संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३३ Translation - भाषांतर विपश्चिदुवाच ।कस्मिंश्चिदन्यत्र जगत्यपूर्वेदृष्टं मयेदं श्रृणु किं विचित्रम् ।महाघवृत्तान्तदशासमान-मविद्ययान्धेन बलात्कृतं यत् ॥१॥अस्ति क्वचित्खे भवतामगम्येजगज्ज्वलद्दीप्तिविचित्रसर्गः ।एतादृगप्यम्बरतस्तदन्यत्स्वाप्नं पुरं जाग्रति चेतसीव ॥२॥तस्मिन्मया विहरता हृदयस्थमर्थ-मन्वेष्टुमक्षि निहितं ककुभां मुखेषु ।पश्यामि यावदचलप्रतिमा धरायांछायालिजालमलिना परिबंभ्रमीति ॥३॥आश्चर्यमात्रमुचितं किमिदं निमेषा-दित्यक्षि वै जगति यावदहं त्यजामि ।खात्तावदद्रिमतुलं पुरुषाकृतिं द्रा-गावर्तवृत्तिभिरपश्यमहं पतन्तम् ॥४॥कः स्यादयं गिरिगुरुः पुरुषो विराड्वापर्यस्तपर्वतवदाशु पतच्छरीरः ।आकाशपूरकवपुः परमाम्बरोऽपियो नैव भाति पिहिताखिलवासरश्रीः ॥५॥एवंविधां हृदि मनाक्कलयामि याव-त्तावत्पपात सहसा नभसो विवस्वान् ।कल्पान्तवातपरिवृत्तपितामहाण्ड-पृष्ठावपातघनघोषजुषा जवेन ॥६॥तस्मिन्पतति भीमात्मन्यपारावारदेहिनि ।सप्तद्वीपां वसुमतीं परिपूरयति क्षणात् ॥७॥स्वात्मनो नाशमाशंक्य सद्वीपभुवनैः सह ।अवश्यभाविपार्श्वस्थमहमग्निमथाविशम् ॥८॥स जातवेदा भगवान्जन्मान्तरशतार्चितः ।मा भैषीरिति देहेन मामुवाचेन्दुशीतलः ॥९॥जय देव त्वमस्माकं प्रतिजन्म परायणम् ।अकाल एव कल्पान्तो जातोऽतः पाहि मां प्रभो ॥१०॥इत्युक्तेनाग्निना प्रोक्तं मा भैषीरिति तत्पुनः ।उत्तिष्ठागच्छ गच्छावो मल्लोकमिति चानघ ॥११॥इत्युक्त्वा शुकपृष्ठेऽसावारोप्य भगवांस्ततः ।देहैकदेशे तत्पाति भूतं दग्ध्वा नभः प्लुतः ॥१२॥अनन्तरं नभः प्राप्य दृष्टः कष्टाकृतिर्मया ।स तादृग्भूतसंपातमहोत्पातो भयप्रदः ॥१३॥तस्मिन्जवेन पतिते वसुधा चचालसाम्भोधिशैलवनपत्तनजङ्गलौघा ।चक्रे भृगुद्वयमयानजलस्रवन्तीभीमाकृतीन्व्यधुरदेहविभेदगर्तान् ॥१४॥उर्वी ररास ककुबुत्तरतो ररासपूर्वा ररास विररास च दक्षिणा दिक् ।द्यौराररास विररास सशैलभूतंसर्वं जगत्प्रलयसंभ्रमभीतमुच्चैः ॥१५॥उर्वी ररास धरणे सविरावरंहः-संरम्भतर्जितसमस्तदिगन्तरासा ।व्योमापि घुंघुममलङ्घ्यमलं चकारनागारिवृन्दभयविद्रवणप्रचण्डम् ॥१६॥निर्घातशब्द उदभूदभितो भयायभीमाय भूधरदरीदृढदारणोत्थः ।उत्पातभीमजवजालयुगान्तवात-संरब्धकल्पघनघोषवितीर्णतर्जः ॥१७॥तस्मिञ्जवेन पतिते वसुधा रराससारावदिंमुखतया शतवेधमागात् ।तत्रास्फुटन्कुलगिरीन्द्रमहातटानिपातालदेशमविशन्हिमवच्छिरांसि ॥१८॥आसीत्तत्पतनं तस्य मेरुशैलशिलाकृतेः ।दलनं शैलश्रृङ्गाणां विदारणकरं भुवः ॥१९॥क्षोभणं जलराशीनामद्रीणां भूतलार्पणम् ।पीडनं सर्वभूतानां क्रीडनं प्रलयार्थिनाम् ॥२०॥पातनं भूतले भानोः स्थगनं द्वीपपद्धतेः ।चूर्णीकरणमद्रीणां दलनं मण्डलावनेः ॥२१॥द्वितीयमिव भूपीठं ब्रह्माण्डार्धमिवापरम् ।पतितं खमिवाकृत्या तदपश्यन्नभश्चराः ॥२२॥अथ पश्याम्यहं यावदसौ मांसमयोऽचलः ।न माति सप्तद्वीपायां भुवि तस्याङ्गमेककम् ॥२३॥तमालोक्य मया देवः प्रसादे समवस्थितः ।संपृष्टो भगवान्वह्निः प्रभो किमिदमित्यथ ॥२४॥कथं मांसमयः सार्धं स चार्कः पतितो दिवः ।स न माति हि भूपीठे सपर्वतवनाम्बुधौ ॥२५॥अग्निरुवाच ।प्रतिपालय पुत्र त्वं क्षणमेकं गतत्वरः ।यावच्छाम्यतु दोषोऽयं कथयिष्यामि ते ततः ॥२६॥अथ तस्मिन्वदत्येवं समाजग्मुर्नभश्चराः ।तज्जगज्जालजातीया दिग्भ्यो गगनजाखिलाः ॥२७॥सिद्धसाध्याप्सरोदैत्यगन्धर्वोरगकिन्नराः ।ऋषयो मुनयो यक्षाः पितरो मातरोऽमराः ॥२८॥अथ सर्वेश्वरीं देवीं शरण्यां ते नभश्चराः ।भक्तिनम्रशिरःकायाः कालरात्रिं प्रतुष्टुवुः ॥२९॥नभश्चरा ऊचुः ।बद्ध्वा खट्वाङ्गश्रृङ्गे कपिलमुरुजटामण्डलं पद्मयोनेःकृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरंतार्क्ष्यपक्षैः ।या देवी भुक्तविश्वा पिबति जगदिदं साद्रिभू पीठभूतंसा देवी निष्कलङ्का कलिततनुलता पातु नःपालनीयान् ॥३०॥इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ॥१३३॥ N/A References : N/A Last Updated : October 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP