संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ८४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ८४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८४ Translation - भाषांतर श्रीराम उवाच ।अनन्तरं मुने ब्रूहि काली किमिव नृत्यति ।किं शूर्पफलकुद्दालमुसलादिस्रजाऽऽवृता ॥१॥श्रीवसिष्ठ उवाच ।स भैरवश्चिदाकाशः शिव इत्यभिधीयते ।अनन्यां तस्य तां विद्धि स्पन्दशक्तिं मनोमयीम् ॥२॥यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा ॥३॥स्पन्देन लक्ष्यते वायुर्वह्निरौष्ण्येन लक्ष्यते ।चिन्मात्रममलं शान्तं शिव इत्यभिधीयते ॥४॥तत्स्पन्दमायाशक्त्यैव लक्ष्यते नान्यथा किल ।शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि ॥५॥स्पन्दशक्तिस्तदिच्छेदं दृश्याभासं तनोति सा ।साकारस्य नरस्येच्छा यथा वै कल्पनापुरम् ॥६॥करोत्येव शिवस्येच्छा करोतीदमनाकृतेः ।सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणाम् ॥७॥प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता ।दृश्याभासानुभूतानां करणात्सोच्यते क्रिया ॥८॥वडवाग्निशिखाकाराच्छोष्याच्छुष्केति कथ्यते ।चण्डित्वाच्चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः ॥९॥जया जयैकनिष्ठत्वात्सिद्धा सिद्धिसमाश्रयात् ।जयन्ती च जया प्रोक्ता विजया विजयाश्रयात् ॥१०॥प्रोक्ता पराजिता वीर्याद्दुर्गा दुर्ग्रहरूपतः ।ओंकारसारशक्तित्वादुमेति परिकीर्तिता ॥११॥गायत्री गायनात्मत्वात्सावित्री प्रसवस्थितेः ।सरणात्सर्वदृष्टीनां कथितैषा सरस्वती ॥१२॥गौरी गौराङ्गदेहत्वाद्भवदेहानुषङ्गिणी ।सुप्तानामथ बुद्धानाममात्रोच्चारणाद्धृदि ॥१३॥नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते ।शिवयोर्व्योमरूपत्वादसितं लक्ष्यते वपुः ॥१४॥नभो हि मांसमेताभ्यां दृष्टिदृष्टं विलोक्यते ।अस्ति नभो नभस्येव तौ नभोनभसि स्थितौ ॥१५॥नभोनिभावभूताङ्गावच्छौ व्योम्न इवाग्रजौ ।हस्तपादास्यमूर्ध्नो यद्वहुत्वाल्पत्वभेदतः ॥१६॥नानात्वं हलशूर्पादिस्रग्धरत्वं च तच्छृणु ।सा हि क्रिया भगवती परिस्पन्दैकरूपिणी ॥१७॥दद्यात्स्नायाच्च जुहुयादित्याद्यग्रशरीरिणी ।चितिशक्तिरनाद्यन्ता तथा भातात्मनात्मनि ॥१८॥साकाशरूपिणी कान्ता दृश्यश्रीः स्पन्दधर्मिणी ।देव्यास्तस्या हि याः काल्या नानाभिनयनर्तनाः ॥१९॥ता इमा ब्रह्मणः सर्गजरामरणरीतयः ।क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः ॥२०॥स्पन्दान्करोति धत्तेऽन्तः कल्पितावयवात्मिका ।काली कमलिनी काली क्रिया ब्रह्माण्डकालिका ॥२१॥धत्ते स्वावयवीभूतां दृश्यलक्ष्मीमिमां हृदि ।न कदाचन चिद्देवी निर्देश्यावयवा क्वचित् ॥२२॥शिवत्वाव्यतिरेकेण शिवतैवं विदृश्यताम् ।यथाङ्ग शून्यता व्योम्नः स्पन्दनं मातरिश्वनः ॥२३॥ज्योत्स्नायाश्चेत्यमेवं हि दृश्यमङ्गं चितेः क्रिया ।शिवं शान्तमनायासमव्ययं विद्धि निर्मलम् ॥२४॥न मनागपि तत्रास्ति स्तैमित्यं स्पन्दधर्मता ।सा क्रियैव तथारूपा सती बोधवशाद्यदा ॥२५॥व्यावृत्त्यैव तथैवास्ते शिव इत्युच्यते तदा ।चितिशक्तेः क्रिया देव्याः प्रतिस्थानं यदात्मनि ॥२६॥यथाभूतस्थितेरेव तदेव शिव उच्यते ।देव्याः क्रियायाश्चिच्छक्तेः स्वरूपिण्या महाकृतेः ॥२७॥कल्पिताकारधारिण्या अनन्यावयवा इमे ।सर्गाः सज्जनतावर्गा लोका आलोकभास्वराः ॥२८॥सद्वीपसागराः पृथ्व्यः सवनावनयोऽद्रयः ।साङ्गोपाङ्गास्त्रयो वेदाः सविद्यास्थानगीतयः ॥२९॥सविधिप्रतिषेधार्थाः सशुभाशुभकल्पनाः ।सदक्षिणाग्नयो यज्ञाः पुरोडाशाद्यशंसिनः ॥३०॥भूपालोलूखलवृसीशूर्पयूपादिसयुताः ।संग्रामाः सायुधग्रामाः सशूलशरशक्तयः ॥३१॥सभुशुण्डीगदाप्रासहयेभभटभासुराः ।ज्ञातयो भूतसंघानां चतुर्दश सुरादिकाः ।चतुर्दशाब्धिद्वीपोर्व्यस्तथा लोकाश्चतुर्दश ॥३२॥श्रीराम उवाच ।चितेः कल्पाः शरीरिण्याः सर्गा येऽङ्गे स्थितास्तथा ।ते किमात्मनि तिष्ठन्ति उतासत्या वदेति भो ॥३३॥श्रीवसिष्ठ उवाच ।रामासौ किल चिच्छक्तिस्तया यच्चोदितं तथा ।तत्प्रचेतितमेवातः सत्यं चेदमिवाखिलम् ॥३४॥तत्प्रतिबिम्बितं बाह्यान्मुकुरप्रतिबिम्ववत् ।सत्यं तदन्तरेवास्ति चितेर्नासत्यमर्थतः ॥३५॥चिद्रूपस्य तथाप्यन्तः सत्संकल्पपुरं भवेत् ।दृढध्यानाद्विशुद्धायाश्चितेर्भवतु सा कथम् ॥३६॥आदर्शेष्वथवा स्वप्ने सर्गः संकल्पनेऽस्तु वा ।स आत्मन्यर्थकारित्वात्सत्य इत्येव मे मतिः ॥३७॥मम नार्थाय स इति वक्षि चेत्तत्कथं भवेत् ।देशान्तरगताः सर्वे भवन्त्यर्थाय संप्रति ॥३८॥यथा देशान्तरग्रामस्तद्गतस्यार्थकृद्भवेत् ।सर्वे तथैव तद्भावं गतस्यार्थविनिश्चयात् ॥३९॥यद्यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते ।तत्सत्यमात्मनोऽन्यस्य नैवातत्तामुपेयुषः ॥४०॥तस्माच्चिच्छक्तिकोशस्थाः सर्वाः सर्गपरम्पराः ।सत्य आत्मेति तद्भावं गतस्यान्यस्य नाखिलाः ॥४१॥भूतभव्यभविष्यस्थाः संकल्पस्वप्नपूर्गणाः ।सर्वे सत्याः परं तत्त्वं सर्वात्मा कथमन्यथा ॥४२॥प्राप्यन्ते योगसिद्धेन तद्भावं तु गतेन ते ।अन्येन पर्वता ग्रामा गत्या देशान्तरे यथा ॥४३॥चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् ।न लुठत्येव लुठितमित्यप्यनुमतं स्फुटम् ॥४४॥तथा चलन्त्या लुठितं तस्या देहगतं जगत् ।न लुठत्येव मुकुरप्रतिबिम्बमिव स्थितम् ॥४५॥स त्रैलोक्यमहारम्भः सत्योऽपि भ्रान्तिमात्रकम् ।भ्रान्तिमात्रस्य के नाम लुठनालुठने वद ॥४६॥कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा ।कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितम् ॥४७॥भ्रान्तित्वं केवलं सैव दृश्यश्रीर्यावदग्रगा ।त्वं विद्धीमामपि भ्रान्तिं जगल्लक्ष्मीमवास्तवीम्॥४८॥संकल्पने मनोराज्ये स्वप्ने संकथने भ्रमे ।यथापुरानुभवनं त्रैलोक्यानुभवं तथा ॥४९॥अहमिति जगदिति नान्त-भ्रान्तिरियं प्रकचतीव चितः ।परमाकाशकृशाख्याशाम्यति निपुणं परिज्ञाता ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा० शिवशक्तिवर्णनं नाम चतुरशीतितमः सर्गः ॥८४॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP