संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ८६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ८६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।श्रृणु राम कथं तत्र महाकाशे तथा स्थितः ।देहे भ्रान्तिं तु तां त्यक्त्वा स रुद्रोऽप्युपशाम्यति ॥१॥स रुद्रस्तौ जगत्खण्डौ तदा चित्र इवार्पिताः ।निस्पन्दा एव तत्रासन्प्रेक्षमाणे स्थिते मयि ॥२॥ततो मुहूर्तमात्रेण स रुद्रस्तौ नभोन्तरे ।खण्डौ विलोकयामास दृशार्केणेव रोदसी ॥३॥ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ ।तौ समानीय चिक्षेप पातालान्तरिवानने ॥४॥अतिष्ठदेक एवासावेकं खे खमिवाखिले ।भुक्तब्रह्माण्डखण्डोग्रमण्डमण्डकमण्डलः ॥५॥ततो मुहूर्तमात्रेण लघुः सोऽभ्रमिवाभवत् ।ततोऽभवद्यष्टिसमस्ततः प्रादेशमात्रकः ॥६॥ततः काचकणाकारो मया दृष्टः स तादृशः ।ततः सोऽणूभवन्दृष्टो मया स्वाद्दिव्यदृष्टिना ॥७॥परमाणुरथो भूत्वा ततस्त्वन्तर्द्धिमाययौ ।इत्यसौ शममायातः शरदम्बुदखण्डवत् ॥८॥तादृशोऽपि महारम्भः पुरः पश्यत एव मे ।इति सावरणे तेन ते ब्रह्माण्डकवाटके ॥९॥विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके ।अथाभून्निर्मलं व्योम शान्तं ब्रह्मैव केवलम् ॥१०॥अनादिमध्यपर्यन्तं संविदाकाशमात्रकम् ।इत्यहं दृष्टवांस्तत्र कल्पान्तमुरुविभ्रमम् ॥११॥दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे ।अथ तामङ्गनां स्मृत्वा तां शिलां तच्च विभ्रमम् ॥१२॥राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः ।तामालोकितवान्भूयः कलूधौतशिलामहम् ॥१३॥यावत्सर्वत्र सन्त्यत्र सर्गाः काल्या इवाङ्गके ।बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते यथा ॥१४॥सर्वत्र सर्वदा सर्वं यदस्त्येव तदा तथा ।दूरवत्प्रेक्ष्यते मांसदृशा यद्येव सा शिला ॥१५॥दृश्यते तच्छिलैवैका न तु सर्गादि किंचन ।सावस्थिता शिलैवैकरूपा निविडमण्डला ॥१६॥कलधौतमयी स्फारा संध्याजलदसुन्दरी ।ततोऽहं विस्मयाविष्टः प्रविचारितवान्पुनः ॥१७॥शिलायामपरं भागं तथैव परया दृशा ।यावत्तमपि पश्यामि जगदारम्भमन्थरम् ॥१८॥तथैव सुषिराकार इव नानार्थसुन्दरम् ।पुनरन्यं तथैवाहं प्रदेशं परिदृष्टवान् ॥१९॥सर्गसंरम्भवलितं यावत्तमपि तादृशम् ।यं यं प्रदेशं पश्यामि शिलायास्तत्र तत्र वै ॥२०॥जगत्पश्यामि विमलमादर्श इव बिम्बितम् ।मयातिकौतुकेनाथ सर्वास्तस्य गिरेः शिलाः ॥२१॥अन्विष्टा भूतिभागाश्च तृणगुल्मादयस्तथा ।यावत्सर्वत्र तत्तादृग्जगदस्ति यथास्थितम् ॥२२॥बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति ।क्वचित्प्रथमसर्गात्म जायमानप्रजापति ॥२३॥कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यृतुवत्सरम् ।क्वचित्क्वचिन्महीपीठसंपन्नजनमण्डलम् ॥२४॥क्वचित्किंचिदखातोग्रचतुःसागरखातकम् ।कचित्किंचिदसंजातसुरसंजातदानवम् ॥२५॥क्वचित्किंचित्कृतयुगाचारसज्जनभूतकम् ।क्वचित्किंचित्कलियुगाचारदुर्जनभूतकम् ॥२६॥क्वचित्किंचित्पुरव्यूहदैत्यसंगरदुस्तरम् ॥२७॥क्वचित्किंचिन्महाशैलजालनिर्विवरावनि ।क्वचित्किंचिदसंपन्नसर्गमेकाम्बुजोद्भवम् ॥२८॥क्वचित्किंचिज्जरामृत्यून्मुक्तभूतलमानवम् ।क्वचित्किंचिदसंजातचन्द्रशून्यशिरःशिवम् ॥२९॥अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम् ।असंजातामृताश्वेभवैद्यगोकमलाविषम् ॥३०॥शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम् ।क्वचित्किंचिच्च गर्भाङ्गकर्तनोत्कसुरेश्वरम् ॥३१॥अपरिम्लानधर्मत्वात्स्वप्रकाशाखिलव्रजम् ।क्वचित्किंचिच्च पूर्वान्यसंनिवेशक्रमस्थिति ॥३२॥अपूर्ववेदशास्त्रार्थसमाचारविचारणम् ।क्वचित्किंचिन्न कल्पान्तसंक्षोभमिव संस्थितम् ॥३३॥क्वचित्किंचिच्च दैत्यौघविलुण्ठितसुरालयम् ।क्वचित्किंचित्सुरोद्यानगायद्गन्धर्वकिन्नरम् ॥३४॥,क्वचित्किंचित्समारब्धगीर्वाणासुरसौहृदम् ।भूतभव्यभविष्यत्स्थजगदाडम्बरं मया ॥३५॥तदानुभूतं वपुषि महाविश्वगणात्मनि ।एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् ॥३६॥एकत्र सौम्यसकलभूतसंततिसंस्थितम् ।एकत्र समनुक्षुब्धसुरासुरनरेश्वरम् ॥३७॥एकत्रासंभवद्भानुनित्याभिन्नतमोघनम् ।एकत्रासंभवद्ध्वान्त कान्तं ज्वालोदरोपमम् ॥३८॥एकत्र नलिनीनालनिलीनमधुकैटभम् ।एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् ॥३९॥एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम् ।एकत्र कल्परजनीनिःशून्यतिमिराकुलम् ॥४०॥शिलाजठरनिस्पन्दं व्योमैव वितताकृति ।सुषुप्तजठराकारमप्रज्ञातमलक्षणम् ॥४१॥अप्रतर्क्यमविज्ञेयं सुषुप्तमिव सर्वतः ।एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् ॥४२॥एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम् ।एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् ॥४३॥एकत्र पुरवृत्रान्धवलिसंगरसंकुलम् ।एकत्र मत्तपातालगजकम्पिवसुन्धरम् ॥४४॥एकत्र शेषशिरसः कल्पान्तलुठितावनि ।क्वचिदल्पेन रामेण हतरावणराक्षसम् ॥४५॥रक्षसा रावणेनैव क्वचिद्विहतराघवम् ।भूस्थपादेन देवाद्रिशिरस्थशिरसा परम् ॥४६॥पश्याम्यम्बरमाक्रान्तं क्वचिद्वै कालनेमिना ।क्वचिच्चापसुरैर्नित्यं दानवैरेव पालितम् ॥४७॥क्वचिच्च भ्रष्टदनुजैरमरैरेव पालितम् ।जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः ॥४८॥क्वचिद्भारतयुद्धेन निहताक्षौहिणीगणम् ।श्रीराम उवाच ।किमहं भगवन्पूर्वमभवं कथयेति मे ॥४९॥अभवं चेदनेनैव संनिवेशेन तत्कथम् ।श्रीवसिष्ठ उवाच ।सर्व एव विवर्तन्ते राम भावाः पुनःपुनः ॥५०॥पूर्यमाणा यथा माषाः क्रमेणान्येन तेन वा ।सर्वक्रमसमाः केचित्तयैवान्येन वा मिथः ॥५१॥स्फुरन्त्यर्थसमा भावाः केचिदब्धितरङ्गवत् ।पुनस्त्वं पुनरेवाहं पुनः पुनरिमे जनाः ॥५२॥न कदाचन नैवान्ये संभवन्त्यखिलं परे ।त एवान्येऽथवाम्भोधौ तरङ्गा इव निर्णयः ॥५३॥यद्वन्न जायते तद्वद्भूतानां भ्रमतां भवेत् ।आयान्ति यान्त्यनन्तानि भूतानीह भवद्भ्रमैः ॥५४॥तान्येवान्यानि चान्यानि समानि विषमाणि च ।आवृत्तिमन्ति तान्येव तथैवान्यानि चाभितः ॥५५॥विद्धि सीकरजालानि भूतानि जगदम्बुधेः ।वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः ॥५६॥तैरेव केचिज्जायन्ते भूयोभूयः शरीरिणः ।अर्धैस्तैः सदृशाः केचित्केचित्पादेन तैः समाः ॥५७॥तज्जीवास्तैर्विसदृशा भवन्त्यन्यशरीरिणः ।सर्वैरेभिः समाः केचित्कालेनैव विलक्षणाः ।कालेन सदृशाः केचिदनेन च विलक्षणाः ॥५८॥कालेनाकुलचेष्टयान्य इव ते गच्छन्त्यधोर्ध्वं पुन-देहालेखनखेदितान्यगणितान्यन्यानि चान्यान्यलम्भूताम्बूनि वहन्ति संसृतिमये तान्यम्बुधौ चञ्चलेचक्रावृत्तिमयानि संकलयितुं शक्नोति कस्तान्यलम् ॥५९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण० उ० पाषा० जगदन्यायत्ववर्णनं नाम षडशीतितमः सर्गः ॥८६॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP