संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५१ Translation - भाषांतर श्रीराम उवाच ।कथं केवलजाग्रत्त्वमकारणमनर्थकम् ।पराद्विकसति ब्रह्मन्गगनादिव पादपः ॥१॥श्रीवसिष्ठ उवाच ।अकारणं महाबुद्धे न कार्यमुपलभ्यते ।तज्जाग्रतः केवलस्य न कश्चिदिह संभवः ॥२॥तस्यातो संभवादन्ये जीवभेदाः सजीवकाः ।सर्वे न संभवन्त्येव कारणाभावविक्षताः ॥३॥नेह प्रजायते किंचिन्नेह किंचन नश्यति ।उपदेश्योपदेशार्थं शब्दार्थकलनोदयः ॥४॥श्रीराम उवाच ।कः करोति शरीराणि मनोबुद्ध्यादिचेतनैः ।को मोहयति भूतानि स्नेहरागादिबन्धनैः ॥५॥श्रीवसिष्ठ उवाच ।न कश्चिदेव कुरुते शरीराणि कदाचन ।न मोहयति भूतानि कश्चिदेव कदाचन ॥६॥अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः ।नानापदार्थरूपेण कमूर्म्यादितया यथा ॥७॥बाह्यं न विद्यते किंचिद्बोधः स्फुरति बाह्यवत् ।उदेति बोधहृदयाद्बीजादिव वरद्रुमः ॥८॥बोधस्यान्तरिदं विश्वं स्थितमेव रघूद्वह ।स्तम्भस्यान्तर्यथा शालभञ्जिका प्रकटीकृता ॥९॥सबाह्याभ्यन्तरात्मैकमनन्तं देशकालतः ।बोधामोदप्रसरणं जगदेव प्रबुध्यताम् ॥१०॥अयमेव परो लोको भाव्यतां वासनाक्षयः ।शाम्यतां परलोकस्थं काः किलायान्ति वासनाः ॥११॥देशकालक्रियालोकरूपचित्तात्मसत्पदम् ।देशकालादिशब्दार्थरहितं न च शून्यकम् ॥१२॥पदे पदविदामेव तस्मिन्बोधगतिर्भवेत् ।द्रष्ट्रणां शान्तदृश्यानामेवान्येषां न राघव ॥१३॥ये वै तरलगम्भीरमहंतागर्तमाश्रिताः ।पश्यन्ति ते तमालोकं न कदाचन केचन ॥१४॥चतुर्दशविधानन्तभूतजातसुघुंघुमा ।जगद्दृष्टिरियं ज्ञस्य शरीरावयवोपमा ॥१५॥कारणाभावतः सृष्टिर्नोदिता न च शाम्यति ।यादृशं कारणं वा स्यात्तादृग्भवति कार्यकम् ॥१६॥यदि स्यात्कारणे कार्यं स्थितं कारणतास्य का ।कार्यमेवोपलम्भात्तदसद्द्वयमवेदनात् ॥१७॥सौम्यस्यान्तर्यथाम्भोधेरूर्म्यावर्तादयः स्थिताः ।ब्रह्मण्यसंभवक्षोभे जगच्चित्तादयस्तथा ॥१८॥सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् ।नानाभाण्डात्म हेमैव यथान्तःस्थितरूपकम् ॥१९॥स्वप्नकाले स्वप्न एव जाग्रद्व्यग्रापरिग्रहात् ।जाग्रत्काले जाग्रदेव स्वप्नः सत्यावबोधतः ॥२०॥चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत्स्थितम् ।जाग्रत्स्वप्नत्वमायाति विचारविकलीकृतम् ॥२१॥सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।पीठबन्धं विमुञ्चन्ति गतकाल इवाम्बुदाः ॥२२॥यथा गलितुमारब्धो घनो गगनतामियात् ।तथा सत्यावबोधेन शाम्येत्सात्मग्रहं जगत् ॥२३॥शरदभ्रवदालूना मृगतृष्णाम्बुव्रत्तथा ।पुनः संस्पृश्यमानैव बोधाद्गलति दृश्यता ॥२४॥यथा दीप्तानले लीनं सुवर्णं घृतमिन्धनम् ।एकतां याति विज्ञाने तथा भुवनचित्तदृक् ॥२५॥बोधेन तनुतामेति पिण्डबन्धो जगत्त्रये ।पिशाचबुद्धिः सदने बोधितस्य यथा शिशोः ॥२६॥बोधस्यानन्तरूपस्य स्वयमेवात्मनात्मनि ।जगच्चित्तादिता भाता पिण्डबन्धः किलात्र कः ॥२७॥बोधाबोधनमेवेदं जगच्चित्तमिवोदितम् ।तदेवास्तं गतं बोधात्पिण्डबन्धस्य कास्तिता ॥२८॥जहाति पिण्डकाठिन्यं जाग्रत्स्वप्नावबोधतः ।परां पेलवतामेति हेम द्रुतमिवाग्निना ॥२९॥यथास्थितं बोध एव घनतामिव गच्छति ।विनैव देशकालाभ्यां तौ विनिर्माय हेमवत् ॥३०॥जाग्रत्येवं विचारेण स्वप्नाभे पेलवे स्थिते ।क्षीयमाणे शरत्काल इवैति तनुतां रसः ॥३१॥परां पेलवतां याता दृश्यलक्ष्म्यः स्थिता अपि ।स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः ॥३२॥क्व किल स्वात्मविश्रान्तिः क्वैतद्विषयवेदनम् ।सुषुप्तजाग्रतोरैक्यं भ्रान्ताभ्रान्तात्मनोर्भवेत् ॥३३॥चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते ।जगतीह पदार्थेभ्यः सत्यबुद्धिर्निवर्तते ॥३४॥कस्य स्वदन्तेऽसत्यानि कथमेव महामते ।मृगतृष्णाजलानीव दृश्यान्यपि पुरःस्थितैः ॥३५॥सत्यबुद्धौ विलीनायां जगत्पश्यति शान्तधीः ।जालद्वीपांशुजालाभमपिण्डात्माम्बरात्मकम् ॥३६॥जाग्रतो वस्तुतः शून्यात्परिज्ञातान्निवर्तते ।चित्तभ्रमात्मनो भ्रान्तिरूपास्वादनभावना ॥३७॥यदवस्त्विति विज्ञातं तत्रोपादेयता कुतः ।केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते ॥३८॥स्वप्नादिव परिज्ञाताद्रसो दृश्यान्निवर्तते ।द्रष्ट्रदृश्यदशादोषग्रन्थिच्छेदः प्रवर्तते ॥३९॥नीरसः शान्तमननो निर्वाणाहंकृतिः कृती ।वीतरागो निरायासः शान्तस्तिष्ठति बुद्धधीः ॥४०॥रसे नीरसतां याते वासना प्रविलीयते ।शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा ॥४१॥बोधाद्दीपांशुजालाभमघनं व्योम दृश्यते ।भ्रान्तिरूपं जगत्कृत्स्नं गन्धर्वनगरं यथा ॥४२॥नैवात्मानं न चाकाशं न शून्यं न च वेदनम् ।अत्यन्तपरिणामेन पश्यन्पश्यति तत्पदम् ॥४३॥यत्र नात्मा न शून्यं च न जगत्कलना न च ।न चित्तदृश्योदयधीः सर्वं चास्ति यथास्थितम् ॥४४॥भूम्यादिताऽज्ञसंबुद्धा ज्ञानादस्तमुपागता ।ज्ञस्य शून्यैव संपन्ना संस्थितापि न विद्यते ॥४५॥भवत्येकसमाधानसौम्यात्मा व्योमनिर्मलः ।तिष्ठत्यपगतासङ्गः स्थित एवाप्यसत्समः ॥४६॥अस्तंगतमना मौनी निरोधपदवीं गतः ।तीर्णः संसारजलधेः कर्मणामन्तमागतः ॥४७॥तनुभुवनगगनगिरिगण-करणपरं परममज्ञानम् ।विगलति गलिते तस्मिन्सकलमिदं विद्यमानमपि ॥४८॥संशान्तान्तःकरणोगलितविकल्पः स्वरूपसारमयः ।परमशमामृततृप्त-स्तिष्ठति विद्वान्निरावरणः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०मोक्षोपायेषु निर्वाणप्रकरणे उ० विश्रान्तियोगोपदेशो नामैकपञ्चाशः सर्गः ॥५१॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP