संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ज्ञानेन ज्ञेयनिष्ठत्वाद्योऽचित्तं चित्तमेव च ।न बुध्यते कर्मफलं स ज्ञानीत्यभिधीयते ॥१॥ज्ञात्वा सम्यगनुज्ञानं दृश्यते येन कर्मसु ।निर्वासनात्मकं ज्ञस्य स ज्ञानीत्यभिधीयते ॥२॥अन्तःशीतलतेहासु प्राज्ञैर्यस्यावलोक्यते ।अकृत्रिमैकशान्तस्य स ज्ञानीत्यभिधीयते ॥३॥अपुनर्जन्मने यः स्याद्बोधः स ज्ञानशब्दभाक् ।वसनाशनदा शेषा व्यवस्था शिल्पजीविका ॥४॥प्रवाहपतिते कार्ये कामसंकल्पवर्जितः ।तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ॥५॥अकारणं प्रवर्तन्त इव भावा अकारणात् ।अविद्यमाना अप्येतेऽविद्यमाना इव स्थिताः ॥६॥आविर्भावतिरोभावैर्भावाभावभवाभवैः ।पश्चात्कारणतां यान्ति मिथः कारणकर्मभिः ॥७॥असतः शशश्रृङ्गादेर्मृगतृष्णाम्भसो यथा ।आलोकनादलभ्यस्य कीदृक् स्यात्किल कारणम् ॥८॥असतः शशश्रृङ्गादेः कारणं मार्गयन्ति ये ।वन्ध्यापुत्रस्य पौत्रस्य स्कन्धमासादयन्ति ते ॥९॥असत्यप्रतिभासानामेतदेवाशु कारणम् ।यदनालोकनं नाम समालोकक्षणक्षयम् ॥१०॥परमात्मायते जीवो बुध्यमानस्त्वचेतनम् ।चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ॥११॥परमात्मैव जीवोऽयं बुध्यमानस्त्वचेतनम् ।आम्र एव रसापत्तेः प्रयाति सहकारताम् ॥१२॥चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ।जीवो जीवितजीर्णेषु जातिजन्मसु जर्जरः ॥१३॥ये परां दृष्टिमायाता विधि तेषामपामिव ।अरूपालोकमननं स्पन्दमस्पन्दनं सदा ॥१४॥ये परां दृष्टिमायाता दृश्यश्रीपारदर्शिनः ।न विद्यमानमप्यस्ति तेषां वेदनमाततम् ॥१५॥ये परां दृष्टिमायाता विद्धि तेषामपामिव ।स्पन्दमस्पन्दनं सर्वमवेदनवशादिह ॥१६॥अरूपालोकमननवेष्टिता मुक्तदामवत् ।बुधाः कर्मसु चेष्टन्ते वृक्षपत्रेष्विवानिलः ॥१७॥ये परां दृष्टिमायाताः संसृतेः पारदर्शिनः ।न ते कर्म प्रशंसन्ति कूपं नद्यां वसन्निव ॥१८॥ये बद्धवासना मूढाः कर्म शंसन्ति तेऽनघ ।श्रुतिस्मृत्युचितं तेन विनाबोधं प्रयान्ति ते ॥१९॥इन्द्रियाणि पतन्त्यर्थं भ्रष्टं गृध्र इवामिषम् ।तानि संयम्य मनसा युक्त आसीत तत्परः ॥२०॥नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते ।किंतु सर्गादिशब्दार्थमुक्तं युक्तमतेः शिवम् ॥२१॥एकान्धकारे संपन्ने व्यवहारो युगक्षये ।निर्विभागो निराभासो यथा ब्रह्मघने तथा ॥२२॥अभ्रोदरे भ्रमाङ्गानां स्पन्दास्पन्दमयी यथा ।स्वसंविदात्मिका सत्ता भूतानामीश्वरी तथा ॥२३॥जलस्यान्तर्जलांशानां द्वैताद्वैतमयो यथा ।स्वसंविदात्मा सुस्पन्दस्तथा ब्रह्मणि भूतदृक् ॥२४॥यथाम्बरेऽम्बरांशानां द्वैताद्वैतकृतात्मनि ।अनन्या सृष्टिराभाति तथानवयवे शिवे ॥२५॥जगतोऽन्तरहंरूपमहंरूपान्तरे जगत् ।स्थितमन्योन्यवलितं कदलीदलपीठवत् ॥२६॥रूपालोकमनस्कारै रन्ध्रैर्बहिरिव स्थितम् ।सृष्टिं पश्यति जीवोऽन्तः सरसीमिव पर्वतः ॥२७॥जीवो जगत्तयात्मानं पश्यत्ययमकारणम् ।हेमेव कटकादित्वं तदपश्यन्न पश्यति ॥२८॥जीवन्तोऽपि न जीवन्ति म्रियन्ते न मृता अपि ।सन्तोपि च न सन्तीव पारावारविदः शुभाः ॥२९॥प्रबुद्धः सर्वकर्माणि कुर्वन्नपि न पश्यति ।गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव ॥३०॥विराड् हृदि यथा चन्द्रः प्रतिदेहं यथा स्थितः ।जीवो हिमकणाकारः स्थूले स्थूलो लघौ लघुः ॥३१॥अहमात्मा त्रिकोणत्वमुपगच्छति कल्पनम् ।असदेव सदाभासं मन्यते चेतनाद्वपुः ॥३२॥कर्मकोशे त्रिकोणे च शुक्रसारेऽवतिष्ठते ।देहे जीवोहमित्यात्मा स्वामोदः कुसुमे यथा ॥३३॥अहमित्येव शुक्रस्था संविदापादमस्तकम् ।विसरत्यखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे ॥३४॥अक्षरन्ध्रप्रणालेन विसृतं वेदनोदकम् ।व्याप्नोति त्रिजगद्धूमो वियन्मेघतया यथा ॥३५॥देहे यद्यप्यशेषेऽस्मिन्बहिरन्तश्च वेदनम् ।विद्यते तत्तथाप्यत्र शुक्रेऽस्ति घनवासना ॥३६॥जीवः संकल्पमात्रात्मा यत्संकल्पोऽवतिष्ठते ।हृदि भूत्वा स एवाशु बहिः प्रसरति स्फुटम् ॥३७॥यथास्थितां च निश्चित्तां वर्जयित्वा स्थिरोपमाम् ।न कयाचिदपि स्थित्या शाम्यत्यहमिति भ्रमः ॥३८॥चिन्तानुचिन्त्यमानापि भावनीयाम्बरोपमा ।अहंभावोपशमने शमनेन क्रमेण ते ॥३९॥तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् ।अरूपालोकमननं मौनं दारुनरा इव ॥४०॥अकिंचिद्भावनो यः स्यात्स मुक्त इति कथ्यते ।जीवन्नाकाशविशदो बन्धशून्य इव स्फुटम् ॥४१॥अहमित्येव शुक्रस्था संविदापादमस्तकम् ।विसरत्यखिले देहे ब्रह्माण्डेऽर्कप्रभा यथा ॥४२॥दृङनेत्रं स्वदनं जिह्वा श्रुतिः श्रोत्रं भवत्यसौ ।इत्याद्या वासनाः पञ्च बद्ध्वा तासु निमज्जति ॥४३॥चिद्भावोऽक्षतयोदेति मनो भूत्वैकदेशतः ।सर्वगोऽपि रसो भूमौ यथाङ्कुरतया मधौ ॥४४॥यो भावयति भावेषु नेह रूढेष्वभावताम् ।तस्यायत्नवतो दुःखमनन्तं नोपशाम्यति ॥४५॥येन केनचिदाच्छन्नो येन केनचिदाशितः ।यत्र क्वचनशायीह स सम्राडिव राजते ॥४६॥वासनाभिरुपेतोऽपि समग्राभिरवासनः ।अन्तःशून्योऽप्यशून्यात्मा खमिव श्वसनान्वितः ॥४७॥आसने शयने याने स्थितो यत्नेन बोध्यते ।निद्रालुरिव निर्वाणमनोमनननिर्वृतः ॥४८॥संविन्मात्रं हि पुरुषः सर्वगोऽपि स तिष्ठति ।स्फुटसारे शरीरस्य यथा गन्धोऽब्जकेसरे ॥४९॥संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।आत्मनिष्ठत्वमजगत्परमेत्युपदेशभूः ॥५०॥नीरसो भव भावेषु सर्वेषु विभवादिषु ।पाषाणं हृदयं कृत्वा यथा भवसि भूतये ॥५१॥साधो हृदयसौषिर्यमसौषिर्यमिवास्तु ते ।अचित्त्ववपुषोऽचित्त्वादुपलस्येव राघव ॥५२॥तज्ज्ञाज्ञयोरशेषेषु भावाभावेषु कर्मसु ।ऋते निर्वासनत्वात्तु न विशेषोऽस्ति कश्चन ॥५३॥सत्तैवैषा विदो यत्सा भवत्युन्मिषिता जगत् ।परं तत्त्वं निमिषता दृगिवानामकं ततम् ॥५४॥दृश्यं विनश्यत्यखिलं विनष्टं जायते पुनः ।यन्न नष्टं न चोत्पन्नं तत्सद्भवति तद्भवान् ॥५५॥भावज्ञप्तिर्हि निर्मूला भावितापि न विद्यते ।सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम् ॥५६॥यथाभूतार्थसदर्शच्छिन्नाऽहमिति भावना ।दृष्टामि न करोत्यन्तर्दग्धं बीजमिवाङ्कुरम् ॥५७॥कर्म कुर्वन्नकुर्वन्वा वीतरागो निरामयः ।निर्मना नित्यनिर्वाणः पुमानात्मनि तिष्ठति ॥५८॥चित्तोपशान्तौ संशान्ताः शान्ताये भोगबन्धवः ।न स्वभावपरिक्षीणाश्चित्तमेषां किलाकरः ॥५९॥अघनः केवलालोको बुधो जीवः परायते ।स एवान्योऽप्यनन्योऽन्तरपराह्न इवातपः ॥६०॥एकदेशस्थितात्पुंसो दूरायातस्य चेतसः ।यद्रूपं सकलं मध्ये तद्रूपं परमात्मनः ॥६१॥चारुचिद्व्योमकर्पूरं यच्चमत्कुरुते स्वयम् ।अनन्तमन्तरव्यक्तं जगदित्येव वेत्ति तत् ॥६२॥गतभवभ्रमभासुरमक्षयंशममुपेतमुपेक्षितदीपवत् ।स्थितमपीह जनं जगदीश्वरा-दनुगतं ननु भाति मुदा च खे ॥६३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे सुखयोगोपदेशो नाम द्वाविंशः सर्गः ॥२२॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP