संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १०८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १०८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०८ Translation - भाषांतर श्रीराम उवाच ।अविद्या दृश्यरूपेयं कचन्ती यस्य विद्यते ।चिन्नभःस्वप्ननगरी दृश्यमानापि शून्यकम् ॥१॥तस्याज्ञस्य कियत्कालं किंरूपा स्यात्किमात्मिका ।कियती सा च वेत्येवं मुने मे कथ्यतां पुनः ॥२॥श्रीवसिष्ठ उवाच ।अविद्या विद्यते येषामज्ञानां भूतलादिका ।तेषामस्यां ब्रह्मणीव नास्त्यन्तोऽत्र कथां श्रृणु ॥३॥सदृशं जगतोऽस्यास्ति क्वचिदम्बरकोणके ।कस्मिंश्चिद्त्रिजगत्किंचिदनयैव व्यवस्थया ॥४॥अस्ति कश्चिद्भुवो भागो भूषणं तत्र भूस्थितेः ।पुरी ततमितिर्नाम्ना सुव्यक्तकलनाऽवनौ ॥५॥तत्रासीत्पार्थिवः कश्चिद्विपश्चिदिति विश्रुतः ।यः सभायां सुसभ्यायां विपश्चित्त्वाद्विराजते ॥६॥राजहंस इवाब्जिन्यामृक्षचक्र इवोडुराट् ।सुमेरुरिव शैलौघे यः सभायामराजत ॥७॥निवर्तते यतोऽशक्त्या वचनं गुणवर्णनात् ।कवीनामचलाकारा भवेद्भा भूधरो यथा ॥८॥प्रातःप्रातर्विकसितात्सर्वाशाभासनोद्यतात् ।यतः प्रतापजनितश्रीरुदेत्यम्बुजादिव ॥९स ब्रह्मण्यमतिर्मानी वह्निमेवाधिदैवतम् ।अपूजयत्समं भक्त्या देव वेत्ति स्म नेतरम् ॥१०॥समत्स्यमकरव्यूहा गजवाजिगणान्विताः ।आवर्तचक्रव्यूहाढ्याः कल्लोलबलमालिताः ॥११॥मर्यादापालने युक्ता अकम्पनबलाधिकाः ।मन्त्रिष्वप्यस्य चत्वारो दिक्षु सत्सागरा इव ॥१२॥तैरशेषककुप्चक्रनाभिराभासितावनिः ।आसीत्सुदुर्जयो जेता स सुदर्शनचक्रवत् ॥१३॥तमेकदा ययौ पूर्वदिङ्मुखाच्चतुरश्चरः ।स उवाच रहो रंहोगतिघोराक्षरं वचः ॥१४॥देव दोर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम् ॥१५॥पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा ॥१६॥तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः ॥१७॥तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।बलेनायाति ककुभौ ते समादातुमादृतः ॥१८॥पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।तावदेवारिभिरसावर्धमार्गे रणे हतः ॥१९॥श्रीवसिष्ठ उवाच ।अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।उपप्लवजडोत्पीड इव हर्म्यं विवेश ह ॥२०॥चर उवाच ।उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।इत आयाति सबलो भग्नसेत्वम्बुपूरवत् ॥२१॥श्रीवसिष्ठ उवाच ।इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात् ॥२२॥राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।उद्धाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः ॥२३॥श्लेष्यन्तां कंकटा देहेष्वागच्छन्तु पदातयः ।गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः ॥२४॥कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।श्रीवसिष्ठ उवाच ।वदत्येवं त्वरायुक्तं संरम्भवति राजनि ॥२५॥प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।प्रतीहार उवाच ।उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम् ॥२६॥राजोवाच ।गच्छाविलम्बितं तावदेनमेव प्रवेशय ।जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात् ॥२७॥श्रीवसिष्ठ उवाच ।इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।प्रणामपरमग्रेऽसौ राजाऽपश्यद्वलाधिपम् ॥२८॥क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसंततम् ।श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम् ॥२९॥स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।संस्तभ्याङ्गव्यथामाशु संततोच्छ्वासमुच्छ्वसन् ॥३०॥बलाध्यक्ष उवाच ।देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः ॥३१॥तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह ॥३२॥महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम् ॥३३॥श्रीवसिष्ठ उवाच ।अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः ॥३४॥पुरुषा मण्डलस्यास्य विपुला दललीलया ।स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर ॥३५॥कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव ॥३६॥पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत् ॥३७॥करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत् ॥३८॥नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।हेषन्ते हयसंघाता वातस्पन्दमहाब्धिवत् ॥३९॥रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।सर्वतो वलयाकारा लवणार्णववारिवत् ॥४०॥आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत् ॥४१॥शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः ॥४२॥समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।उद्यन्ति सैन्यसंघट्टैः कल्लोला जलधेरिव ॥४३॥परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।कोपादिवोग्रहुंकारैर्ज्वलन्ति विरटन्ति च ॥४४॥इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता ॥४५॥तमहं देव गच्छामि शक्त्यृष्टिशरसंगतः ।मयेहावेदितं सर्वं देवो जानात्यतः परम् ॥४६॥श्रीवसिष्ठ उवाच ।इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः ॥४७॥संभ्रान्तमन्त्रिनृपयोधनियोगिनाग-नारीरथाश्वपरिचारकनागरौघम् ।राज्ञो गृहं स्वभयतोलितहेतिसार्थंचण्डानिलाकुलमहावनतुल्यमासीत् ॥४८॥इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० अविद्योपाख्यानान्तर्गतविपश्चिदुपा०अविद्याक्षेपणे पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ॥१०८॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP