संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सर्वत्र सर्वथा सर्वं सर्वदा व्योम्नि चिन्मये ।साधु संभवति स्वच्छं शून्यत्वं ख इवाखिले ॥१॥यत्र चित्तत्र सर्गश्रीरव्योम्नि व्योम्नि वास्ति चित् ।चिन्मयत्वात्पदार्थानां सर्वेषां नास्त्यचित्क्वचित् ॥२॥पदार्थजातं शैलादि यथा स्वप्ने पुरादि च ।चिदेवैकं परं व्योम तथा जाग्रत्पदार्थभूः ॥३॥पाषाणाख्यानमत्रेदं शृणु राम रसायनम् ।पूर्व मयैव यद्दृष्टं चित्र प्रकृतमेव च ॥४॥अहं विदितवेद्यत्वात्कदाचित्पूर्णमानसः ।त्यक्तुमिच्छुरिमं लोकव्यवहारं घनभ्रमम् ओ ॥५॥ध्यानैकतानतामेत्य शनैर्विश्रान्तये चिरम् ।त्यक्ताजवं जवीभाव एकान्तार्थी शमं व्रजन् ॥६॥इदं चिन्तितवानस्मि कस्मिंश्चिदमरालये ।संस्थितो विविधाः पश्यन्भङ्गुरा जागतीर्गतीः ॥७॥विरसा खल्वियं लोकस्थितिरापातसुन्दरी ।न जातु सुखदा मन्ये कस्यचित्केनचित्क्वचित् ॥८॥उद्वेगं जनयत्यन्तस्तीव्रसंवेगखेदतः ।इमा दृश्यदृशो द्रष्टुरिष्टानिष्टफलप्रदाः ॥९॥किमिदं दृश्यते किं वा प्रेक्षते कोऽहमेव वा ।सर्व शान्तमजं व्योम चिन्मात्रात्मनि रिङ्गकम् ॥१०॥तस्मात्समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् ।सुप्रदेशमितो गत्वा संगोप्यात्मानमात्मना ॥११॥अदृश्यः सर्वभूतानां निर्विकल्पसमाधिगः ।समे स्वच्छे पदे शान्ते आसे विगतवेदनम् ॥१२॥तस्मात्को नु प्रदेशः स्यादत्यन्तं शून्यतां गतः ।यत्रैता नानुभूयन्ते पञ्च बाह्यार्थवेदनाः ॥१३॥शब्दकाननवार्यब्दभूतौघाभिसमाकुलाः ।क्षोभयन्त्यथ संक्षुब्धास्तस्मान्मे गिरयोऽरयः ॥१४॥नानाविधा नगेन्द्राणामन्तरावलिता जनैः ।देशा विषमया एव निःशेषा विषयाहिभिः ॥१५॥जनैर्जलचरैर्व्याप्ताः सागरा नीरकुक्षयः ।विविधारम्भसंक्षुब्धैर्नगराणीव नागरैः ॥१६॥तटान्यद्र्यम्बुराशीनां लोकपालपुराणि च ।भूताकुलानि शृङ्गाणि पातालकुहराणि च ॥१७॥गायन्त्यनिलभांकारैर्नृत्यन्ति लतिकाः करैः ।पुष्पैर्हसन्त्यगेन्द्राणां गुहा गहनकोटराः ॥१८॥मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः ।सरस्यो विरसा एव वार्यावर्तविराविताः ॥१९॥पवनस्पर्शसंक्षुब्धतृणपांसुपताकिनी ।रटत्यनिलभांकारैर्निर्झरोर्व्यप्यसंयता ॥२०॥तस्मादाकाशमाशून्यं कस्मिंश्चिद्दूरकोणके ।अत्र तिष्ठाम्यवष्टभ्य योगयुक्तिमनिन्दिताम् ॥२१॥कस्मिश्चिदेककोणेऽत्र कृत्वा कल्पनया कुटीम् ।वज्रोदरदृढं तस्यामन्तस्तिष्ठाम्यवासनम् ॥२२॥इति संचिन्त्य यातोऽहमाकाशमसि निर्मलम् ।यावत्तदपि पश्यामि सकलं विततान्तरम् ॥२३॥क्वचिद्भ्रमत्सिद्धगणं क्वचिदुद्गर्जदम्बुदम् ।क्वचिद्विद्याधराधारं यक्षोत्क्षिप्तक्षयं क्वचित् ॥२४॥क्वचिद्भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् ।क्वचिद्द्र्वज्जलधरं क्वचिदुद्वृत्तयोगिनि ॥२५॥क्वचिद्दैत्यपुरोड्डीनसगन्धर्वपुरं क्वचित् ।क्वचिद्भ्रमद्ग्रहगणं तारकाकुलितं क्वचित् ॥२६॥क्वचित्खे खगसंघृष्टं क्वचित्क्रुद्धमहानिलम् ।क्वचिदुत्पातवलितं क्वचिन्मण्डलमण्डितम् ॥२७॥क्वचिदपूर्वभूतौघं नागरावलितं क्वचित् ।क्वचिदर्करथाक्रान्तं क्वचिदन्यरथोद्धुरम् ॥२८॥क्वचिदादित्यदाहान्तं शशिशैत्यान्वितं क्वचित् ।क्वचित्क्षुद्रजनासह्यं क्वचिदग्न्यौष्ण्यदुर्गमम् ॥२९॥क्वचिदुत्तालवेतालं गरुडोड्डामरं क्वचित् ।क्वचित्सप्रलयाम्भोदं क्वचित्सप्रलयानिलम् ॥३०॥ततो भूतगणांस्त्यक्त्वा दूराद्दूरतरं गतः ।प्राप्तवानहमेकान्तं शून्यमत्यन्तविस्तृतम् ॥३१॥अत्यन्तमन्दपवनं स्वप्नेऽप्यप्राप्यभूतकम् ।मङ्गलोत्पातरहितमगम्यं विद्धि संसृतेः ॥३२॥कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।नीरन्ध्रकुड्यनिबिडा पद्मकुङ्मलसुन्दरी ॥३३॥घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा ।कह्लारकुन्दमन्दारपुष्पश्रीकोशशोभिता ॥३४॥समस्तभूतागम्यत्वं तत्र संकल्प्य चेतसा ।अगम्ये सर्वभूतानामहमासं तदा ततः ॥३५॥बद्धपद्मासनः शान्तमनाः परममौनवान् ।संवत्सरशतान्तेन निर्णीयोत्थानमात्मनः ॥३६॥निर्विकल्पसमाधिस्थो निद्रामुद्रामिवागतः ।समः सौम्यनभःस्वस्थः समुत्कीर्ण इवाम्बरात् ॥३७॥चिरं यदनुसंधत्ते चेतः पश्यति तत्क्षणात् ।चिरेण चाशापवनव्यक्तिवद्विततं यदा ॥३८॥तदा वर्षशतेनात्र बोधबीजं वृतान्तरम् ।आसीन्मे हृदयक्षेत्रे कालमेकं विकासतः ॥३९॥संप्रबुद्धोऽभवन्मेऽथ जीवः संबुद्धवेदनः ।शिशिरक्षीणगात्रस्य मधाविव रसस्तरोः ॥४०॥तच्छतं तत्र वर्षाणां निमेषमिव मे गतम् ।बह्व्योऽपि कालगतयो भवन्त्येकधियो मनाक् ॥४१॥विकासमागतो बाह्यं गतो बुद्धीन्द्रियक्रमः ।वासन्तः पुष्परूपेण मदस्येव रसो मम ॥४२॥मां प्राणपूरितमुपागतसंविदंश-मभ्यागतं त्वहमिति प्रसूतः पिशाचः ।इच्छाङ्गनाविवलितोऽथ कुतोऽपि सद्यःप्रोन्नामसन्नमनवायुरिवोग्रवृक्षम् ॥४३॥इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वाण० उ० पाषाणो० आकाशमन्दिरे वसिष्ठसमाधानवर्णनं नाम षट्पञ्चाशः सर्गः ॥५६॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP