संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चिद्व्योमार्थतयार्थानां यथास्थितमिदं जगत् ।सरूपालोकमननमपि चिद्व्योम केवलम् ॥१॥स्वप्नचित्पुररूपत्वादन्यद्यस्मान्न विद्यते ।जगत्तस्मान्नभः शान्तं नेह नानास्ति किंचन ॥२॥चिदाभानमनानैव नानेव परिलक्ष्यते ।अनात्मैवात्मनात्मानं स्वप्नाकाशपुरेष्विव ॥३॥सर्गादाविव चिद्व्योम स्वप्नाकाशपुरं जगत् ।आभातमेवासत्यं च नूनं सत्यमिव स्थितम् ॥४॥तज्ज्ञाज्ञातो न मूर्खाणामज्ञाज्ञातो न तद्विदाम् ।विद्यते सर्गशब्दार्थः सत्यासत्यमयात्मकः ॥५॥तज्ज्ञाज्ञयोस्तयोरन्तःप्रतिपत्तौ तु यत्स्थितम् ।न बोद्धुं न च वक्तुं ते जानीतस्तौ परस्परम् ॥६॥स्वबुद्धौ स्वर्गशब्दार्थो मिथोन्तस्तत्किलानयोः ।स्थैर्यास्थैर्ये जाग्रतो द्वे अक्षीबक्षीवयोरिव ॥७॥द्रवस्थितिमिता यद्वत्सरिद्वारिणि वीचयः ।चितौ स्थितिमितास्तद्वच्चेतनात्सर्गवीचयः ॥८॥चिद्रूपं यन्न किंचित्तदिदं किंचिदवस्थितम् ।भाति दृश्यमिवादृश्यमपि स्वप्नपुरेष्विव ॥९॥चिच्छायेयं प्रकचति जगदित्यभिशब्दिता ।नन्वमूर्तैव मूर्तेव द्रव्यच्छायेव वै तता ॥१०॥कायमात्रकमेवेदं भ्रान्तिमात्रमसन्मयम् ।पिशाचविभ्रमालोकप्रायमायासनं दृढम् ॥११॥मनोराज्यमिवासत्यं लोलं लम्बाम्बुबिन्दुवत् ।द्वाभ्यामित्यनुभूतिभ्यां यदसत्तत्र कात्मता ॥१२॥विदार्यदारुरववत्तरङ्गानिलशब्दवत् ।खे शब्दाः पवनस्फोटा भान्त्यर्था वासनोदयाः ॥१३॥सर्गादितः स्वपरिभा कचति स्वप्नशैलवत् ।वस्तुतस्तु न शब्दोस्ति नार्थोऽस्ति न च दृश्यता ॥१४॥यदिदं चास्ति चाभाति तत्सर्वं परमार्थसत् ।अन्यादृक्कारणाभावात्सर्गादावेव नोदितम् ॥१५॥निरस्तशब्दभेदार्थमनिरस्ताखिलार्थकम् ।शाम्यामि परिनिर्वामि व्योमैवास्मीति बुद्ध्यताम्॥१६॥त्यज्यतामात्मविश्रान्त्या शुद्धबोधैकरूपया ।जीवेऽजवं जवीभावस्त्वसदुत्थित आत्मना ॥१७॥आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।आत्मात्मना न चेत्त्रातस्तदुपायोऽस्ति नेतरः ॥१८॥तर तारुण्यमस्तीदं यावत्ते तावदम्बुधेः ।ननु संसारनाम्नोऽस्माद्बुद्ध्या नावा विशुद्धया ॥१९॥अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥२०॥शैशवं वार्धकं ज्ञेयं तिर्यक्त्वं मृतिरेव च ।तारुण्यमेव जीवस्य जीवितं तद्विवेकि चेत् ॥२१॥संसारमिममासाद्य विद्युतसंपातचञ्चलम् ।सच्छास्त्रसाधुसंपर्कैः कर्दमात्सारमुद्धरेत् ॥२२॥अहो बत नराः क्रूरा गतिः कैषां भविष्यति ।कुर्वन्ति कर्दमोन्मग्ने नात्मन्यपि निजोदयम् ॥२३॥यथा मृन्मयवेतालसभा ग्राम्यस्य भङ्गदा ।यथा भूतार्थविज्ञानान्मृन्मय्येव न भङ्गदा ॥२४॥तथा ब्रह्ममयी दृश्यलक्ष्मीरज्ञस्य भङ्गदा ।यथा भूतार्थविज्ञाने ब्रह्मैवास्ते न भङ्गदा ॥२५॥शाम्यत्यशान्तमेवेदं स्थितमेव विलीयते ।दृश्यं तत्त्वपरिज्ञानाद्दृश्यमानं न दृश्यते ॥२६॥स्फुटानुभवनस्यापि स्वप्नकाले निजे यथा ।परिज्ञानादसत्यत्वमेव सत्यपदं गता ॥२७॥तथानुभूयमानापि सर्गसंवेदनाम्बरे ।चिन्मये तत्त्वविज्ञानाच्छून्यतैवावशिष्यते ॥२८॥जातिज्वरज्वलितजीवितजङ्गलेषुजीर्णानि वातहरिणाहरणक्रमेण ।माद्यन्मनःपवनपातयुतान्यमूनिजित्वेन्द्रियाणि जयमेहि जहीहि जन्म ॥२९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वा० दे० मो० नि० उ० अ० वि० अविद्यानिरसनो नाम द्विषष्ट्यधिकशततमःसर्गः ॥१६२॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP