संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५२ Translation - भाषांतर श्रीराम उवाच ।बोधो जगदिवाभाति मुने येन क्रमेण ह ।तं क्रमेण क्रमं ब्रूहि भूयो भेदनिवृत्तये ॥१॥श्रीवसिष्ठ उवाच ।वृक्षस्येव विमूढस्य यद्दृष्टौ तत्स्वचेतसि ।यन्न दृष्टौ न तच्चित्ते भवत्यल्पतरस्मृते ॥२॥भव्यः पश्यति शास्त्रार्थमेव पूर्वापरान्वितम् ।न दृष्टिविषयं वस्तु यत्पश्यति करोति तत् ॥३॥भावानुष्ठाननिष्ठः सन् शास्त्रार्थैकमना मुनिः ।भूत्वोपदेशं त्वमिमं श्रृणु श्रवणभूषणम् ॥४॥इयं दृश्यभरभ्रान्तिर्नन्वविद्येति चोच्यते ।वस्तुतो विद्यते नैषा तापनद्यां यथा पयः ॥५॥उपदेश्योपदेशार्थमेनां मदुपरोधतः ।सत्यामिव क्षणं तावदाश्रित्य श्रूयतामिदम् ॥६॥कुत एषा कथं चेति विकल्पाननुदाहरन् ।नेदमेषां न चास्तीति स्वयं ज्ञास्यसि बोधतः ॥७॥यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।सर्वं सर्वप्रकाराढ्यं कल्पान्ते तद्विनश्यति ॥८॥अस्य भागविभागात्मा नाशोऽवश्यमवारितः ।बिन्दुना बिन्दुना बोधे उद्धृतस्यास्ति हि क्षयः ॥९॥एवं स्थिते द्रव्यनाशे ब्रह्मणस्तन्मयत्वतः ।नानन्तत्वं न चास्तित्वं न च वै संभवत्यलम् ॥१०॥मदशक्तिरिव ज्ञानमिति नास्मासु सिध्यति ।देहो विज्ञानतोऽस्माकं स्वप्नवन्न तु तत्त्वतः ॥११॥नश्यत्येव च दृश्यश्रीः सैव नान्यैव नैव च ।इत्थं भवेत्समुचितं कृतं शास्त्रं च नान्यथा ॥१२॥सैवैतीत्यसमुल्लेखं कथं नष्टस्य संभवः ।तद्रूपान्येति युक्तं स्यादनुभूतानुगा वयम् ॥१३॥सैव व्योमतयैवासीदित्यसत्सैव सा कथम् ।तथैव व्योमसंस्था चेन्नाशं तर्हि न सा गता ॥१४॥कार्यकारणयोरेकरूपतैवं यदा तदा ।कार्यकारणताभावादैक्यमेवास्मदागमः ॥१५॥शून्यत्वमुपलम्भत्वं यद्गतं नष्टमेव तत् ।अन्यस्तर्हि भवेन्नाशः कीदृशः किल कथ्यताम् ॥१६॥नष्टं भूयस्तदुत्पन्नमिति यत्प्रत्ययेति कः ।नश्यत्यवश्यं तेनेदं पुनरन्यत्प्रवर्तते ॥१७॥मध्ये मध्ये यदुत्सेधफलाद्यवयवैकिका ।आदेहं बीजसत्तास्ति कार्यकारणता कुतः ॥१८॥देशकालक्रियात्मैकं यथादृष्टमिह स्थितम् ।बीजमेवैककर्मातो न घटः पटकार्यकृत् ॥१९॥सर्वदर्शनसिद्धान्ते नास्ति भेदो न वस्तुनि ।परमार्थमये तेन विवादेन किमत्र नः ॥२०॥इदं शान्तमनाद्यन्तं तद्रूपत्वाद्विचारतः ।व्योमाभं बोधतामात्रमनुभूतिप्रमाणतः ॥२१॥यथैतन्नानुभूतं सद्यथैतदनुभूयते ।यथैतत्सिद्धिमाप्नोति तदिदं कथ्यते क्रमात् ॥२२॥महाकल्पान्त उन्नष्टे सर्वस्मिन्दृश्यमण्डले ।आमहादेवपर्यन्तं समनोबुद्धिकर्मणि ॥२३॥व्योमन्यपि शमं याते कालेऽप्यकलितस्थितौ ।वायावपि त्वपगते तेजस्यत्यन्तमस्थिते ॥२४॥तेजस्यपि गते ध्वंसं वार्यादौ सुचिरं क्षते ।अलमन्तमनुप्राप्ते सर्वशब्दार्थसंचये ॥२५॥शिष्यते शान्तबोधात्म सदच्छं बाध्यवर्जितम् ।अनादिनिधनं सौम्यं किमप्यमलमव्ययम् ॥२६॥अवाच्यमनभिव्यक्तमतीन्द्रियमनामकम् ।सर्वभूतात्मकं शून्यं सदसच्च परं पदम् ॥२७॥तन्न वायुर्न चाकाशं न बुद्ध्यादि न शून्यकम् ।न किंचिदपि सर्वात्म किमप्यन्यत्परं नभः ॥२८॥तद्विदा तत्पदस्थेन तन्मुक्तेनानुभूयते ।अन्यैः केवलमाम्नातैरागमैरेव वर्ण्यते ॥२९॥न कालो न मनो नात्मा न सन्नासन्न देशदिक् ।न मध्यमेतयोर्नान्तं न बोधो नाप्यबोधितम् ॥३०॥किमप्येव तदत्यच्छं बुध्यते बोधपारगैः ।शान्तसंसारविसरैः परां भूमिमुपागतैः ॥३१॥प्रतिषिद्धा मयैते तु येऽर्थाः सर्वत्र ते स्थिताः ।अस्मद्बुद्ध्या परिच्छेद्याः सौम्याम्भोधेरिवोर्मयः ॥३२॥यथास्थितं स्थिताः सर्वे भावास्तत्र यथा तथा ।अनुत्कीर्णा महास्तम्भे विविधाः शालभञ्जिकाः ॥३३॥एवं तत्र स्थिताः सर्वे भावा एवं च न स्थिताः ।असर्वात्मैव सर्वात्म तदेव न तदेव च ॥३४॥पदं यथैतत्सर्वात्म सर्वार्थपरिवर्जितम् ॥यथा तत्र च पश्यन्ति तत्रैकपरिणामिनः ॥३५॥सर्वं सर्वात्मकं चैव सर्वार्थरहितं पदम् ।सर्वार्थपरिपूर्णं च तदाद्यं परिदृश्यते ॥३६॥तवैतावन्महाबुद्धे सर्वार्थोपशमात्मकम् ।न सम्यग्दानमुत्पन्नं संशयोऽत्र निदर्शनम् ॥३७॥यः प्रबुद्धो निराभासं परमाभासमागतः ।स्वच्छान्तःकरणः शान्तस्तं स्वभावं स पश्यति ॥३८॥अयं त्वमहमित्यादित्रिंकालगजगद्भ्रमः ।तत्रास्ति हेमपिण्डान्तरिव रूपकजालकम् ॥३९॥हेमपिण्डाद्यथा भाण्डजालं नानोपलभ्यते ।तथा न लभ्यते भिन्नं परमार्थघनाज्जगत् ॥४०॥सर्वदैव हि भिन्नात्मा स्वाङ्गभूतोपलम्भदृक् ।स जगद्द्वैतमेवेदं हेमेवाङ्गदरूपकम् ॥४१॥रिक्तं देशादिशब्दार्थैर्देशकालक्रियात्मकम् ।यथास्थितमिदं तत्र सर्वमस्ति न वास्ति च ॥४२॥यथोर्म्यादि समे तोये चित्रं चित्रकृदीहते ।भाण्डवृन्दं मृदः पिण्डे तथेदं ब्रह्मणि स्थितम् ॥४३॥तथैतदत्र नो भिन्नं नाभिन्नं नास्ति चास्ति च ।नित्यं तन्मयमेवाच्छं शान्ते शान्तमिदं तथा ॥४४॥अनिखातैव भातीयं त्रिजगच्छालभञ्जिका ।स्वरसस्येव दृश्यत्वमिता ब्रह्मणि दारुणि ॥४५॥निखाता दृश्यतां यान्ति स्तम्भस्थाः शालभञ्जिकाः ।अस्मिन्नक्षोभ्य एवान्तस्तरङ्गाः सृष्टिदृष्टयः ॥४६॥सरस्यतिरसे भान्ति चिद्घनामृतवृष्टयः ।अविभागे विभागस्था अक्षोभे क्षुभिता इव ।अविभाता विभान्तीव चिद्घने सृष्टिदृष्टयः ॥४७॥परमाणौ परमाणावत्र संसारमण्डलम् ।विभाति भासुरारम्भं न विभाति च किंचन ॥४८॥आकाशकालपवनादिपदार्थजात-मस्याङ्गमङ्गरहितस्य तदप्यनङ्गम् ।सर्वात्मकं सकलभावविकारशून्य-मप्येतदाहुरजरं परमार्थतत्त्वम् ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० ब्रह्मस्वरूपवर्णनं नाम द्विपञ्चाशः सर्गः ॥५२॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP