संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ३५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ३५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।देशाद्देशान्तरं दूरं प्राप्तायाः संविदः क्षणात् ।यद्रूपममलं मध्ये परं तद्रूमात्मनः ॥१॥गच्छन्श्रृण्वन्स्पृशञ्जिघ्रन्नुन्मिषन्निमिषन्हसन् ।नूनं निरामयत्वाय नित्यमेतन्मयो भव ॥२॥तत एव निराभासात्सत्यान्निर्वासनैषणात् ।यथास्थितं यथाचारमचलाऽमरशैलवत् ॥३॥एतद्रूपमविद्यायाः प्रेक्षिता यन्न लभ्यते ।प्रेक्षिता लभ्यते चेत्सा तद्विद्यैव पराभवत् ॥४॥अविद्यासंभवाच्चेत्यचित्त्वे संभवतः क्व किम् ।चेत्यते कथमेवान्तः शान्तिरेव बलोदिता ॥५॥सत्यं ब्रह्म जगच्चैकं स्थितमेकमनेकवत् ।सर्वं वाऽसर्ववद्भाति शुद्धं चाशुद्धवत्ततम् ॥६॥अशून्यं शून्यमिव च शून्यं वाऽशून्यवत्स्फुटम् ।स्फारमस्फारमिव तदस्फारं स्फारसन्निभम् ॥७॥अविकारं विकारीव समं शान्तमशान्तवत् ।सदेवासदिवादृश्यं तदेवातदिवोदितम् ॥८॥अविभागं विभागीव निर्जाड्यं जडवद्गतम् ।अचेत्यं चेत्यभावीव निरंशं सांशशोभनम् ॥९॥अनहं सोऽहमिव तदनाशमिव नाशवत् ।अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहिवत् ॥१०॥आलोकि ध्वान्तघनवन्नववच्च पुरातनम् ।परमाणोरपि तनु गर्भीकृतजगद्गणम् ॥११॥सर्वात्मकमपि त्यक्तदृष्टं कष्टेन भूयसा ।अजालमपि जालाढ्यं चाशेषवदनेकधा ॥१२॥निर्मायमपि मायांशुमण्डलामलभास्करम् ।ब्रह्म विद्धि विदांनाथमपामिव महोदधिम् ॥१३॥जगद्रत्नमहाकोशं तुलायां तूलकाल्लघु ।मायामरीचिशशिनमपि नेक्षणगोचरम् ॥१४॥अनन्तमपि निष्पारं न च क्वचिदपि स्थितम् ।आकाशे वनविन्यासनगनिर्माणतत्परम् ॥१५॥अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥१६॥अकर्तृकर्मकरणमकारणमकारकम् ।अन्तःशून्यतयैवैतच्चिराय परिपूरितम् ॥१७॥जगत्समुद्गकमपि नित्यं शून्यमरण्यवत् ।अनन्तशैलकठिनमप्याकाशलवान्मृदु ॥१८॥प्रत्येकं प्रत्यहं प्रायः पुराणं पेलवं नवम् ।आलोकमन्धकाराभं तमस्त्वालोकमाततम् ॥१९॥प्रत्यक्षमपि दुर्लक्ष्यं परोक्षमपि चाग्रगम् ।चिद्रूपमेव च जडं जडमेव चिदात्मकम् ॥२०॥अहमेवानहंभावमनहं वाऽहमेव च ।अन्यदेव तदेवाहमहमेवान्यदेव तत् ॥२१॥अस्य पूर्णार्णवस्यान्तरिमे त्रिभुवनोर्मयः ।स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः ॥२२॥बिभर्ति सर्वमङ्गस्थं तुषारमिव शुक्लताम् ।भाति सर्वस्त्वनेनैव तुषारेणेव शुक्लता ॥२३॥अदेशकालावयवोऽप्येष देवो दिवानिशम् ।असज्जगत्तनोतीव यथा वारितरङ्गकम् ॥२४॥एतस्मिन्विकसन्तीमा विपुलाकाशकानने ।जगज्जरठमञ्जर्यः प्रसरत्पत्रपञ्चकाः ॥२५॥एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया ।अत्यन्तनिर्मलाकारः स्वयं मुकुरतां गतः ॥२६॥व्योमवृक्षफलस्यास्य स्वेच्छावयव उज्ज्वला ।सर्गोपलम्भ उद्यच्च चमत्कुर्वन्ति संविदि ॥२७॥अन्तस्थेन बहिष्ठेन नानानानातयात्मनि ।एष सोऽन्तर्बहिर्भाति भावाभावविभावया ॥२८॥एतद्रूपा पदार्थश्रीरेतस्मिन्नेतदिच्छया ।चमत्करोत्येतदर्थं जिह्वेव स्वास्यकोटरे ॥२९॥अस्याम्भसो द्रवत्वं यत्तदिदं जगदुच्यते ।संवित्स्यादूपलम्भाङ्गं भुवनावर्तवृत्तिमत् ॥३०॥शाम्यत्यत्र पदार्थश्रीः सर्वासामेव भास्वति ।एतस्मादेव चोदेति स्वालोक इव तेजसः ॥३१॥इदमेव जगत्सर्वं शुक्लत्वं तुहिने यथा ।अत एताः प्रवर्तन्ते विद इन्दोरिवांशवः ॥३२॥एतस्माद्रङ्गतोऽनङ्गाज्जगच्चित्रमिदं स्थितम् ।विद्ध्यभावविकारादिशान्तमेतन्मयं ततम् ॥३३॥अस्माद्वनतरोरेताः स्वरूढा गगनाङ्गणे ।दृश्यशाखाः प्रवर्तन्ते जगज्जालगुलुच्छकाः ॥३४॥व्ययोदयवती नूनमत्र दृश्यतरङ्गिणी ।नानातानन्तकुसुमा वहत्यविचलाचले ॥३५॥अस्मिन्व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः ।मृत्यत्यविरतारम्भं वारैर्नियतिनर्तकी ॥३६॥जगत्कोटिमहाकल्पकल्पोन्मेषनिमेषणः ।विताने नाट्यते भूयो जन्यते कालबालकः ॥३७॥उद्यत्स्वपि जगत्स्वेष शान्तमेवावतिष्ठते ।अनिच्छ एव मुकुरः प्रतिबिम्बशतेष्विव ॥३८॥भूतानां वर्तमानानां सर्गाणां संभविष्यताम् ।एषोऽकारणकं बीजं सर्गाणामिव कारणम् ॥३९॥अस्योन्मेषो जगल्लक्ष्मीर्निमेषः प्रलयागमः ।अनुन्मेषनिमेषोऽसावात्मन्येवावतिष्ठते ॥४०॥उद्यन्त्यमूनि सुबहूनि महामहान्तिसर्गागमप्रलयजन्मदशा जगन्ति ।सर्वाणि तान्ययमपारस्वरूप एवप्रस्पन्दनानि मरुदेव यथास्व शान्तम् ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० परब्रह्मस्वरूपवर्णनं नाम पञ्चत्रिंशः सर्गः ॥३५॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP