५७॥कानिचिद्वातपूर्णानि सर्वाकाराणि कानिचित् ।जगन्ति व्योमरूपाणि वत तत्र कचन्ति खे ॥५८॥धरापीठैकपूर्णेषु तिष्ठन्त्यन्येषु देहिनः ।भेका इव शिलाकोशे कीटा इव धरोदरे ॥५९॥जलैकपरिपूर्णेषु तिष्ठन्त्युर्वीवनाद्रिषु ।भ्रमन्त्यन्येषु भूतानि नित्यमेवोग्रमीनवत् ॥६०॥अन्येष्वग्न्येकपूर्णेषु जलादिरहितान्यपि ।भूतान्यग्निमयान्येव स्फुरन्त्यलमलातवत् ॥६१॥अन्येष्वनिलपूर्णेषु भूतान्यस्तेतराण्यपि ।वातमात्रमयाङ्गानि स्फुरन्त्यर्जुनवातवत् ॥६२॥अन्येषु व्योममात्रात्मदेहेषु व्योमरूपिणः ।प्राणिनः सन्ति सर्गेषु दर्शनव्यवहारिणः ॥६३॥पातालपातिषु तथाम्बरमुत्पतत्सुतिष्ठत्सु विभ्रमपदेष्वथ दिङ्मुखेषु ।नानाजगत्सु किमिवास्ति मया न दृष्टंयन्नाम चिज्जलधिचञ्चलबुद्बुदेषु ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पाषा० जगज्जालवर्णनं नाम षष्टितमः सर्गः ॥६०॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP