संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७८ Translation - भाषांतर श्रीराम उवाच ।पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥१॥तानिहाप्रतिघानाहुर्नान्योन्यं वेल्लयन्ति ये ।तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥२॥इह सप्रतिघानां तु दृष्टमन्योन्यवेल्लनम् ।न त्वप्रतिघरूपाणां केषांचिदपि किंचन ॥३॥तत्र संवेदनं नाम यदिदं चन्द्रमण्डले ।इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥४॥अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् ।वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥५॥कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।प्रवेशनिर्गममयं कथं वा वद मे प्रभो ॥६॥कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।इमं देहं चालयति भारं भारहरो यथा ॥७॥यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् ।कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥८॥श्रीवसिष्ठ उवाच ।विकासमथ संकोचमत्र नाली हृदि स्थिता ।यदा याति तदा प्राणश्छेदैरायाति याति च ॥९॥बाह्योपस्करभस्त्रायां यथाकाशास्पदात्मकः ।वायुर्यात्यपि चायाति तथात्र स्पन्दनं हृदि ॥१०॥श्रीराम उवाच ।बहिर्भस्त्रामयस्कारः संकोचनविकासनैः ।योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥११॥शतं कथं भवेदेकं कथमेकं शतं भवेत् ।कथं स चेतना एते काष्ठलोष्टोपलादयः ॥१२॥कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।वस्तु जङ्गममेवेह स्पन्दि मात्रेव किं वद ॥१३॥श्रीवसिष्ठ उवाच ।अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।बहिर्भस्त्रामयस्कार इव लोकेऽनुचेष्टनम् ॥१४॥श्रीराम उवाच ।वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।कथमप्रतिघा संविच्चालयेदिति मे वद ॥१५॥संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।चालयेदचलिष्यत्तद्दूरमम्भो यदिच्छया ॥१६॥सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥१७॥सप्रतिघाप्रतिघयोः श्लेषो नास्ति बहिर्यथा ।तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥१८॥अन्तः स्वयं योगिना वा यथैतदनुभूयते ।अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥१९॥श्रीवसिष्ठ उवाच ।सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः ।सर्वैकतानुभूत्यर्थं श्रृणु श्रवणभूषणम् ॥२०॥नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥२१॥शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ॥२२॥आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥२३॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।महता कारणौघेन बोधमप्रतिघं विदुः ॥२४॥अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥२५॥तत्रैवमैन्दवाख्यानं श्रृणु श्रवणभूषणम् ।मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ॥२६॥तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।यथेदं सर्वमन्द्यादि चिदित्येव तु भोत्स्यते ॥२७॥कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥२८॥दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।महाशया महात्मानो महतामास्पदं सताम् ॥२९॥स तेषां कालवशतः पिताऽन्तर्धिमुपाययौ ।दशानां भगवान् रुद्र एकादश इव क्षये ॥३०॥ तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।अनुरक्ता दिनस्येव संध्या ताराविलोचना ॥३१॥तयोस्ते तनया दुःखकलिता विपिनं गताः ।कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥३२॥धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।धारणा यन्मयाः सन्तः स्याम सर्वेश्वरा वयम् ॥३३॥इति ते तत्र संचिन्त्य बद्धपद्मासना दश ।इदं संचिन्तयामासुर्निर्विघ्ने कन्दरोदरे ॥३४॥पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।भवामः पद्मजोपेतं जगद्रूपमविघ्नतः ॥३५॥इति संचिन्त्य सब्रह्मजगद्धारणया चिरम् ।निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥३६॥अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥३७॥शुष्काः कंकालतां याताः क्रव्यादैश्चर्विताङ्गकाः ।नाशमभ्याययुस्तत्र च्छायाभागा इवातपैः ॥३८॥अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।इति संपश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥३९॥तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।संपन्नानि जगन्त्येव दश देहानि वै पृथक् ॥४०॥इति तेषां चिदिच्छा सा संपन्ना सकलं जगत् ।अत्यन्तस्वच्छरूपैव स्थिता चाकारवर्जिता ॥४१॥संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।सर्वं चिदात्मकं विद्धि नौ चेदन्यत्किमुच्यताम् ॥४२॥किल यत्र्त्रिजगज्जालं तेषां किमात्म तत्तथा ।संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥४३॥विद्यते न यथा किंचित्तरङ्गः सलिलादृते ।संवित्तत्त्वादृते तद्वद्विद्यते चलनादिकम् ॥४४॥ऐन्दवानि यथैतानि चिन्मयानि जगन्ति खे ।तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥४५॥यथैवैन्दवसंकल्पास्ते जगत्त्वमुपागताः ।तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ॥४६॥तस्मादिहेमे गिरयो वसुधा पादपा घनाः ।महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥४७॥चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।नाचित्क्वचित्संभवति तेष्वैन्दवजगत्स्विव ॥४८॥चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।स्वशरीरमृदा सर्गः कुतोयं क्रियतेऽनिशम् ॥४९॥संकल्पनिर्मिते सर्गे दृषदश्चेन्न चेतनाः ।तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥५०॥कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।प्राडवृष्टं कल्पनादीनामन्यैवार्थकुलावताम् ॥५१॥तद्धाम संविदो धाम्नि मणिराशौ मणिर्यथा ।सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥५२॥अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥५३॥यथा प्रवृत्तं चिद्वारि वहत्यावर्ततेऽवनौ ।स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥५४॥पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥५५॥अजातमनिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥५६॥यत्संविन्मयमद्व्यादि संकल्पजगति स्थितम् ।तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥५७॥जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे ।खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ॥५८॥यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥५९॥यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥६०॥दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥६१॥नेहाकृतिर्न च भवाभवजन्मनाशाःसत्ता न चैव न च नाम तथास्त्यसत्ता ।शान्तं परं कचति केवलमात्मनीत्थंब्रह्माथवा कचनमप्यलमत्र नास्ति ॥६२॥आद्यन्तवर्जितमलभ्यलताग्रमूल-निर्माणमूलपरिवेशमशेषमच्छम् ।अन्तस्थनिर्गगनसर्गकपुत्रकौघंनित्ये स्थितं ननु घनं गतजन्मनाशम् ॥६३॥सन्मात्रमन्तरहिताखिलहस्तजातंपर्यन्तहीनगणनाङ्गममुक्तरूपम् ।आत्माम्बरात्मकमहं त्विदमेव सर्वंसुस्तम्भरूपमजमौनमलं विकल्पैः ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतास्वैन्दवोपाख्यानं नामाष्टसप्तत्यधिकशततमः सर्गः ॥१७८॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP