संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ८७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ८७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततश्चिदाकाशवपुर्व्याप्यनन्तो निरामयः ।दत्तावधानो वपुषि तदा पश्याम्यहं क्वचित् ॥१॥यावदन्तर्गतः सर्गः संस्थितोऽङ्कुरितोपमः ।कुसूलस्येव बीजस्य सिक्तस्येवाङ्कुरो हृदि ॥२॥ऊर्ध्वमुच्छून एवान्तःसेकाद्बीजे यथाङ्कुरः ।आकारवत्यनाकारे चित्त्वाचित्त्वे तथा जगत् ॥३॥यथोन्मिषति दृश्यश्रीः सुषुप्ताद्बोधमेयुषः ।जाग्रद्वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात् ॥४॥तथैवात्मनि सर्गादावनुभूतस्वरूपिणि ।हृदि सर्गोदयो नान्यरूप आकाशरूपतः ॥५॥श्रीराम उवाच।आकाशरूप आकाशे परमाकाश कथ्यताम् ।भूयो निपुणबोधाय कथं सर्गः प्रवर्तते ॥६॥श्रीवसिष्ठ उवाच ।शृणु राम यथापूर्वं स्वयंभूत्वं मया तदा ।अनुभूतमसत्सद्वदिदं स्वप्नपुरोपमम् ॥७॥तमालोक्य महाकल्पसंभ्रमं व्योमरूपिणा ।भागेऽन्यत्र शरीरस्य संविदुन्मेषिता मया ॥८॥यदैव सामला संवित्किंचिदुन्मेषिता स्थिता ।तदैवाहं क्वचित्तत्र पश्याम्याकाशतामिव ॥९॥गतं स्वभावं चिद्व्योम यथा त्वं राम निद्रया ।जाग्रद्वा स्वप्नलोकं वा विशन्वेत्सि ससं घनम् ॥१०॥दिङ्मात्राकाशमेवादौ ततोऽस्मीत्येव वेदनम् ।तद्घनं कथ्यते बुद्धिः सा घना मन उच्यते ॥११॥तद्वेत्ति शब्दतन्मात्रं तन्मात्राणीतराण्यथ ।पञ्चेन्द्रियाणि तत्स्थौल्यादितीन्द्रियगणोदयः ॥१२॥सुषुप्ताद्विशतः स्वप्नं जगद्दृश्यघनोदयम् ।यथा तथैव सर्गादौ दुःखं भाति निमेषतः ॥१३॥तुल्यकालमनन्तेऽस्मिन्दृश्यजालावभासने ।कथयन्ति क्रमं केचित्केचिन्न कथयन्ति च ॥१४॥परमाणुकणे कान्ते संपन्नमनुभूतवान् ।अहं चेतनमात्मानं वस्तुतोऽमलमेव खम् ॥१५॥यथा स्वभावतो व्योम्नि चलत्येवानिशं मरुत् ।तथा स्वभावात्सर्वत्र पश्यत्येव वपुस्त्विति ॥१६॥यादृशं चेतितं रूपं शक्त्या परमया तया ।तच्छक्नोत्यन्यथाकर्तुं नैषा यत्नेन भूयसा ॥१७॥ततः पश्याम्यहं यावत्संपन्नोऽप्यणुरूपकः ।चित्त्वाच्चेतस्तदेवाशु तथाभूतोऽस्मि संस्थितः ॥१८॥ततोऽहं बुद्धवान्रूपं तनु तेजःकणाकृति ।तदेव भावयन्पश्चाद्गतोऽहं स्थूलतामिव ॥१९॥प्रेक्षे तावदहं किंचिदिति बोधाल्लघोस्ततः ।मनागालोकनायैव संप्रवृत्तोऽनुभूतवान् ॥२०॥यन्नाम तत्र तत्किंचित्तस्येहाद्य रघूद्वह ।शृणु नामानि मुख्यानि कल्पितानि भवादृशैः ॥२१॥द्रष्टुं प्रवृत्तो रन्ध्रेण येन तच्चक्षुरुच्यते ।यच्च पश्यामि तद्दृश्यं दर्शनं तु फलं ततः ॥२२॥यदा पश्यामि कालोऽसौ यथा पश्यामि स क्रमः ।प्रौढा नियतिरित्यस्य यत्र पश्यामि तन्नभः ॥२३॥स्थितोऽस्मि यत्र देशोऽसावित्यद्यैषा प्रकल्पना ।तदा त्वहं चिदुन्मेषमात्रात्तन्मात्रकारणम् ॥२४॥पश्यामीति ततस्तत्र मनाग्वोधो ममोदभूत् ।ततो रन्ध्रद्वयेनाहमपश्यं यत्तदप्यखम् ॥२५॥याभ्यामपश्यं रन्ध्राभ्यां त इमे लोचने स्थिते ।ततः किंचिच्छृणोमीति संविदित्युदिता मम ॥२६॥ततः किंचिन्मनाङ्मात्रं झंकारं श्रुतत्रानहम् ।प्रध्मातस्येव शङ्खस्य शब्दं व्योम्नः स्वभावजम् ॥२७॥याभ्यामहमथाश्रौषं त इमे श्रवणव्रणे ।प्रदेशाभ्यां विचरता मरुता विततस्वनम् ॥२८॥स्पर्शसंवेदनं किंचिदहमत्रानुभूतवान् ।येन नाम प्रदेशेन तेन सा त्वक्च कथ्यते ॥२९॥येन स्पृष्टमिवाङ्गं तत्तदाहमनुभूतवान् ।सत्संवेदनमात्रात्मा सोऽयं वायुरिति स्मृतः ॥३०॥स्पर्शनेन्द्रियतन्मात्रमिति वेदिनि संस्थितम् ।आस्वादसंविद्याभून्मे तदास्वाद्यरसेन्द्रियम् ॥३१॥प्राणान्मे घ्राणतन्मात्रमुदितं व्योमरूपिणः ।इत्थं न किंचित्संपन्नं सर्वं संपन्नमत्र मे ॥३२॥एवमिन्द्रियतन्मात्रजालं चेत्तत्र संस्थितः ।यावत्तावद्विदः पञ्च बलादेव ममोदिताः ॥३३॥शब्दरूपरसस्पर्शगन्धमात्रशरीरिकाः ।अनाकारास्तथा भातस्वरूपिण्यो भ्रमात्मिकाः ॥३४॥एवंरूपमहं जालं भावयन्यत्तदास्थितः ।तदहंकार इत्यद्य कथ्यते त्वादृशैर्जनैः ॥३५॥एष एव घनीभूतो बुद्धिरित्यभिधीयते ।साथ बुद्धिर्घनीभूता मन इत्यभिधीयते ॥३६॥अन्तःकरणरूपत्वमेवमत्राहमास्थितः ।आतिवाहिकदेहात्मा चिन्मयव्योमरूपवान् ॥३७॥पवनाद्यप्यहं शून्यः केवलाकाशमात्रकः ।सर्वेषामेव भावानां शून्याकृतिररोधकः ॥३८॥अथैवंभावनाच्चाहं यदा तत्र चिरं स्थितः ।तदाहं देहवान्दृष्ट इति मे प्रत्ययोऽभवत् ॥३९॥तेनाहंप्रत्ययेनाथ शब्दं कर्तुं प्रवृत्तवान् ।शून्य एव यथा सुप्तः स्वप्नोड्डीननरो रवम् ॥४०॥अथ पूर्वं कृतः शब्दो बालेनेव तदोमिति ।ततः स एष ओंकार इति नीतः पुनः प्रथाम् ॥४१॥ततः स्वप्ननरेणेव यत्किंचिद्गदितं मया ।तदेतद्विद्धि वाचं त्वं पश्चान्नीतां प्रथामिह ॥४२॥ब्रह्मैव सोऽस्मि संपन्नः सृष्टेः कर्ता जगद्गुरुः ।ततो मनोमयेनैव कल्पिताः सृष्टयो मया ॥४३॥एवमस्मि समुत्पन्नो न तु जातोऽस्मि किंचन ।दृष्टवानस्मि ब्रह्माण्डं ब्रह्माण्डान्तं न किंचन ॥४४॥एवं जगति संपन्ने ममैतस्मिन्मनोमये ।न किंचित्तत्र संपन्नं तच्छून्यं व्योम केवलम् ॥४५॥इत्थं संशून्यमेवेदं सर्वं वेदनमात्रकम् ।मनागपि न सन्त्येते भावाः पृथ्व्यादयः किल ॥४६॥जगन्मृगतृडम्बूनि भान्ति संविदि संविदः ।न बाह्यमस्ति नो बाह्ये खे तद्व्योम तथा स्थितम् ॥४७॥मरौ नास्त्येव सलिलं संवित्पश्यति तत्तथा ।निर्मूलमन्तःसंतप्ता स्वसंभ्रमवती भ्रमम् ॥४८॥नास्त्येव ब्रह्मणि जगत् संवित्पश्यति तत्तथा ।निर्मूलमेव संवित्त्वादेवं भ्रान्तेश्च संभ्रमम् ॥४९॥असदेवेदमाभाति हृद्येव जगदाततम् ।संकल्पनमनोराज्यं यथा स्वप्नपुरादिवत् ॥५०॥पार्श्वसुप्तजनस्वप्नस्तच्चित्तावेशनं विना ।यथा न किंचित्तच्चित्तावेशनादनुभूयते ॥५१॥तथा जगत्तद्दृषदं संप्रविश्यानुभूयते ।आदर्शबिम्बिताकारं दृष्टमप्यन्यथाप्यसत् ॥५२॥आधिभौतिकभावेन नेत्रेण यदि लक्ष्यते ।तत्तन्न दृश्यते किंचिद्गिरिरेव प्रदृश्यते ॥५३॥आतिवाहिकदेहेन परं बोधदृशा यदि ।प्रेक्ष्यते दृश्यते सर्गः परमात्मैव चामलः ॥५४॥सर्वत्र सर्गनिर्वाणं प्रज्ञालोकेन लक्ष्यते ।ब्रह्मात्मैवान्यथा चेत्तन्न किंचिदभिलक्ष्यते ॥५५॥यत्पश्यत्यवदाता धीः सोपपत्तिविचारणा ।न तन्नेत्रैस्त्रिभिः शर्वो नेन्द्रो नेत्रशतैरपि ॥५६॥यथा खमावृतं सर्गैस्तथा भूरिति बुद्धवान् ।तदाहमभवं ध्याता धराधारणयान्वितः ॥५७॥तया धराधारणया धरारूपधरोऽभवम् ।अत्यजन्नेव चिद्व्योमवपुः सम्राडिवाचिरात् ॥५८॥धराधारणया चैव धराधातूदरं गतः ।द्वीपाद्रितृणवृक्षादिदेहोऽहमनुभूतवान् ॥५९॥संपन्नोऽस्म्यथ भूपीठे नानावनतनूरुहम् ।नानारत्नावलीव्याप्तॆ नानानगरभूषणम् ॥६०॥ग्रामगह्वरपर्वाढ्यं पातालसुषिरोदरम् ।कुलाचलभुजाश्लिष्टद्वीपाब्धिवलयान्वितम् ॥६१॥तृणौघतनुरोमाढ्यं गिरिखण्डकगुल्मकम् ।दिग्वारणकटव्यूहधृतं शेषशिरःशतैः ॥६२॥ह्रियमाणं महीपालः शोभमानेभतन्तुभिः ।प्राणिभिर्भुज्यमानाङ्गं वर्धमानं व्यवस्थया ॥६३॥हिमवद्विन्ध्यसुस्कन्धं सुमेरूदारकन्धरम् ।गङ्गादिसरिदापूरमुक्ताहाररणत्तनुम् ॥६४॥गुहागहनकच्छादि सागरादर्शमण्डलम् ।मरूषरस्थलश्वेतसुवराम्बरसुन्दरम् ॥६५॥भूतपूर्वैः परापूर्णं परिपूतं महार्णवैः ।अलंकृतं पुष्पवनैः समारब्धं रजोघनैः ॥६६॥नित्यं कृषीवलैः कृष्टं वीजितं शिशिरानिलैः ।तापितं तपनैस्तप्तैरुक्षितं प्रावृडम्बुभिः ॥६७॥विपुलाग्रस्थलोरस्कं पद्माकरकृतेक्षणम् ।सितासितघनोष्णीषं दशाशोदरमन्दिरम् ॥६८॥लोकालोकमहाखातवलयोग्रास्यभीषणम् ।अनन्तभूतसंघातपरिस्पन्दैकचेतनम् ॥६९॥व्याप्तमन्तर्बहिश्चैव नानाभूतगणैः पृथक् ।देवदानवगन्धर्वैर्बहिरन्तस्तु कीटकैः ॥७०॥पातालेन्द्रियरन्धेषु नागासुरकृमिव्रजैः ।सप्तस्वर्णवकोशेषु नानाजातिजलेचरैः ॥७१॥व्याप्तं नदीवनसमुद्रदिगन्तशैल-द्वीपाख्यजन्तुविषयस्थलजङ्गलौघैः ।नानावलीवलितमण्डलकोशखण्डंवल्लीसरःसरिदरातिगणाब्जखण्डैः ॥७२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो- नि० उ० पा० पार्थिवधात्वन्तर्गतजगदानन्त्यप्रतिपादनं नाम सप्ताशीतितमः सर्गः ॥८७॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP