संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १००

निर्वाणप्रकरणं - सर्गः १००

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
युक्तिः स्यात्कीदृशी ब्रह्मन्संसारे दुःखशान्तये ।
तेषां येषामयं पक्षः श्रूयतामुच्यतां ततः ॥१॥
यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥२॥
श्रीवसिष्ठ उवाच ।
यं यं निश्चयमादत्ते संविदन्तरखण्डितम् ।
तत्तथैवानुभवति प्रत्यक्षमिति सर्वगम् ॥३॥
यथा खं सर्वगं शान्तं तथा चिद्व्योम सर्वगम् ।
तदेवैक्यमथ द्वैतमन्यार्थस्यात्यसंभवात् ॥४॥
सर्गादौ तदृतेऽन्योऽर्थो महाप्रलयरूपिणि ।
अकाणरत्वान्नास्त्येव ब्रह्मैवेदमतस्ततम् ॥५॥
समस्तवेदशास्त्रार्थं ये महाप्रलयादि च ।
नेच्छन्ति ते महामूढा निःशास्त्रा नो मृता इव ॥६॥
सर्वशास्त्राविरुद्धेन सर्वं ब्रह्मेदमित्यलम् ।
स्थितं सानुभवं योक्तृ येषां तैर्न कथाक्रमः ॥७॥
नित्या निरन्तरोदेति यादृशी संविदाशये ।
भूयते तन्मयेनैव पुंसा देहोऽस्तु माथवा ॥८॥
बोधाच्चेत्संविदो जातः स दुःखी पुरुषो भवेत् ।
विरुद्धं वेदनं यावत्तावज्जीवोऽङ्ग तन्मयः ॥९॥
जगच्चिद्व्योमकचनमात्रमेवेति भाविते ।
तत्कथं वेदनं व्योम्ना बोधः कस्य कुतो भवेत् ॥१०॥
न कानिचित्प्रधावन्ति एकनिश्चयसंविदाम् ।
पुंसां सुखानि दुःखानि रजांसि नभसामिव ॥११॥
संवित्सत्यास्त्वसत्या वा निश्चयस्तावदीदृशः ।
आबालमेतत्संसिद्धं केनापह्नूयते कथम् ॥१२॥
न देहः पुरुषो वापि जीवोऽन्य उपलभ्यते ।
संवित्सर्वमिदं सा तु यथा वेत्ति तथा जगत् ॥१३॥
सा सत्याप्यथवासत्या तया देहोऽनुभूयते ।
स्वातन्त्र्येण यथा स्वप्ने पाताले खे जले दिवि ॥१४॥
संवित्सत्यास्त्वसत्या वा तावन्मात्रः स्मृतः पुमान् ।
स यथानिश्चयो नूनं तत्सत्यमिति निश्चयः ॥१५॥
प्रामाण्यं सर्वशास्त्राणामेतेनैव प्रसिद्ध्यति ।
सर्वसिद्धान्तसिद्धान्त एष एवेति मे मतिः ॥१६॥
तस्मादबोधता यास्ते यथा संवित्तथैव सा ।
भवत्यकलुषाकारा तथैव फलभागिनी ॥१७॥
देशकालक्रियाद्रव्यवेदशास्त्रैषणाभ्रमैः ।
अबोधता तु या संवित्कदाचित्सा न नश्यति ॥१८॥
आविर्भवति सा भूयः क्षीणाशङ्का क्षणेन चेत् ।
तत्केन संविदो दुःखं कदा नामोपशाम्यति ॥१९॥
संविदेव नृणां जीवः स यथा दृढभावनः ।
तथा सुखी वा दुःखी वा भवेदित्येष निश्चयः ॥२०॥
संविच्चेदस्ति तज्ज्ञानां शरणं भवभेदने ।
नास्ति चेत्तच्छिलामूकमान्ध्यमेवावशिष्यते ॥२१॥
यत्तयैव च संवित्त्या वेदनेनैव लभ्यते ।
अयं स्वभावज्ञप्त्यान्तर्जाड्यं पुंसेव निद्रया ॥२२॥
श्रीराम उवाच ।
दिक्ष्वधस्ताच्च नान्तोऽस्या भावी नापि जगत्क्षयः ।
अस्तीति भावितं येन संत्यक्ताऽभावबुद्धिना ॥२३॥
विज्ञानघनमेवेदमिति नूनमपश्यता ।
पश्यता च यथादृष्टं सर्वक्षयमपश्यता ॥२४॥
तस्य स्यात्कीदृशी ब्रह्मत्युक्तिराधिविनाशने ।
इति मे संशयं छिन्धि भूयो बोधाभिवृद्धये ॥२५॥
श्रीवसिष्ठ उवाच ।
अत्रैकं तावदुचितं पूर्वमेव तथोत्तरम् ।
द्वितीयमुत्तरं न्याय्यं वक्ष्यमाणमिदं श्रृणु ॥२६॥
ईदृग्भावस्त्वया प्रोक्तो यः पुमान्पुरुषोत्तम ।
स तावच्चेतनामात्रं भवतीत्यनुभूयते ॥२७॥
स चाकारविनाशेन युज्यते नात्र संशयः ।
अथाविनाशो देहश्चेत्तदुःखस्यात्र कः क्रमः ॥२८॥
भवेद्भागविभागात्मविनाशस्त्वविचारितः ।
अवश्यं तस्य भवति किलेति ननु निश्चयः ॥२९॥
मृतः स संविदात्मत्वाद्भूयो नो वेत्ति संसृतिम् ।
ज्ञानधौता न या संविन्न सा तिष्ठत्यसंसृतिः ॥३०॥
अथवा नास्ति संवित्तिरिति निश्चयवान्यदि ।
ततस्तादृग्वेदनतो भवत्येव दृषज्जडः ॥३१॥
यथावेदनमर्थेषु चित्त्वे देहक्षयात्क्षते ।
मृतिरेव परं श्रेयो दृष्टं नानुभवादिति ॥३२॥
असंभवाच्छुद्धविदो निःशरीरा भवन्ति ये ।
जडभावा जडीभूय दुर्भेदान्ध्या भवन्ति ते ॥३३॥
ये चापि स्वप्नपुरवत्सर्वं पश्यन्ति चिन्मयाः ।
तेषामिदमिवाशेषं जगज्जालं प्रवर्तते ॥३४॥
स्थैर्यास्थैर्येण भूतानां किमपूर्वमतौ भवेत् ।
भूतस्थैर्ये तथास्थैर्ये सुखं चैवासुखं समम् ॥३५॥
स्थिरमस्त्वस्थिरं वापि मह्यादिमहतामपि ।
चिद्भामात्रमिदं भाति यावदज्ञानमाततम् ॥३६॥
संविदा संविदोऽसत्तामिहाव्याप्य विनष्टया ।
निर्णीयाङ्गीकृतं यैर्वा जाड्यं तद्वालकैरलम् ॥३७॥
येषां विद्भ्यः शरीराणि ते वन्द्याः पुरुषोत्तमाः ।
शरीरेभ्यो विदो येषां तैरलं पुरुषाधमैः ॥३८॥
चिद्रूपो जीवबीजौघ आकाशकृमिजालवत्
ऊर्ध्वं तिर्यगधो याति पूर्यमाण इव स्वयम् ॥३९॥
चेत्यते येन कर्तान्यो बीजौघेन स तत्परः ।
तथैवानुभवत्यन्तः स्वयमेव विवल्गति ॥४०॥
यद्यथा चेत्यते येन तज्जीवेनाशु तेन तत् ।
चिद्रूपेणाप्यते सिद्धमेतदाबालमक्षतम् ॥४१॥
यथा धूमस्य नभसि यथाम्भोधौ महाम्भसः ।
आवर्तवृत्तयश्चित्रास्तथा चिद्व्योम्नि संसृतेः ॥४२॥
पुरी भवति चिद्व्योम यथा स्वप्ने नरं प्रति ।
तथादिसर्गात्प्रभृति तदेवेदं जगत्स्थितम् ॥४३॥
सहकारिनिमित्तानि यथा स्वप्ने न सन्ति वै ।
पृथिव्यादीनि भूतानि तथैवादौ जगत्स्थितेः ॥४४॥
अङ्गानां स्वप्ननगरे वसुधा विविधाः कृताः ।
यास्ता एव जगत्स्वप्ननगरे पुष्टतां गताः ॥४५॥
चिन्मात्राकाशमेवेमाः प्रजा द्वैतैक्यवर्जिताः ।
के वात्र रञ्जनान्या खे यद्वाभाति खमेव तत् ॥४६॥
चिच्चन्द्रिका चतुर्दिक्कं शीतलाह्लादकारिणी ।
तनोति चेतनालोकं तस्येदं कचनं जगत् ॥४७॥
अद्यैवाद्यन्तयोर्व्योम्नि चिन्मये सर्गदर्शनम् ।
चिदुन्मेषनिमेषाभ्यां खात्मोदेत्यस्तमेति च ॥४८॥
यद्यथा वेत्ति यत्तत्सत्तथैवानुभवत्यलम् ।
यस्मात्समस्तं चिन्मात्रं किमिवात्र न विद्यते ॥४९॥
शरदाकाशविशदं संविदः सौम्यमानसाः ।
असन्त एव तिष्ठन्ति सन्तोऽधिगततत्पदाः ॥५०॥
निर्मानमोहा जितसङ्गदोषाः
प्रवाहसंप्राप्तनिजार्थभाजः ।
तिष्ठन्ति कार्यव्यवहारदृष्टौ
निरामया यन्त्रमया इवैते ॥५१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे नास्तिक्यनिराकरणं नाम शततमः सर्गः ॥१००॥

N/A

References : N/A
Last Updated : September 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP