संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।आतिवाहिकदेहोऽसौ तस्याद्यस्य प्रजापतेः ।काकतालीयवच्चित्त्वाद्यद्यथेत्यादि चेतति ॥१॥तत्तथा स्थितिमायाति चिरं संवित्स्वभावतः ।बत विश्वमिदं भातमत्रासत्ये कुतः स्मयः ॥२॥द्रष्टाऽसत्यमसत्यं दृगसत्यं दर्शनं ततम् ।सत्यमेवाथवा सर्वं ब्रह्मैवात्मतया तया ॥३॥श्रीराम उवाच ।इत्यातिवाहिकालोकः स तस्याद्यप्रजापतेः ।कठिनत्वं कथं यातः कथं स्वप्नस्य सत्यता ॥४॥श्रीवसिष्ठ उवाच ।आतिवाहिक आलोकः स्वत एवानुभूयते ।सदानवरतं तेन स एवाभाति पुष्टवत् ॥५॥यथा स्वप्नस्य पुष्टत्वं चिरानुभवनोचितम् ।अतिसत्यमिवाभाति स्वातिवाहिकता तथा ॥६॥आतिवाहिकदेहस्य चिरस्यानुभवोदये ।आधिभौतिकताबुद्धिरुदेति मृगवारिवत् ॥७॥जगत्स्वप्नभ्रमाभासं मृगतृष्णाम्बुवत्स्थितम् ।असदेवेदमाभाति सत्यप्रत्ययकार्यपि ॥८॥आतिवाहिकरूपाणामाधिभौतिकता स्वयम् ।असती सत्यवद्दूरमर्वाग्दर्शिभिरर्थिता ॥९॥अयं सोहमिदं तन्म इमा गिरिनभोदिशः ।इति मिथ्याभ्रमो भाति भास्वरस्वप्नशैलवत् ॥१०॥आतिवाहिकदेहोऽसौ स्रष्टुराद्यस्य भावितः ।आधिभौतिकतां चैतत्पिण्डाकारं प्रपश्यति ॥११॥चिन्नभश्चेतनं त्यक्त्वा ब्रह्माहमिति पश्यति ।अयं देहोऽयमाधार इति बघ्नाति भावनाम् ॥१२॥असत्ये सत्यबुद्ध्यैव बद्धो भवति भावनात् ।बहुशो भावयत्यन्तर्नानात्वमनुधावति ॥१३॥शब्दान्करोति संकेतं संज्ञाश्च स्पन्दनानि च ।ओमित्युक्ते ततो वेदाञ्छब्दराशीन्प्रगायति ॥१४॥तैरेव कल्पयत्याशु व्यवहारमितस्ततः ।मनो ह्यसौ कल्पयति यच्चेतति तदेव हि ॥१५॥यो हि यन्मय एवासौ स न पश्यति तत्कथम् ।असत्यैव जगद्भ्रान्तिरेवं प्रौढिमुपागता ॥१६॥आब्रह्मणो मुधा भाति चिरस्वप्नेन्द्रजालवत् ।इत्यातिवाहिकस्येयमाधिभौतिकतोचिता ॥१७॥आधिभौतिकता नास्ति काचित्किंचिदपि क्वचित् ।आतिवाहिकतैवैनामभ्यासाद्याति भावनाम् ॥१८॥मूलादेवैवमायातो मिथ्यानुभवनात्मकः ।मोहो ब्रह्मण एवायमित्यस्त्येष महात्मनाम् ॥१९॥एवमित्थं दशा राम पिण्डबन्धः क्व विद्यते ।भ्रान्तिरेवेदमखिलं ब्रह्मैवाभातमेव वा ॥२०॥न शाश्वतादन्यदिहास्ति कारणा-न्न कारणं तत्खलु कार्यतां विना ।न कार्यताकारणतादिसंभवो-ऽस्त्यनामये तत्किमपीदमाततम् ॥२१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० ब्रह्मैकताप्रतिपादनं नामैकोननवत्यधिकशततमः सर्गः ॥१८९॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP