संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७३ Translation - भाषांतर श्रीराम उवाच ।सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् ।अनन्तस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥१॥चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् ।इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥२॥श्रीवसिष्ठ उवाच ।शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः ।सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥३॥पादपस्य यथा पत्रे पत्रतायां यथाग्रहः ।सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥४॥आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः ।सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः ॥५॥स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः ।सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥६॥यथागेन्द्रे दृषद्वृक्षवार्यादौ स तथाग्रहः ।तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥७॥शरीरस्य यथा केशनखादिषु यथाग्रहः ।सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥८॥चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता ।चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥९॥चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः ।नखकेशजलाकाशधर्ममाकारभासुरम् ॥१०॥चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः ।जङ्गमं स्थावरमयं किंतु नित्यमनाकृति ॥११॥यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् ।स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥१२॥चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता ।इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥१३॥कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च ।त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥१४॥करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः ।चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ॥१५॥यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा ।तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥१६॥नाहं तरङ्गः सलिलमहमित्येव युक्तितः ।बुद्धं येन तरङ्गेन कुतस्तस्य तरङ्गता ॥१७॥ब्रह्मणोऽस्य तरङ्गत्वमिवाभानं यतस्ततः ।तरङ्गत्वातरङ्गत्वे ब्राहयौ शक्ती स्थितिं गते ॥१८॥चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् ।तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥१९॥एवमाद्यः प्रजानाथो निराकारो निरामयः ।चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ॥२०॥येनाङ्गदत्वं नास्तीति बुद्धं हेमाङ्गदेन वै ।अङ्गदत्वं कुतस्तस्य तस्य शुद्धैव हेमता ॥२१॥अजे संकल्पमात्रात्म चिन्मात्रव्योमदेहिनि ।अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥२२॥चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः ।एतास्ताः सर्गसंहारस्थितिसंरम्भसंविदः ॥२३॥अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् ।स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥२४॥यथा तरङ्गस्तेनैव रूपेणान्येन वाऽनिशम् ।स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥२५॥चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् ।भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥२६॥सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च ।घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥२७॥तस्य कल्पान्तरजनी शिरोरुहतयोदिता ।प्रकाशतमसी कालक्रियाख्याः स्वाङ्गसंधयः ॥२८॥तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।चन्द्रार्कौ दृगू दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥२९॥एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः ।अस्मत्संकल्पशैलाभो विराड् स्वप्नाकृतिस्थितः ॥३०॥यच्च चेतच्चिदाकाशे स्वयं कचकचायते ।तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥३१॥विराडात्मैवमाकाशं भाति चिन्मयमाततम् ।स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥३२॥अनुभवितैवानुभवंसत्यं स्वात्मानमप्यसन्तमिव ।अनुभवतीयत्त्वेनस्वप्ननटः स्वप्नदेशमिव ॥३३॥वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्ता दृशोब्रह्मैव स्फुरितं तथात्मकलया स्तादात्मनित्यं यतः ।तेषां चात्मावेदोऽनुरूपमखिलं स्वर्गं फलं तद्भव-त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥३४॥इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० ब्रह्मगीतासु परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ॥१७३॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP