संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।पाषाणाख्यानमेतत्ते कथितं कार्यकोविद ।अनयेमाः स्फुरद्दृष्ट्या सृष्टयो नभसि स्थिताः ॥१॥न च स्थितं किंचनापि क्वचनापि कदाचन ।स्थितं ब्रह्मघने ब्रह्म यथास्थितमखण्डितम् ॥२॥ब्रह्म चिन्मात्रकं विद्धि तद्यथा स्वप्नदृष्टिषु ।पुरं भवन्निजाद्रूपान्न कदाचन भिद्यते ॥३॥स्वयंभूत्वसमापत्तौ तथा दृश्यव्यवस्थितौ ।स्वरूपमजहत्त्वेव चिदाकाशमजं स्थितम् ॥४॥न स्वयंभूर्न च जगन्न स्वप्नपुरमस्त्यलम् ।स्थितं संविन्महादृष्ट्या ब्रह्म चिन्मात्रमेतया ॥५॥यथा पुरं भवत्स्वप्ने चिद्रूपं स्वात्मनि स्थितम् ।अखण्डमेवमासृष्टेरामहाप्रलयस्थितेः ॥६॥हेमहेमाश्मनोः स्वप्नपुरचेतनयोर्यथा ।भेदो न संभवत्येव न भेदश्चितिसर्गयोः ॥७॥चितिरेकास्ति नो सर्गो हेमास्ति न तदूर्मिका ।स्वप्नाचले चिदेवास्ति न तु काचन शैलता ॥८॥चिदेव शैलवद्भाति यथा स्वप्ने निरामया ।तथा ब्रह्म निराकारं सर्गवद्भाति नेतरत् ॥९॥चिन्मात्रमिदमाकाशमनन्तमजमव्ययम् ।महाकल्पसहस्रेषु नोदेति न च शाम्यति ॥१०॥चिदाकाशो हि पुरुषश्चिदाकाशो भवानयम् ।चिदाकाशोऽहमजरश्चिदाकाशो जगत्त्रयम् ॥११॥चिदाकाशं वर्जयित्वा शवमेव शरीरकम् ।अच्छेद्योऽसावदाह्योऽसौ चिदाकाशो न शाम्यति ॥१२॥अतो न किंचिन्म्रियते न च किंचन जायते ।चित्त्वात्ततश्चित्कचनं जगदित्यनुभूयते ॥१३॥चिन्मात्रपुरुषो जन्तुर्म्रियते यदि नाम वा ।ततो मरिष्यत्तत्पुत्रो निःसंदेहं पितुर्मृतौ ॥१४॥एकस्मिन्प्रमृते जन्तावमरिष्यंस्तु सर्वदा ।सर्व एव जनाः शून्यमभविष्यन्महीतलम् ॥१५॥न चाद्यापि मृतं राम चिन्मात्रं कस्यचित्क्वचित् ।न च शून्या स्थिता भूमिस्तस्माच्चित्पुरुषोऽक्षयः ॥१६॥एकं चिन्मात्रमेवाहं न शरीरादयो मम ।इति सत्यनुसंधाने क्व जन्ममरणादयः ॥१७॥अहं चिन्मात्रममलमित्यात्मानुभवं स्वयम् ।अपहन्त्यात्महन्तारो निमज्जन्त्यापदर्णवे ॥१८॥चिदहं गगनादच्छा नित्यानन्ता निरामया ।किं जीवितं मे किं वापि मरणं वा सुखासुखे ॥१९॥व्योमात्मचेतनमहं के शरीरादयो मम ।इत्यात्महापह्नुतेऽन्तर्योऽनुभूतं धिगस्तु तम् ॥२०॥चिदाकाशमहं स्वच्छमनुभूतिरिति स्फुटा ।यस्यास्तमागता मूढं तं जीवन्तं शवं विदुः ॥२१॥अहं वेदनमात्रात्मा कानि देहेन्द्रियाणि मे ।लब्धात्मानमिति स्वच्छं प्रविलुम्पन्ति नापदः ॥२२॥चिन्मात्रं शुद्धमात्मानं योऽवलम्ब्य स्थिरः स्थितः ।नाधयस्तं विलुम्पन्ति महोपलमिवेषवः ॥२३॥चित्त्वं स्वभावं विस्मृत्य बद्धास्था ये शरीरके ।तैः सुवर्णं परित्यज्य गृहीतं भस्म वस्तुतः ॥२४॥बलं बुद्धिश्च तेजश्च देहोऽहमिति भावनात् ।नश्यत्युदेत्येतदेव चिदेवाहमिति स्थितेः ॥२५॥चिदाकाशमहं शुद्धं के मे मरणजन्मनी ।एवं स्थिते स्युः किंनिष्ठा लोभमोहमदादयः ॥२६॥चिदाकाशादृते देहान्योऽन्यत्सारमवाप्नुयात् ।तस्मै तद्युज्यते वक्तुं सन्ति लोभादयस्त्विति ॥२७॥न च्छिद्ये न च दह्येऽहं चिन्मात्रं वज्रवच्चिति ।न देही निश्चयो यस्य तं प्रत्यन्तकरस्तृणम् ॥२८॥अहो नु मुग्धता ज्ञानदृष्टीनां यद्विदन्त्यलम् ।शरीरशकलाभावे नश्याम इति मोहिताः ॥२९॥अहं चिन्नभ एवेति सत्ये भावे स्थिरे सति ।वज्रपातयुगान्ताग्निदाहाः पुष्पोत्करोपमाः ॥३०॥चिन्मात्रममरं नाहं यन्नश्यामीति रोदिति ।अनष्ट एव तद्देहो जातापूर्वा खरोलिका ॥३१॥इदं चेतनमेवाहं नाहं देहादिदृष्टयः ।इति निश्चयवान्योऽन्तर्न स मुह्यति कर्हिचित् ॥३२॥अहं चेतनमाकाशो नाशो मे नोपपद्यते ।चेतनेन जगत्पूर्णं केव संदेहितात्र वः ॥३३॥चेतनं वर्जयित्वान्यत्किंचिद्यूयं जना यदि ।यदुच्यतां महामूढाः स्वात्मा किमपलप्यते ॥३४॥तच्चेतनं चेन्म्रियते तज्जनाः प्रत्यहं मृताः ।ब्रूत किं न मृता यूयं तन्मृतं किल चेतनम् ॥३५॥तस्मान्न म्रियते किंचिन्न च जीवति किंचन ।जीवामीति मृतोऽस्मीति चिच्चेतति न नश्यति॥३६॥चिच्चेतति यथा वा यत्तत्तथा साशु पश्यति ।आबालमेषोऽनुभवो न क्वचित्सा च नश्यति ॥३७॥परिपश्यति संसारं परिपश्यति मुक्तताम् ।सुखदुःखानि जानाति स्वरूपात्तन्न भिद्यते ॥३८॥अपरिज्ञातदेहात्तु धत्ते मोहाभिधां स्वयम् ।परिज्ञातस्वरूपात्तु धत्ते मोक्षाभिधां स्वयम् ॥३९॥नास्तमेति न चोदेति न कदाचन किंचन ।सर्वमेव च चिन्मात्रमाकाशविशदं यतः ॥४०॥न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।यद्यथा येन निर्णीतं तत्तथा तं प्रति स्थितम् ॥४१॥यद्यद्यथा जगति चेतति चेतनात्मातत्तत्तथानुभवतीत्यनुभूतिसिद्धम् ।दृष्टं विषामृतदृशेव पदार्थजातंनातोस्ति संविदविधेयमितिप्रसिद्धम् ॥४२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० अमरत्वप्रतिपादनं नाम षण्णवतितमः सर्गः ॥९६॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP