संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८२ Translation - भाषांतर वृद्धतापस उवाच ।तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश ।स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥१॥तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः ।उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥२॥ततो गौर्या प्रयातायां तद्वनं तादृशं महत् ।सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥३॥मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः ।कदाचित्त्यक्तराज्यश्रीर्मुनीनामाश्रमान्भ्रमन् ॥४॥इमं देशमनुप्राप्त इह चाश्रमवासिमिः ।पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥५॥केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह ।भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥६॥तपस्विनोऽष्टाविह ते तथा नाम तदाऽवसन् ।यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥७॥कालेनानन्तरमसावेकः श्रीपर्वतं गतः ।स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥८॥वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् ।इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥९॥सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् ।यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥१०॥अथ संपादितं तेषां सर्वेषामेतदीप्सितम् ।तपस्तुष्टाभिरिष्टाभिर्देवताभिर्वरर्वरैः ॥११॥तपतस्ते ततो याता भ्रातरः सदनं निजम् ।भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥१२॥तैर्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा ।इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥१३॥देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरस्थितौ ।सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥१४॥तमिष्टदेवतासार्थमुररीकृत्य सादरम् ।तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥१५॥ते ततः सदनं यातास्तेषामाश्रमवासिनः ।सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥१६॥अहं केवलमेकान्ते ध्यानैकगतमानसः ।वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥१७॥अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि ।इदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥१८॥इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् ।वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥१९॥अथैनं देशमायातौ भवन्तौ दीर्घतापसौ ।एतत्तत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥२०॥तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ ।तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः ॥२१॥अष्टानां भवतां भव्यं सदने स्वे भविष्यति ।महात्मनां ब्रह्मलोके वसूनामिव संगमः ॥२२॥इत्युक्ते तेन स मया पृष्टः परमतापसः ।संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥२३॥एकैव सप्तद्वीपास्ति भगवन्भूरियं किल ।तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥२४॥कदम्बतापस उवाच ।असमञ्जसमेतावदेव नो यावदुच्यते ।इदमन्यदसंबद्धतरं संश्रूयतां मम ॥२५॥एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये ।सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥२६॥अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु ।सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥२७॥अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् ।दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥२८॥तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् ।बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥२९॥दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः ।शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥३०॥अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे ।देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥३१॥देव्युवाच ।भर्त्रर्थमथ चात्मार्थे गृह्यतां बालिके वरः ।चिरं क्लिष्टासि तपसा निदाघेनेव मञ्जरी ॥३२॥इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका ।स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥३३॥आनन्दमन्थरोवाच वचनं मृदुभाषिणी ।आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥३४॥चिरंटिकोवाच ।देवि देवाधिदेवेन यथा ते प्रेम शंभुना ।भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥३५॥देव्युवाच ।आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते ।तपोदानैरतोऽन्यं त्वं वरं वरय सुव्रते ॥३६॥चिरंटिकोवाच ।अलभ्यमेतन्मे देवि तन्मद्भर्तुर्गृहान्तरात् ।मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥३७॥देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे ।तदेतदस्त्विति वरो दीयतामम्बिके मम ॥३८॥देव्युवाच ।एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥३९॥इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥४०॥देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥४१॥अद्यायमपि संयातु भार्याया निकटं पतिः ।भ्रातॄणां बान्धवानां च भवत्वन्योन्यसंगमः ॥४२॥इदमन्यदथेतेषामसमञ्जसमाकुलम् ।शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥४३॥तप्यतां तप एतेषां पितरौ तौ वधूयुतौ ।तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥४४॥शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥४५॥तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥४६॥धूलीलवमनादृत्य तं जरत्पान्थशङ्कया ।यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥४७॥सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।मां दुर्वाससमुल्लङ्घ्य गच्छस्यविहितानतिः ॥४८॥वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।विपरीता भविष्यन्ति लब्धा अपि महावराः ॥४९॥इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययो ॥५०॥अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥५१॥अतो वदाम्यहं तेषां नैकं नामासमञ्जसम् ।असमञ्जसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥५२॥चिद्व्योमसंकल्पमहापुरेऽस्मि-न्नित्थं विचित्राण्यसमञ्जसानि ।निःशून्यरूपेऽपि हि संभवन्तिदृश्ये यथा व्योमनि दृश्यजृम्भाः ॥५३॥इति श्री० वा० दे० मो० नि० उ० ब्र० तापसोपाख्यानान्तर्गत सप्तद्वीपेश्वरोपा० सप्तद्वीपेश्वरवर्णनं नाम द्व्यशीत्यधिकशततमः सर्गः ॥१८२॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP