संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १२७

निर्वाणप्रकरणं - सर्गः १२७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
भगवन्कथयैतन्मे कथं भूगोलकं स्थितम् ।
कथमृक्षगणो याति लोकालोकः कथं गिरिः ॥१॥
श्रीवसिष्ठ उवाच ।
यथा संकल्परचिता शिशोर्व्योमनि तिष्ठति ।
वीटा चिन्मात्रबालेन कल्पितो भूस्तथाम्बरे ॥२॥
यथा तिमिरिकाक्षाणां केशचन्द्रादिदर्शनम् ।
चिदाकाशस्य सर्गादौ तथा पृथ्व्यादिदर्शनम् ॥३॥
यथा संकल्पनगरं धार्यमाणं न दृश्यते ।
धार्यते धार्यते मा च तथोर्व्यनुभवश्चितेः ॥४॥
यद्यथा यावदाभाति चिति चित्त्वात्स्वभावतः ।
तत्तथा तावदाभाति तत्र तत्र तदात्मकम् ॥५॥
तिमिराक्रान्तनेत्रस्य केशोण्ड्रकमिवाम्बरे ।
चिन्मात्रस्य महीगोलो यो भातः स तथा स्थितः ॥६॥
ऊर्ध्वं वहन्त्यः सरितस्तदधस्ताद्हुताशनः ।
चिति चेत्स्वप्नवद्भाति तत्तथा तत्स्थितं भवेत् ॥७॥
तस्मात्पतन्ती भूर्भाता पतत्येवानिशं जगत् ।
उत्पतन्ती तु चिद्भाता तथा नानात्मिका भवेत् ॥८॥
स्तब्धभाता स्थिता स्तब्धा सालोका तु प्रकाशिनी ।
निरालोका निरालोकलोकानामात्मनि स्थिता ॥९॥
चिद्भानैकानुसारेण ताराचक्रं तथा मही ।
असदेव सदैवेदं भातीदमविखण्डितम् ॥१०॥
आलोकालोकमेवाथ नभःखातं ततो महत् ।
तम एकार्णवाकारं स्थितं तत्र क्वचित्क्वचित् ॥११॥
दूरत्वादृक्षचक्रस्य करालत्वान्महागिरेः ।
क्वचित्तमः क्वचित्तेजस्तत्रैवाचत्वरेऽपि च ॥१२॥
लोकालोकगिरेः पारे स्थितादाकाशमण्डलात् ।
दशदिक्कं सुदूरेण ऋक्षचक्रं विवर्तते ॥१३॥
आपातालदिवो नद्धमृक्षचक्रं तदम्बरे ।
दशदिक्कं प्रसरति पतदूर्ध्वादृतेऽभितः ॥१४॥
भूलोकमेव पातालयुतं नक्षत्रमण्डलम् ।
पर्येति लोकालोकान्ते नान्यच्चित्कल्पनाच्च तत् ॥१५॥
सलोकालोकभूलोकद्विगुणात्खादनन्तरम् ।
पक्वाक्षोटस्य भिस्सेव स्थितं नक्षत्रमण्डलम् ॥१६॥
द्विगुणा नभसस्तस्मादृक्षचक्रस्य पुष्टता ।
दशदिक्कं विसरतो बिल्वत्वक्सदृशस्थितेः ॥१७॥
संविद्धनस्य कचनं यादृशं कल्पनात्मकम् ।
यदित्थं संनिवेशेन नन्वियं जागती स्थितिः ॥१८॥
नक्षत्रचक्राद्द्विगुणं ततोऽन्यद्विद्यते नभः ।
तच्च क्वचित्प्रकाशाढ्यं क्वचित्सान्द्रतमोमयम् ॥१९॥
पर्यन्ते तस्य नभसः स्थितं ब्रह्माण्डखर्परम् ।
एकमूर्ध्वे परमधो गगनं मध्यमेतयोः ॥२०॥
योजनानां कोटिशतं पुष्टं वज्रदृढं च तत् ।
स्थितं संवेदनमयं व्योम्नि व्योममयात्मकम् ॥२१॥
सर्वदिक्कं महागोले नभसि स्वर्कतारकम् ।
किमत्रोर्ध्वमधः किं स्यात्सर्वमूर्ध्वमधश्च वा ॥२२॥
पतनमुत्पतनं गमनं स्थितं
चित इति स्फुरितं न तु वस्तु तत् ।
पतनमस्ति न चोत्पतनं न वा
गमनमागमनं स्थितमित्यपि ॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० भूगोलनिर्णयो नाम सप्तविंशाधिकशततमः सर्गः ॥१२७॥

N/A

References : N/A
Last Updated : October 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP