संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६१ Translation - भाषांतर श्रीराम उवाच ।यन्मुनिव्याधयोरेतद्वृत्तं नानादशाशतम् ।अन्यकारणकं किं स्यादेतत्किं वा स्वभावजम् ॥१॥श्रीवसिष्ठ उवाच ।ईदृशाः प्रतिभावर्ताः परमात्ममहाम्बुधौ ।अनारतं प्रवर्तन्ते स्वतः स्वात्मनि खात्मकाः ॥२॥यथा स्पन्दात्मनो वायोरजस्रं स्पन्दलेखिकाः ।उद्यन्त्येव सतश्चित्त्वाच्चिद्व्योम्नि प्रतिभायुताः ॥३॥या यथा स्वाङ्गभूतास्मादुदिता प्रतिभा प्रभा ।तावत्सेह तथैवास्ते न हता यावदन्यया ॥४॥नानावयववानेक एवेहावयवी यथा ।चिद्ब्रह्मैकमिदं व्योम तथैवं प्रतिभात्मकम् ॥५॥ब्रह्म काश्चित्स्थिराः काश्चिदस्थिराः प्रतिभार्थवत् ।देहावस्था इवात्मस्थाः स्थितमात्मनि खात्मनि ॥६॥स्वात्मनि स्वप्नपुरवद्भानं चिति चमत्कृतिः ।किं सारं किमसारं वा किं सत्किं वाप्यसद्भवेत् ॥७॥परिज्ञातमिदं यावत्सर्वं चिद्व्योममात्रकम् ।दृश्यं जगद्भवद्बुद्धं न सन्नासत्किमुच्यते ॥८॥चिद्व्योममात्रकचनं संसारे सर्वतः शिवे ।आस्थानास्थादि किं तज्ज्ञा यथासंस्थानमास्थित ॥९॥समुद्यन्ति स्वतोऽम्भोधेर्वीचिवत्प्रतिभाकृताः ।स्वात्मिकाः स्वात्मनो देवात्कार्यकारणदृक्तया ॥१०॥स्फारं यत्परमं व्योम्नः स्वसंकल्पस्वसर्गवत् ।तत्तेनैव जगद्बुद्धं कुतः पृथ्व्यादयोऽत्र के ॥११॥भात्येवमयमाभासो नैव भाति च किंचन ।ब्रह्मण्येव स्थितं ब्रह्म तदविद्याभिधं स्वतः ॥१२॥घनता चिद्धनेनेह चिद्व्योमैवाखिलं जगत् ।इत्येव परमो बोध एतत्प्रौढिस्तु मुक्तता ॥१३॥चिद्व्योमशून्यतारूपमात्रमाभास आततः ।इदमप्रतिघं शान्तं जगदित्येव भासते ॥१४॥ध्यायिनः क्षीणदेहस्य ध्याने दृक्त्वे क्षणं स्थिते ।चिन्मात्रव्यतिरेकेण शक्तत्वं स्यात्किमुच्यताम् ॥१५॥चिद्धातुव्योमभागो यो भाति यत्र यथा यथा ।तथा तथा स तत्रास्ते यावदित्थं स्वभावतः ॥१६॥अविचारवतो दृश्यभ्रान्तिर्गगनमय्यपि ।जातितैमिरिकद्वीन्दुदोषवन्नोपशाम्यति ॥१७॥यदिदं दृश्यते किंचित्तद्ब्रह्मैव निरामयम् ।चिदाकाशमनाद्यन्तं तत्कथं किं प्रशाम्यति ॥१८॥स्वमसन्त्यजतो रूपं स्वच्छसंवेदनात्मकम् ।स्वप्नवत्कचनं स्वस्य यन्नाम तदिदं जगत् ॥१९॥शास्त्रार्थैस्तीक्ष्णया बुद्ध्या मिथो यन्न विकल्पनैः ।कृत्वा सुप्तमिवात्मानं किंचिद्बुद्धेन बोध्यते ॥२०॥रूढा येयमविद्येति संविदव्यभिचारिणी ।भवतां ननु नास्त्येव सा सरित्स्विव पांसुभूः ॥२१॥यथा स्वप्नेऽवनिर्नास्ति स्वानुभूतापि कुत्रचित् ।तथेयं दृश्यता नास्ति स्वानुभूताप्यसन्मयी ॥२२॥चिद्व्योममात्रमेवार्थाऽनलवद्भासते यथा ।स्वप्ने तथैव जाग्रत्त्वेऽनलं स्वस्यैव लक्ष्यते ॥२३॥इदं जाग्रदयं स्वप्न इति नास्त्येव भिन्नता ।सत्ये वस्तुनि निःशेषसमयोर्यानुभूतितः ॥२४॥नैतदेवमिति स्वप्नप्रबोधात्प्रत्ययो यथा ।मृत्वामुत्र प्रबुद्धस्य जाग्रति प्रत्ययस्तथा ॥२५॥कालमल्पमनल्पं च स्वप्नजाग्रदितीह धीः ।वर्तमानानुभवनसाम्यात्तुल्ये तयोर्द्वयोः ॥२६॥बाह्ये तदेवमित्यादिगुणसाम्यादशेषतः ।न जाग्रत्स्वप्नयोर्ज्यायानेकोऽपि यमयोरिव ॥२७॥यदेव जाग्रत्स्वप्नोऽयं यः स्वप्नो जाग्रदेव तत् ।नैतदेवं किलेत्यस्ति धीः कालेनोभयोरपि ॥२८॥आजीवितान्तं स्वप्नानां शतान्यनियतं यथा ।अनिर्वाणमहाबोधे तथा जाग्रच्छतान्यपि ॥२९॥उत्पन्नध्वंसिनः स्वप्नाः स्मर्यन्ते बहवो यथा ।तथैव बुद्धैः स्मर्यन्ते सिद्धैर्जन्मशतान्यपि ॥३०॥एवं समस्तसाधर्म्ये समस्तानुभवात्मनि ।कचति स्वप्नवज्जाग्रज्जाग्रद्वत्स्वप्नवेदनम् ॥३१॥यथा दृश्यं जगच्चेति नित्यमेकार्थतां गतौ ।उभौ शब्दौ तथैवैतज्जाग्रत्स्वप्नात्मकौ स्मृतौ ॥३२॥एवं स्वप्नपुरं स्फारं यथा व्योमैव चिन्मयम् ।तथैवेदं जगदतः क्वाविद्या दृश्यते कुतः ॥३३॥तदेवाकाशमात्रात्म यद्यविद्येति कथ्यते ।तद्यदास्ते तदेवाहं बन्धः स्वकलनात्मकः ॥३४॥तन्मैवं क्रियतामेतदबन्धस्यैव बन्धनम् ।कान्यता अमलव्योम्नश्चिन्मयस्य निराकृतेः ॥३५॥चिन्मयाकाशकचने क्वास्मिन्किल निराकृतेः ।दृश्यनामन्यविद्याख्ये बन्धो मोक्षोऽथवा कुतः॥३६॥नाविद्या विद्यते नाम बन्धो बन्धो न कस्यचित् ।मोक्षो न कस्यचिन्मोक्षश्चास्तिनास्तीति नास्त्यलम्॥नास्त्येव विद्याऽविद्या वा चिदेवेयं कचत्यजा ।ख एव खाकृतिः स्वप्न इव सर्गस्वदेहिनी ॥३८॥देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।तज्जाग्रत्स्वप्नदृश्यस्य रूपमित्येव निश्चयः ॥३९॥सबाह्याभ्यन्तरे दृश्ये शान्तनिद्रस्य यद्वपुः ।एकस्य निशि तद्रूपं जाग्रत्स्वप्नदृशामिह ॥४०॥विद्धि तद्रूपमेवेदं भेदवेदनमित्यपि ।चित्यन्तमागतः कोऽन्यो नाम स्याद्भेदवेदने ॥४१॥चिद्व्योमैवाभेदबुद्धिश्चिद्व्योमैव च भेदधीः ।द्वैताद्वैते चैकमेव तथा शान्तमखण्डितम् ॥४२॥सदंशो बोधतद्ग्राह्यमय एव यथा तथा ।दृष्टा य एव दृश्यं तद्द्वैतवेदनमेककम् ॥४३॥तद्ब्रह्म खं विदुर्द्वैतमद्वैताद्वैतमेव च ।सर्ग एव परं ब्रह्म द्वैतमद्वैतमेव सत् ॥४४॥नेति नेति विनिर्णीय सर्वतोऽभिभवत्यपि ।पश्चात्त्यक्त्वा चिदाकाशे शिलां कृत्वास्यतामिह ॥४५॥यथाक्रमं सुभग यथास्थितस्थितियथोदयं व्रज पिब भुंक्ष्व भोजय ।अभीप्सितं गतमननो निरिङ्गनःसुचिन्मये परमपदोपलो भवान् ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अ० वि० श० निर्वाणवर्णनं नामैकषष्टयधिकशततमः सर्गः ॥१६१॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP