संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः ११०

निर्वाणप्रकरणं - सर्गः ११०

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


दशाधिकशततमः सर्गः ११०
श्रीवसिष्ठ उवाच ।
पुरोपकण्ठसंप्राप्तैश्चतुर्दिक्कं सहारिभिः ।
एतस्मिन्नन्तरे तत्र प्रवृत्तं दारुणं रणम् ॥१॥
लुण्ठितग्रामनगरं प्रजाकुलमहाकुलम् ।
अग्निदाहज्वलद्देहं धूमाभ्रपटलावृतम् ॥२॥
शरजालमहाधूमच्छन्नार्कविलसत्तमः ।
क्षिप्रदृष्टरवि क्षिप्रमदृष्टरविमण्डलम् ॥३॥
अग्निदाहमहातापप्रतपत्पर्णकाननम् ।
लोलालातलताशलमुसलोपलपूर्णखम् ॥४॥
अनलप्रतिबिम्बौघैर्द्विगुणज्वलनायुधम् ।
रणभग्नमहाशूरप्राप्तेन्द्रवनितासुधम् ॥५॥
उद्दामवारणारावै रणलम्पटहर्षदम् ।
भुशुण्डीमण्डलप्रासशूलतोमरवर्षदम् ॥६॥
भटकोलाहलोल्लासहृद्भङ्गमृतपामरम् ।
रजःपटलशुभ्राभ्रकृतद्युपथवारणम् ॥७॥
मरणव्यग्रसामन्तमुक्तनादव्रजद्रजम् ।
इतश्चेतश्च निपतद्वैद्युतोपहतप्रजम् ॥८॥
अग्निदग्धपतद्गेहप्रोज्झिताग्निमयाम्बुदम् ।
मरणाह्लाददासंख्यशरधारामयाम्बुदम् ॥९॥
जितसागरकल्लोलं तुरङ्गमतरङ्गकैः ।
दन्तिदन्तविनिष्पेषतारक्रेंकारकर्कशम् ॥१०॥
कोटकोटिकुटीकुड्यकण्टकोद्भटसद्भटम् ।
चठत्कुण्ठितकोटाट्टकृटाटननटच्छटम् ॥११॥
लुठत्पटनकुट्टाकसाटोपस्फुटपट्टिशम् ।
खे वटत्केतुपट्टाट्टपटत्पटपटारवम् ॥१२॥
दन्तिदन्तगुणोद्गीर्णैर्हेतिपाषाणघर्षणैः ।
तारक्रेंकारहुंकारैराहूतसुरवारणम् ॥१३॥
वहच्छरनदीपूरपूर्णाम्बरमहार्णवम् ।
विचलच्चक्रकुन्तासिधारामकरकर्कशम् ॥१४॥
उन्नादयोधसंघट्टकंकटोत्कटटांकृतैः ।
लसज्झणझणारावैर्घटितद्वीपमण्डलम् ॥१५॥
पादपातपरापिष्टशरसंजातकर्दमम् ।
वहद्रक्तनदीरंहःप्रोह्यमाणरथद्विपम् ॥१६॥
सुपर्णहेलानिपतत्प्रोत्पतत्पट्टपट्टिशम् ।
शरवारितरङ्गार्तभग्नायुधजलेचरम् ॥१७॥
हेतिसंघट्टनिष्क्रान्तज्वालाप्रज्वलिताम्बरम् ।
वलीपलितनिर्मुक्तशूराक्रान्तत्रिविष्टपम् ॥१८॥
पाण्डुपांसुपयोवाहकचच्चक्राचिरद्युति ।
हेतिनिर्विवराकाशयुधानाधारभूतलम् ॥१९॥
कटद्भटभटाटोपरटत्प्रतिभटोत्कटम् ।
चटच्छकटसंघट्टपिष्टकाष्ठलुठद्रथम् ॥२०॥
कबन्धभटवेतालमिश्रकण्टकसंकटम् ।
वेतालभुज्यमानाग्र्यशवमांसहृदम्बुजम् ॥२१॥
शूरशातितशीरार्धशिरःकरखुरोरुकम् ।
कबन्धदोर्द्रुमस्पन्दवनीकृतनभस्तलम् ॥२२॥
तरल्लोलास्यवेतालहासघट्टितपेटकम् ।
कंकटोत्कटसाटोपभटभ्रुकुटिभीषणम् ॥२३॥
एकान्तमारणैकान्तमरणैकान्तभूषणम् ।
प्रहारदानग्रहणकार्पण्यापारदूषणम् ॥२४॥
शूरवारणसामन्तमदवारिविशोषणम् ।
मारणैकान्तरसिककृतान्तानन्दपोषणम् ॥२५॥
अविकत्थनगुप्तानां शूराणां जयघोषणम् ।
अशूराणां च गुप्तानां प्रभावुद्धोषणं परम् ॥२६॥
शौर्यादीनां प्रसुप्तानां स्वगुणानां प्रबोधनम् ।
धनमाधारभूतानां राष्ट्रेषु भुजशालिनाम् ॥२७॥
दन्त्यारूढरथास्फोटप्रभग्नकटवारणम् ।
समस्तमत्तगन्धेभदानवारिनिवारणम् ॥२८॥
सारसारवसामन्तमुक्तमत्तमतङ्गजम् ।
जरज्जितकरानीककल्पितासीकवेदनम् ॥२९॥
दिनं दिनकरस्येव नृपस्य शरणं गतम् ।
अनागतभटव्रातपिष्टार्धमृतमानवम् ॥३०॥
मानवायुबलोन्मत्तनतप्रारब्धकुट्टनम् ।
धनानां प्राणपण्यानां नवमापणपत्तनम् ॥३१॥
पटनद्धपताकौघजातसंचारिदोर्द्रुमम् ।
रक्तोज्ज्वलत्वात्त्रैलोक्यलक्ष्म्या भूषणविद्रुमम् ॥३२॥
मन्दराहननोद्भूतक्षीरोदजलसुन्दरैः ।
छत्रैश्छादितहेत्योघपुष्पाढ्यगगनाङ्गनम् ॥३३॥
गणगीर्वाणगन्धर्वगीतशूराशयं कृतम् ।
तद्भातरलतालाग्रहेतिहालाहलायुधम् ॥३४॥
संघप्रहरणासंख्ययातुधानाझणज्झणम् ।
भुक्त्वा चाद्रिगुहागेहपूरितापूर्वदुर्द्रुमम् ॥३५॥
कचत्कुन्तवनव्यस्तशिरःकरवृताम्बरम् ।
क्षेपणोन्मुक्तपाषाणपूरप्लुतककुब्लतम् ॥३६॥
महाचटचटाशब्दस्फुटद्रववृहद्द्रुमम् ।
नारीहलहलारावरणन्नगरमन्दिरम् ॥३७॥
मन्दरावानलाकारनभोभातायुधव्रजम् ।
परित्यज्य धनं गेहं दूरोर्वीविद्रुतप्रजम् ॥३८॥
सर्वतोहेतिवहनात्समक्षप्रेक्षकोज्झितम् ।
वर्जितं भीरुभिः पक्षिराजवृन्दमिवाहिभिः ॥३९॥
दन्तिदन्तविनिष्पिष्टशिष्टसद्भटसंकटम् ।
कटे मृत्योरिव नरद्राक्षापीडनयन्त्रके ॥४०॥
यन्त्रपाषाणसंघट्टपिष्टाम्बरगतायुधम् ।
योधनादनदद्दन्तिवृन्दबन्धुरकन्दरम् ॥४१॥
धराधरदरीरन्तःप्रतिश्रुत्प्रोतगर्जितम् ।
अर्जितं प्राणसर्वस्वमर्जयद्भिरुपार्जितम् ॥४२॥
भर्जितं हेतिदहनैरग्निदाहैश्च संततैः ।
तैरेवान्यैरथान्यैश्च द्वन्द्वयुद्धैरनिष्ठितम् ॥४३॥
वेष्टितं मृतशिष्टैश्च सारैः सुभटपेटकैः ।
कैलासैरिव संशुद्धैरीश्वराधारतां गतैः ॥४४॥
तैरुदारैः समाक्रान्तं ये मृत्योरपि मृत्यवः ।
मरणं जीवितं येषां जीवितं मरणं रणे ॥४५॥
रणे नभसि निर्लूनवरवारणवारिजे ।
सारसाः सरसीवात्र रेजुरत्युद्भटा भटाः ॥४६॥
यन्त्राश्मक्षेपणानां प्रसरणसरितां
घूकृतैः फूत्कृतैर्द्राक्
क्रान्तानां व्योम्नि मूर्ध्नां शरसलिलमुचां
सैनिकानां च नादैः ।
टांकारैरायुधानां नभसि विसरता-
मश्वचक्रेभशब्दै-
रासीन्निःसंधिबन्धोपलजठरजडं
जीर्णकर्णं गतं तत् ॥४७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अविद्यो० विप० संग्रामवर्णनं नाम दशाधिकशततमः सर्गः ॥११०॥

N/A

References : N/A
Last Updated : October 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP