संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४९ Translation - भाषांतर व्याध उवाच ।अनन्तरं मुने ब्रूहि तत्तत्त्वं जागतस्य ते ।किं वृत्तमुरुवृत्तान्तशतनिर्वाणसंसृतेः ॥१॥मुनिरुवाच ।ततः श्रृणु तदा साधो तस्मिंस्तद्धृदयौजसि ।अपूर्वं एव वृत्तान्तः को वृत्तो वृत्तसस्पृह ॥२॥तथा मम च तत्रस्थविस्मृतात्मचमत्कृतेः ।अभ्यवर्तत वै कालो ऋतुसंवत्सरात्मकः ॥३॥कलत्ररञ्जितमतेर्मम वर्षाणि षोडश ।तत्र तानि व्यतीतानि गृहस्थाश्रमतोऽमतेः ॥४॥कदाचिच्चाजगामाथ गृहमुग्रतपा मम ।मुनिर्मान्यो महाबोधो बुधोऽतिथितया तथा ॥५॥सोऽत्र संपूजितस्तुष्टः सुप्तवान्भुक्तवांस्ततः ।इदमङ्ग मया पृष्टो विमृश्य जनताक्रमम् ॥६॥भगवन्भूरिबोधोऽसि जानासि जगतो गतीः ।यस्माददृष्टक्रोधोऽसि सुखे गृह्णासि नो रतिम् ॥७॥सुखदुःखान्युपायान्ति कर्मभिः कर्मशालिनाम् ।शुभाशुभैः शरत्काले सस्यानीव फलार्थिनाम् ॥८॥सममेवाशुभं कर्म किमिमाः सकलाः प्रजाः ।कुर्वन्त्यासां यदा यान्ति दोषाः सर्वादयः समम् ॥९॥दुर्भिक्षावग्रहोत्पातं सर्वादि सममेव किम् ।जनजालस्य फलति समाना कस्य दुष्क्रिया ॥१०॥इत्याकर्ण्य समालोक्य स्मयमान इवोन्मनाः ।स उवाच वचो वन्द्यममृतस्यन्दसुन्दरम् ॥११॥अन्यमुनिरुवाच ।साधो साधु विविक्तान्तःकरणे यत्तु कारणम् ।सद्वासद्वास्य दृश्यस्य कस्माज्जानासि कथ्यताम् ॥१२॥संस्मरात्मानमखिलं कस्त्वं क्वेह स्थितोऽसि च ।क्वाहं वा किमिदं दृश्यं किं सारं किंचिदेव च ॥१३॥स्वप्नमात्रमिदं भाति किल कस्मान्न वेत्सि भो ।अहं स्वप्ननरो यत्ते त्वं स्वप्नपुरुषोपमः ॥१४॥अनाकारमनाख्येयमनाद्यमपकल्पनम् ।इदं चिन्मात्रकाचस्य काचकच्यं जगत्स्थितम् ॥१५॥रूपमीदृशमेवास्य चिन्मात्रस्यास्त्यकृत्रिमम् ।सर्वगस्य यदेतद्यद्यत्र वेत्यस्ति तत्र तत् ॥१६॥सकारणत्वकलनात्सर्वमस्य सकारणम् ।अकारणत्वकलनादस्य सर्वमकारणम् ॥१७॥आसां प्रजानां त्वस्माकं विराडात्मा स आततः ।वयं हृदि स्थिता यस्य स चास्मच्चिद्वशादितः ॥१८॥भविष्यत्यपरोऽन्यासां विराडात्मा स एव च ।कारणं सुखदुःखानां भावाभावात्मकर्मणाम् ॥१९॥विराड्धातुविकारेण विषमस्पन्दनादिना ।तदङ्गावयवस्यास्य जनजालस्य वै समम् ॥२०॥दुर्भिक्षावग्रहातीतमायाति शममेति वा ।यस्माद्विराजो या सत्ता सा सर्गस्यास्य सर्गता ॥२१॥काकतालीयवत्साधो केषुचिद्दुष्टकर्मसु ।समं पतति दुःखादि पादपेष्वशनिर्यथा ॥२२॥कर्मकल्पनया संवित् स्वकर्मफलभागिनी ।कर्मकल्पनयोन्मुक्ता न कर्मफलभागिनी ॥२३॥या या यत्र यथोदेति कल्पनाल्पाथवाधिका ।सा सा तत्र तथैवास्ते सहेतुकमहेतुकम् ॥२४॥नास्त्येव स्वप्नमयेकारणसहकारि कारणादिपुरे ।तस्मात्तदनादि शिवंचेतनमजरं परं ब्रह्म ॥२५॥एष स्वप्नभ्रमो नाम भाति कश्चिदकारणम् ।कश्चित्सकारणो भाति शून्यः सदसदात्मकः ॥२६॥काकतालीयवद्भान्ति स्वप्नाः सकलसंविदः ।ताभ्यस्तुल्योपलम्भत्वान्नान्यज्जगदिदं ततम् ॥२७॥सकारणतया रूढमिह यत्तत्सकारणम् ।अकारणतया रूढमिह यत्तदकारणम् ॥२८॥कार्यकारणमयक्रमोदितंस्वप्न एष चितिभानमात्रकं ।जाग्रदाख्यमहतः स्वभावकंतेन शान्तमखिलं परं विदुः ॥२९॥सत्यकारणका भावाः के ते श्रृणु महामते ।कारणं किं स्वभावानां किमिहाकाशकारणम् ॥३०॥पृथ्व्यादेर्घनपिण्डत्वसर्गादेः किं च कारणम् ।किं कारणमविद्यायाः कारणं किं स्वयंभुवः ॥३१॥सर्गादौ कारणं किं स्याद्वायूनां तेजसां च किम् ।किमपां वेदनामात्ररूपाणां गगनात्मकम् ॥३२॥पिण्डग्रहे देहलाभे मृतानां किं च कारणम् ।एवमेव प्रवर्तन्ते सर्गाः प्रथमतोऽखिलाः ॥३३॥एवमेव प्रवर्तन्ते जगत्यावलयन्ति च ।चक्रकाणीव नभसि चिरसंप्रेक्षणादृशा ॥३४॥एवमेव प्रवृत्तेन सर्गेण ब्रह्मरूपिणा ।पश्चात्स्वस्यैव रूपस्य संज्ञाः पृथ्व्यादिकाः कृताः ॥३५॥वातस्पन्दवदाभान्ति सर्गाः पूर्वं चिदम्बरे ।स्वयमेव च कुर्वन्ति देहकारणकल्पनाः ॥३६॥यद्यथा कल्प्यते धत्ते तत्तथा नियतिर्वपुः ।कल्पितायाश्चितेर्यस्मादेवमेतन्निजं वपुः ॥३७॥यद्यद्भानात्मकं रूपं प्रथमं चेतितं चिता ।स्वतोऽहमेव चित्येव तदद्यापि तथा स्थितम् ॥३८॥पुनरन्येन यत्नेन तदुत्कृष्टेन सैव चित् ।शक्ता तदन्यथाकर्तुं यत्नेन महता पुनः ॥३९॥कल्प्यते कारणं यत्र तत्र कारणसारता ।न कल्प्यते विदा यत्र कारणं तदकारणम् ॥४०॥वात्यावर्तवदाभातमिदं प्रथममाततम् ।असदेव यथा भातं तथैवाद्यापि संस्थितम् ॥४१॥संभूय केचन शुभाशुभमात्मकर्मकुर्वन्ति तस्य सदृशं फलमाप्नुवन्ति ।संप्राप्नुवन्ति च शिलाशनिवच्च केचि-द्दुःखं त्वकारणकमेव सहस्रसंख्याः ॥४२॥इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० श० कारणविचारो नामैकोनपञ्चाशदधिकशततमः सर्गः ॥१४९॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP