संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६३ Translation - भाषांतर श्रीराम उवाच ।विनेन्द्रियजयेनेदं नाज्ञत्वमुपशाम्यति ।तदिन्द्रियाणि जीयन्ते कथं कथय मे मुने ॥१॥श्रीवसिष्ठ उवाच ।न च प्रभूतभोगेषु न पुंस्त्वे न च जीविते ।न चेन्द्रियजयोन्मुक्तौ दीपस्तनुदृशो यथा ॥२॥तदिन्द्रियजये युक्तिमिमामविकलां श्रृणु ।सिद्धिमेति स्वयत्नेन सुखेन तनुरेतया ॥३॥चिन्मात्रं पुरुषं विद्धि चेतनाज्जीवनामकम् ।यच्चेतति स जीवोऽन्तस्तन्मयो भवति क्षणात् ॥४॥संवित्प्रयत्नसंबोधनिशिताङ्कुशकर्षणैः ।मनोमतङ्गजं मत्तं जित्वा जयति नान्यथा ॥५॥चित्तमिन्द्रियसेनाया नायकं तज्जयाज्जयः ।उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥६॥संविदं संविदाकाशे संरोप्य हृदि तिष्ठतः ।स्वयमेव मनः शाम्येन्नीहार इव शारदः ॥७॥स्वसंविद्यत्नसंरोधाद्यथा चेतः प्रशाम्यति ।न तथाङ्ग तपस्तीर्थविद्यायज्ञक्रियागणैः ॥८॥यच्च संवेद्यते किंचित्तत्तत्संविदि संविदा ।नूनं विस्मार्यते यत्नाद्भोगानामिति तज्जयः ॥९॥स्वसंवेदनयत्नेन विषयामिषतोऽनिशम् ।किंचित्संरोधिता संवित्तत्प्राप्तं वैबुधं पदम् ॥१०॥स्वधर्मव्यवहारेण यदायाति तदेव मे ।रोचते नान्यदित्येव पदे वज्रदृढीभव ॥११॥संवित्प्रवृत्तिमर्थेषु विरुद्धेषु विवर्जयन् ।अर्जयञ्छमसंतोषौ यः स्थितः स जितेन्द्रियः ॥१२॥संविद्रसिकतास्वन्तस्तथा नीरसतासु च ।यस्य नोद्वेगमायाति मनस्तस्योपशाम्यति ॥१३॥संवित्प्रयत्नसंरोधान्मनः स्वायनमुज्झति ।चेतश्चपलतोन्मुक्तं विवेकमनुधावति ॥१४॥विवेकवानुदारात्मा विजितेन्द्रिय उच्यते ।वासनावीचिवेगेन भवाब्धौ न स मुह्यते ॥१५॥साधुसंपर्कसच्छास्त्रसमालोकनतोऽनिशम् ।जितेन्द्रियो यथावस्तु जगत्सत्यं प्रपश्यति ॥१६॥सत्यावलोकनाच्छान्तिमेति संसारसंभ्रमः ।मराविव जलज्ञानं मिथ्यापतनदुःखदम् ॥१७॥अचेत्यमेव चिन्मात्रमिदं जगदिति स्थितम् ।इत्येव सत्यबोधस्य बन्धमोक्षदृशौ कुतः ॥१८॥अनाकारं यथा वारि क्षीणं वहति नो पुनः ।अकारणं तथा दृश्यं ज्ञानच्छिन्नं न रोहति ॥१९॥वेदनं व्योममात्रं त्वमहमित्यादिरूपधृक् ।वर्जयित्वैतदन्यत्स्यादहमित्यादिकं जगत् ॥२०॥अविद्यामात्रमेवेदमहमित्यादिकं जगत् ।चिद्व्योम्न्येव स्थितं शान्तं शून्यमात्रशरीरकम् ॥२१॥इदं चिद्व्योम्नि चिच्छाया जगदित्येव भासते ।शून्यशून्यैव चिच्चासौ शून्या चेत्येव निश्चयः ॥२२॥स्वप्नदर्शनदृष्टान्तः केन नामात्र खण्ड्यते ।असन्मयोऽनुभूतश्च स्वानुभूतोऽप्यसन्मयः ॥२३॥सोऽङ्ग संवित्तिमात्रात्मा यद्यद्राज्यं महीयते ।नकर्तृकर्मकरणं रूपं तद्वज्जगच्चितेः ॥२४॥अकर्तृकर्मकरणमहं चिद्धनमात्रकम् ।जगच्चेदमनिर्देश्यं स्वसंवेदनलक्षणम् ॥२५॥यथा स्वप्नेषु मरणमनुभूतं न विद्यते ।मरौ जलेच्छाऽविद्येयं विद्यमाना न विद्यते ॥२६॥चिद्व्योम्ना काचकच्यं स्वं सर्गादौ व्योम्नि चेतितम् ।जगदित्येव निर्मूलं काकतालीयवत्स्वयम् ॥२७॥निर्मूलमेव भातीदमभातमपि भातवत् ।तस्माद्यद्भासुरमिदं तत्तदेव पदं विदुः ॥२८॥जीवादिकचनं त्वत्र यद्भातीदं तदेव तत् ।शून्यतैव भवेद्व्योम वार्येवावर्तवृत्तयः ॥२९॥यथावयविनो रूपमेकं सावयवं भवेत् ।एकं जीवाद्यवयवं ब्रह्मानवयवं तथा ॥३०॥आभासमात्रं दृश्यात्म चिन्मात्रं शान्तमव्ययम् ।स्थितमास्थाः किमेतस्मिन्स्वभावे स्वे विचार्यते ॥३१॥नाद्यन्तमन्तःकलनाः काश्चित्सन्ति परे पदे ।तद्रूपमेवाविद्येयं नाविद्या त्विह विद्यते ॥३२॥जीवः स्वप्नाद्विशञ्जाग्रज्जाग्रतः स्वप्नमाविशन् ।प्रबुद्धो वास्त्वबुद्धो वाप्येकरूपतया स्थितः ॥३३॥स्थिते सुषुप्ततुर्ये द्वे सदा स्वप्नेऽथ जाग्रति ।जाग्रत्स्वप्नावेकमेव तुर्यं वेत्ति तु बुद्धधीः ॥३४॥जाग्रत्स्वप्नः सुषुप्तं च सर्वं तुर्यं प्रबोधिनः ।नाविद्या विद्यते तस्य द्वयस्थोऽप्येव सोऽद्वयः ॥३५॥द्वैतमद्वैतमित्येतदहंत्वमिदमित्यपि ।निरविद्यस्य कलना कुतः काप्यम्बरं कुतः ॥३६॥द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।क्रीडन्त्यबुद्धाः शिशवो बोधवृद्धा हसन्ति तान् ॥३७॥द्वैताद्वैतविवादेहा हृदयाकाशमञ्जरी ।विनैतयेह नोदेति प्रबोधाकाशमार्जनम् ॥३८॥सुहृद्भूत्वा विवादेन द्वैताद्वैतविचारणा ।कृता हृदयगेहेऽन्तरविद्याभस्ममार्जनी ॥३९॥तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥४०॥तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।जायते बुद्धियोगोऽसौ येन ते यान्ति तत्पदम्॥४१॥किलोपकुरुते यत्नात्तृणमात्रावगोपने ।कथं सिध्यत्ययत्नेन त्रैलोक्यगणगोपनम् ॥४२॥अध्यात्मव्यसनोन्मुक्तं ततं हृत्स्थाऽधमाऽप्रभु ।उपहासास्पदं यस्या जगदप्युत्तमस्थितेः ॥४३॥किं नामेदं किल सुखं यद्राज्यादिमनोङ्कुरम् ।तत्त्वज्ञानैकविश्रान्तौ देवराजपदं तृणम् ॥४४॥सुप्ताः प्रबुद्धाः पश्यन्ति दृश्यं दृश्ये रता यथा ।तथा दृश्येऽरताः शान्ताः सन्तः पश्यन्ति तत्पदम् ॥४५॥विना यत्नभरेणेदं न कदाचन सिद्ध्यति ।महतोऽभ्यासवृक्षस्य फलं विद्धि परं पदम् ॥४६॥इदं बहूक्तमेतेन किमेतेनेति दुर्मतिः ।न ग्राह्यैतावताप्युक्ते नादत्ते नेदमज्ञधीः ॥४७॥भूयोभूयः परावृत्त्या चिरमास्वाद्यते यदि ।श्रूयते कथ्यते चेदं तज्ज्ञेनाज्ञेन भूयते ॥४८॥यस्त्वेकवारमालोक्य दृष्टमित्येव संत्यजेत् ।इदं स नाम शास्त्रेभ्यो भस्माप्याप्नोति नाधमः ॥४९॥इदमुत्तममाख्यानमध्येयं वेदवत्सदा ।व्याख्येयं पूजनीयं च पुरुषार्थफलप्रदम् ॥५०॥यदस्मात्प्राप्यते शास्त्रात्तत्तद्वेदादवाप्यते ।अस्मिन्ज्ञाते क्रिया ज्ञानं द्वयं याति पवित्रताम् ॥५१॥वेदान्ततर्कसिद्धान्तस्त्वस्मिन्ज्ञाते च बुध्यते ।इदमुत्तममाख्यानं व्याख्यातं शास्त्रदृष्टिषु ॥५२॥कारुण्याद्भवतामेतदहं वच्मि न मायया ।भवन्तस्त्ववगच्छन्ति मायामेतद्विचार्यताम् ॥५३॥अस्माच्छास्त्रवराद्वोधा जायन्ते ये विचारितात् ।लवणैर्व्यञ्जनानीव भान्ति शास्त्रान्तराणि तैः ॥५४॥अनार्यमिदमाख्यानमित्यनादृत्य दृश्यधीः ।मा भवंत्वात्महन्तारो भवन्तो भवभागिनः ॥५५॥तातस्य कूपोऽयमिति ब्रुवाणाःक्षारं जलं कापुरुषाः पिबन्ति ।यथा भवन्तो विविचारवन्त-स्तथानिशं मा भवताज्ञताप्त्यै ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निवा० उ० इन्द्रियजयोपायशास्त्रवर्णनं नाम त्रिषष्ट्यधिकशततमः सर्गः ॥१६३॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP